5-4-76 अक्ष्णः अदर्शनात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः अच्
index: 5.4.76 sutra: अक्ष्णोऽदर्शनात्
अक्ष्णः अदर्शनात् अच्
index: 5.4.76 sutra: अक्ष्णोऽदर्शनात्
समस्तपदे उत्तरपदरूपेण विद्यमानात् 'अक्षि' शब्दात् 'अच्' इति समासान्तप्रत्ययः भवति । परन्तु यत्र समस्तपदेन 'नेत्रम्' इति अर्थः निर्दिश्यते तत्र अयम् प्रत्ययः न विधीयते ।
index: 5.4.76 sutra: अक्ष्णोऽदर्शनात्
अचित्यनुवर्तते। दर्शनादन्यत्र योऽक्षिशब्दः तदन्तातच् प्रत्ययो भवति। लबणाक्षं। पुष्कराक्षम्। उपमितं व्याघ्रादिभिः इति समासः। अदर्शनातिति किम्? ब्राह्मणाक्षि। कथं कबराक्षम्, गवाक्षम् इति? अश्वादीनां मुखप्रच्छादनार्थं बहुच्छिद्रं कबराक्षम्, तेन अपि हि दृश्यते, गवाक्षेण च? न एष दोषः। चक्षुःपर्यायवचनो दर्शनशब्दः प्राण्यङ्गवचन इह अश्रीयते।
index: 5.4.76 sutra: अक्ष्णोऽदर्शनात्
अचक्षुः पर्यायादक्ष्णोऽच् स्यात्समासान्तः । गवामक्षीव गवाक्षः ॥
index: 5.4.76 sutra: अक्ष्णोऽदर्शनात्
अचक्षुःपर्यायादक्ष्णोऽच् स्यात्समासान्तः। गवामक्षीव गवाक्षः॥
index: 5.4.76 sutra: अक्ष्णोऽदर्शनात्
यत्र समस्तपदस्य उत्तरपदरूपेण 'अक्षि' इति शब्दः विद्यते, तत्र 'अच्' इति समासान्तप्रत्ययः भवति । परन्तु यदि समस्तपदेन नेत्रस्य निर्देशः क्रियते, तर्हि अयमच्-प्रत्ययः न भवति ।
यथा -
= लवण + अक्षि + अच् [वर्तमानसूत्रेण 'अच्' इति समासान्तप्रत्ययः]
→ लवणाक्षि + अच् [अकः सवर्णे दीर्घः 6.1.101]
→ लवणाक्ष् + अ [यस्येति च 6.4.148 इति इकारलोपः]
→ लवणाक्ष
लवणम् इव अक्षि यस्य सः लवणाक्षः । One having eyes full of tears - इत्याशयः ।
= पुष्कर + अक्षि + अच् [वर्तमानसूत्रेण 'अच्' इति समासान्तप्रत्ययः]
→ पुष्कराक्षि + अच् [अकः सवर्णे दीर्घः 6.1.101]
→ पुष्कराक्ष् + अच् [यस्येति च 6.4.148 इति इकारलोपः]
→ पुष्कराक्ष [अकः सवर्णे दीर्घः 6.1.101]
पुष्करम् इदं अक्षि इव तत् पुष्कराक्षम् । A blue lotus resembling an eye.
विशेषः - 'पुष्कराक्ष' अस्य शब्दस्य विषये 'पुष्करम् इव अक्षि यस्य सः' एतत् विग्रहवाक्यमपि भवितुमर्हन्ति ।
= गो + अक्षि + अच्
→ ग + अवङ् + अक्ष् + अच् [अवङ् स्फोटायनस्य 6.1.123 इति अवङ्-आदेशः । ङित्त्वात् अन्त्यादेशः]
→ गवाक्ष् + अच् [यस्येति च 6.4.148 इति इकारलोपः]
→ गवाक्ष
गवामक्षि इव तत् गवाक्षम् । A small opening in the wall that resembles cows eye, typically used to see outside is called गवाक्षम् ।
यदि 'नेत्रम्' अस्मिन् सन्दर्भे समस्तपदम् जायते, तर्हि अयम् प्रत्ययः न भवति । यथा - ब्राह्मणस्य अक्षि = ब्राह्मणाक्षि ।
index: 5.4.76 sutra: अक्ष्णोऽदर्शनात्
अक्ष्णोऽदर्शनात् - अथ तत्पुरुषेष्वसाधारणसमासान्तान् वक्तुमुपक्रमते — तत्पुरुषस्याङ्गुलेः ।अच्प्रत्यन्ववपूर्वा॑दित्यतोऽजित्यनुवर्तते, 'समासान्त' इत्यधिकृतम् । तेन समासस्य अन्तावयव इति लभ्यते । प्रत्ययः परश्च इत्यधिकारादच्प्रत्ययस्य तत्पुरुषात्परत्वेऽपि तस्य तदवयवत्वादङ्गुलेरित्यवयवषष्ठी । अङ्गुलेरिति तत्पुरुषविशेषणं, तदान्तविधिः । तदाह संख्याव्ययादेरिति । सङ्ख्या च अव्ययं च सङ्ख्याव्यये, ते आदी यस्येति विग्रहः । द्व्यङ्गुलमिति । तद्धितार्थ॑ इति द्विगुः । प्रमामे द्वयसज्दघ्नञ्मात्रचःप्रमाणेलो द्विगोर्नित्य॑मिति लुक् । द्व्यङ्गुलिशब्दादचि तस्य तद्धितत्वात्तस्मिन् परेयस्येति चे॑ति इकारलोपः । निरङ्गुलमिति ।निरादयः क्रान्ताद्यर्थे॑ इति समासः अच् इलोपः ।
index: 5.4.76 sutra: अक्ष्णोऽदर्शनात्
ठदर्शनात्ऽ इति वचनादक्षीवाक्षीत्यक्षिसदृशार्थवृत्तिरिहाक्षिशब्द उपातः। लवणाक्षम्, पुत्कराक्षमिति। लवणमक्षीव, पुत्करणक्षीवेति ठुपमितं व्याघ्रादिभिःऽ इति समासः। कथमित्यादि। ननु दर्शनादन्यत्र योऽक्षिशब्दस्तदन्तादित्युक्तम्, गवाक्षकबराक्षयोश्च समुदायो दर्शनवचनः, नाक्षिशब्द इति कात्रानुपपतिः? सत्यम्; अक्ष्यन्ताददर्शनादिति सूत्रार्थः कस्मान्न भवतीति मन्यमानस्यायं प्रश्नो द्रष्टव्यः। चक्षुःपर्याय इति। तस्य प्रसिद्धतरत्वादिति भावः ॥