उपमितं व्याघ्रादिभिः सामान्याप्रयोगे

2-1-56 उपमितं व्याघ्रादिभिः सामान्याप्रयोगे आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः समानाधिकरणेन

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उपमेयमुपमितम्, तद्वाचि सुबन्तं व्याघ्रादिभिः सामर्थ्याद् उपमानवचनैः सह समस्यते, तत्पुरुषश्च समासो भवति, न चेत् सामान्यवाची शब्दः प्रयुज्यते। <<विशेषणं विशेष्येण०>> २.१.५७ इति परनिपाते प्राप्ते विशेष्यस्य पूर्वनिपातार्थ आरम्भः। पुरुषोऽयं व्याघ्र इव पुरुषव्याघ्रः। पुरुषसिंहः। सामान्याप्रयोग इति किम्? पुरुषोऽयं व्याघ्र इव शूरः॥ व्याघ्र। सिंह। ऋक्ष। ऋषभ। चन्दन। वृक्ष। वृष। वराह। हस्तिन्। कुञ्जर। रुरु। पृषत। पुण्डरीक। बलाहक। आकृतिगणश्चायम्, तेनेदमपि भवति — मुखपद्मम्। मुखकमलम्। करकिसलयम्। पार्थिवचन्द्र इत्येवमादि॥

Siddhanta Kaumudi

Up

उपमेयं व्याघ्रादिभिः सह प्राग्वत्साधारणधर्मस्याप्रयोगे सति । विशेष्यस्य पूर्वनिपातार्थं सूत्रम् । पुरुषव्याघ्रः । नृसोमः । व्याघ्रादिराकृतिगणः । सामान्यप्रयेगे किम् । पुरुषो व्याघ्र इव शूरः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<उपमितं व्याघ्रादिभिः सामान्याप्रयोगे>> - उपमितम् । प्राग्वदिति । समानाधिकरणैः समस्यते स तत्पुरुष इत्यर्थः । अत्रोपमितस्य नित्यमुपमानाकाङ्क्षत्वादुपमानभूतव्याघ्रादिभिरित्यर्थसिद्धम् । ननु विशेषणसमासेनैव सिद्धे किमर्थमिदं सूत्रमित्यत आह-विशेष्यस्येति । उपमानोपमेयसमभिव्याहारे उपमानस्यैव विशेषणत्वात्पूर्वनिपाते प्राप्ते विशेष्यस्य पूर्वनिपातनार्थमिदमित्यर्थः । पुरुषव्याघ्र इति । पुरुषो व्याघ्र इवेति विग्रहः । अत्र सादृश्योपपादकः शौर्यात्मकः साधारणधर्मः, स इह नोपात्त इति भवति समासः । पुरुषोव्याघ्र इव शूर इति । शौर्येण व्याघ्रसदृश इति यावत् । अत्र शौर्यस्योपमानोपमेयसाधारणधर्मस्य प्रयोगान्न समास इति भावः ।भाष्याब्धिः क्वातिगम्भीरः॑ इति कैयटप्रयोगस्तु मयूरव्यंसकादित्वात्समाधेयः । बाष्यमेवाब्धिरिति रूपकं वा । न च पुरुषशब्दस्य शूरशब्दसापेक्षत्वादसामर्थ्यादेवात्र समासस्य न प्रवृत्तिः, अतः 'सामान्याऽप्रयोगे' इति व्यर्थमिति वाच्यं, समस्यमानेष्वप्रधानस्यैव हि सापेक्षत्वं सामर्थ्यविघातकं न तु प्रधानस्य । तथाचाऽत्र पुरुषस्य प्रधानतया तस्य शूरापेक्षत्वेऽपि अस्त्येव सामर्थ्यमिति समासप्रवृत्तेः, तन्निवृत्त्यर्थं सामान्याऽप्रयोग इति वचनम् । इदमेवप्रधानस्य सापेक्षत्वेऽपि न सामर्थ्यविघातकत्व॑मिति ज्ञापयति । तेन 'राजपुरुषः सुन्दर' इत्यादौ समासः सिद्धो भवतीति भाष्ये स्पष्टम् ।

Padamanjari

Up

उपमितमित्यत्र भूतकालो न विवक्ष्यत इत्याह - उपमोयमुपमितमिति। सामर्थ्यादिति। उपमेयमुपमानापेक्षमित्येतत्सामर्थ्येन चेत्सामान्यवाचीति यदा प्रकरणादिवशान्नियतः साधारणगुणः प्रतीयते तदा समासः, यदा तु गुणान्तरव्यवच्छेदाय विशिष्टः साधारणगुणवचनः शब्दः प्रयुज्यते तदा न समास इत्यर्थः। पुरुषोऽयं व्याघ्र इवेति। उपमानप्रदर्शनमेतत्, अत्र हि वैयधिकरण्यात्समासस्याप्रसङ्गः। यदा तु व्याघ्रश्बदस्ताध्दर्म्यात्पुरुषे वर्तते तदा सामानाधिकरण्ये सति समासः। अत एवोक्तम् - विशेषणं विशेष्येणेति प्राप्ते इति। पुरुषोऽयं व्याघ्र इव शूर इति। ननु सामान्यशब्दप्रयोगे सति तदपेक्षत्वादसामर्थ्यादेव न भविष्यति, एवं तर्ह्यतज्ज्ञापयति - भवति प्रधानस्य सापेक्षस्य वृत्तिरिति। तेन राजपुरुषोऽभिरुप औपगवः शोभन इत्यादि सिध्दं भवति। न्यायसिध्द एवार्थे लिङ्गदर्शनमिदम्। प्राधान्यादेवानेकोपकार्यत्वसम्भवात्पुरुषव्याघ्रोऽभिरुप इति भवत्येव। शौर्यं ह्यत्र समानधर्मः, नाभिरुपम्। अत एव'सामान्याप्रयोगे' इत्युक्तम्, न तु'गुणाप्रयोगे' इति॥