5-4-113 बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः
स्वाङ्गवाची यः सक्थिशब्दोऽक्षिशब्दश्च तदन्ताद् बहुव्रीहेः षच् प्रत्ययो भवति समासान्तः। अयमर्थोऽभिप्रेतः। सूत्रे तु दुःश्लिष्टविभक्तीनि पदानि। दीर्घं सक्थि यस्य दीर्घसक्थः। कल्याणाक्षः। लोहिताक्षः। विशालाक्षः। बहुव्रीहाविति किम् ? परमसक्थि। परमाक्षि। सक्थ्यक्ष्णोरिति किम् ? दीर्घजानुः। सुबाहुः। स्वाङ्गादिति किम् ? दीर्घसक्थि शकटम्। स्थूलाक्षिः इक्षुः। टचि प्रकृते षज्ग्रहणं स्वरार्थम्। दीर्घसक्थी स्त्री। <<सक्थं चाक्रान्तात्>> ६.२.१९८ इति विभाषयोत्तरपदस्यान्तोदात्तता विधीयते। तत्र यस्मिन् पक्षे नास्त्युदात्तत्वं तत्र ङीपि सत्युदात्तनिवृत्तिस्वरस्याभावादनुदात्तः श्रूयेत। ङीषि तु सर्वत्रोदात्तः सिद्धो भवति। बहुव्रीहिग्रहणम् आ पादपरिसामाप्तेरनुवर्तते॥
व्यत्ययेन षष्ठी । स्वाङ्गवाचि सक्थ्यक्ष्यन्ताद्बहुव्रीहेः षच् स्यात् । दीर्घे सक्थिनी यस्य स दीर्घसक्थः । जलजाक्षी । स्वाङ्गात् किम् । दीर्घसक्थि शकटम् । स्थूलाक्षा वेणुयष्टिः । अक्ष्णोऽदर्शनात् <{SK644}> इत्यच् ॥
स्वाङ्गवाचिसक्थ्यक्ष्यन्ताद्बहुव्रीहेः षच् स्यात् । दीर्घसक्थः । जलजाक्षी । स्वाङ्गात्किम् ? दीर्घसक्थि शकटम् । स्थूलाक्षा वेणुयष्टिः । अक्ष्णोऽदर्शनादिति वक्ष्यमाणोऽच् ॥
<<बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्>> - बहुव्रीहौ । व्यत्ययेनेति ।सक्थ्यक्ष्णो॑रिति षष्ठी पञ्चम्यर्थे,व्यत्ययो बहुल॑मिति छन्दसिवचनादित्यर्थः ।छन्दोवत्सूत्राणि भवन्ती॑ति भाष्यम् ।बहुव्रीहा॑विति सप्तमी व्यत्ययेन पञ्चम्यर्थे । तदाह — स्वाङ्गवाचीति । सक्थ्यक्ष्यन्तादिति । बहुव्रीहिविशेषणत्वात्तदन्तविधिरिति भावः । षच्स्यादिति । समासान्तस्तद्धितश्चेति ज्ञेयम् । दीर्घसक्थ इति ।षच् । यस्येति चे॑ति लोपः । जलजाक्षीति । जलजे इव अक्षिणी यस्या इति विग्रहः । समासे षचि 'नस्तद्धिते' इति टिलोपः । षित्त्वान्ङीप् । षित्त्वं ङीषर्थमिति भावः । दीर्घसक्थि शकटमिति । दीर्घे सक्थिनी=सक्थिसदृशावोषादण्डौ यस्येति विग्रहः । अत्र सक्थिशब्दार्थयोरीषादण्डयोःअद्रवं मूर्तिमत्स्वाङ्ग॑मित्यादिस्वाङ्गलक्षणाऽभावान्न षजिति भावः । अत्रस्वाङ्गा॑दित्यस्य प्रत्युदाहरणान्तरमाह — स्थूलाक्षेति । स्थूलानि अक्षाणि=पर्वग्रन्थयो यस्या इति बहुव्रीहिः । अस्वाङ्गत्वादिह न षजिति भावः । ननु षजभावेऽपि नान्तलक्षणङीपि स्थूलाक्षिणीति स्यादित्यत आह — अक्ष्णोऽदर्शनादित्यजिति । षचि तु षित्त्वलक्षणङीष्स्यादिति भावः ।
स्वाङ्गमद्रवादिलक्षणं पारिभाषिकं गृह्यते। दुःश्लिष्टविभक्तीनीति। दुरुनिन्दायाम्। निन्दितं यथा तथा श्लिष्टाः सम्बद्धाः विभक्यो येषु तानि तथोक्तानि, तथा हि - बहुव्रीहिशब्दात्पञ्चम्या भवितव्यम्, समासान्तसम्बनधे षष्ठ।ल वा, यथा -'तत्पुरुषस्याह्गुलेः' इति; इह तु सप्तम्येकवचनं श्रुतम्।'सक्थ्यक्षणेः' इति षष्ठीद्विवचनम्, सप्तमीद्ववचनं वा। न चैवम्भूतेनानेन बहुव्रीहिः शक्यो विशेषयुतुम्; भिन्नविभक्तिवचनत्वात्। स्वाङ्गादिति पञ्चम्येकवचनम्, तच्च न सक्थ्यक्षणोः समानाधिकरणं विशेषणमवकल्पते, तत्चाभिप्रेतम्। तस्माद्विभक्तिव्यत्ययमाश्रित्य विभक्तयः सम्बन्धयितव्या इति'दुःश्लष्टविभक्तीनि' इत्युक्तम्। स्थूलाक्षिरिक्षुरिति। ठक्ष्णोऽदर्शनात्ऽ इत्यचात्र भवितव्यम्। यदि तु नेष्यते, समासान्तविधिरनित्य इति वक्तव्यम्; तत एव तर्हि षजपि न भविष्यति। तस्मात्स्थूलाक्षा, सूक्षमाक्षा वेणुयष्टिरिति अजेव टापि प्रत्युदाहर्तव्य इत्याहुः। दीर्घसक्थीति। दीघ सक्थ्यस्याः सा दीर्घसक्थी, अत्र षचि सतिक ङीषुदातो भवति, टचि तु सति ङीबनुदातः स्यात्। ननु टचश्चित्करणमन्तोदातार्थम्, ततश्च ङीबप्युदातनिवृत्तिस्वरेणोदात एव भविष्यति ? तत्राह - सक्यं चाक्रान्तादित्यादि। विभायेति।'विभाषोत्पुच्छ' इत्यतोऽनुवृतेः षचश्चित्करणमक्ष्यर्थम्। सक्थ्यपि यदाक्रान्तात्परं तदा नित्यमन्तोदातं भवति - चक्रसक्थः, वक्रसक्थ इति। गौरसक्थादौ तु नार्थश्चित्करणेन ॥