किमः क्षेपे

5-4-70 किमः क्षेपे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः

Sampurna sutra

Up

index: 5.4.70 sutra: किमः क्षेपे


किमः क्षेपे समासान्ताः न

Neelesh Sanskrit Brief

Up

index: 5.4.70 sutra: किमः क्षेपे


यस्मिन् समासे 'किम्' इति शब्दः निन्दाम् प्रदर्शयितुम् प्रयुज्यते, तस्मिन् समासे समासान्तप्रत्ययाः न भवन्ति ।

Kashika

Up

index: 5.4.70 sutra: किमः क्षेपे


क्षेपे यः किंशब्दः ततः परस्य समासान्तो न भवति। किंराजा यो न रक्षति। किंसखा योऽभिद्रुह्यति। किंगौर्यो न वहति। किं क्षेपे 2.1.64 इति समासः। क्षेपे इति किम्? कस्य राजा किंराजः। किं सखः। किंगवः।

Siddhanta Kaumudi

Up

index: 5.4.70 sutra: किमः क्षेपे


क्षेपे यः किंशब्दस्ततः परं यत्तदन्तात्समासान्ताः न स्युः । कुत्सितो राजा किंराजा । किंसखा । किंगौः । क्षेपे किम् । किंराजः । किंसखः । किंगवः ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.70 sutra: किमः क्षेपे


किं क्षेपे 2.1.64 इत्यनेन सूत्रेण क्षेप (= निन्दा) अस्मिन् अर्थे किम् इति शब्दः सुबन्तेन सह समस्यते । अस्मिन् समासे समासान्तप्रत्ययाः न भवन्ति - इति वर्तमानसूत्रस्य अर्थः ।

यथा - 'कुत्सितः राजा' (hated king / bad king) इत्यत्र किं क्षेपे 2.1.64 इत्यनेन 'किम् + राजन्' इति स्थिते वस्तुतः राजाहस्सखिभ्यष्टच् 5.4.91 इत्यनेन टच्-प्रत्ययः भवितुमर्हति, परन्तु वर्तमानसूत्रेण सः निषिध्यते । अतः अत्र 'किंराजन्' इत्येव प्रातिपदिकम् सिद्ध्यति । कुत्सितः राजा = किंराजा ।

Padamanjari

Up

index: 5.4.70 sutra: किमः क्षेपे


किराजेति।'किं क्षेपे' इति समासः। कस्य राजा किराज इति। प्रश्नेऽत्र किंशब्दः।'क्षेपे' इति शक्यमाकर्तुम्, कस्मादत्र न भवति - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति? कश्टिदाह - क्षेपग्रहणेनैज्ज्ञापयति - इयमिह परिभाषा नापतिष्ठत इति, तेन निन्दिता धूरस्य शकटस्य किंधूः शटकमिति बहुव्रीहावपि प्रतिषेधः सिद्धो भवतीति। तद्भाष्यविरोधादुपेक्ष्यम्। तस्माद्विस्पष्टार्थं क्षेपग्रहणम् ॥