पूरणाद्भागे तीयादन्

5-3-48 पूरणात् भागे तीयात् अन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः

Sampurna sutra

Up

index: 5.3.48 sutra: पूरणाद्भागे तीयादन्


तीयात् पूरणात् भागे अन्

Neelesh Sanskrit Brief

Up

index: 5.3.48 sutra: पूरणाद्भागे तीयादन्


'भागः' इत्यस्य विशेषणरूपेण प्रयुक्तः यः 'तीय'प्रत्ययान्तशब्दः, तस्मात् स्वार्थे अन्-प्रत्ययः भवति ।

Kashika

Up

index: 5.3.48 sutra: पूरणाद्भागे तीयादन्


पूरणप्रत्ययो यस्तीयः, तदन्तात् प्रातिपदिकाद् भागे वर्तमानात् स्वार्थे अन् प्रत्ययो भवति। स्वरार्थम् वचनम्। द्वितीयो भागः द्वितियः। तृतीयः। भागे इति किम्? द्वितीयम्। तृतीयम्। पूरणग्रहणमुत्तरार्थम्, न ह्रपूरणस्तीयोऽस्ति। मुखतीयादिरनर्थकः।

Siddhanta Kaumudi

Up

index: 5.3.48 sutra: पूरणाद्भागे तीयादन्


द्वितीयो भागो द्वितीयः । तृतीयः । स्वरे विशेषः ।<!तीयादीकक् स्वार्थे वाच्यः !> (वार्तिकम्) ॥ द्वैतीयीकः । द्वितीयः । तार्तीयीकः । तृतीयः ।<!न विद्यायाः !> (वार्तिकम्) ॥ द्वितीया । तृतीया । विद्येत्येव ॥

Neelesh Sanskrit Detailed

Up

index: 5.3.48 sutra: पूरणाद्भागे तीयादन्


'तीय' इति कश्चन पूरणप्रत्ययः । द्वेस्तीयः 5.2.54 तथा त्रेः सम्प्रसारणम् च 5.2.55 इत्यनेन 'द्वि' तथा 'त्रि' एताभ्यां शब्दाभ्याम् पूरणार्थे अयम् प्रत्ययः विधीयते, तेन 'द्वितीय' तथा 'तृतीय' एतौ शब्दौ सिद्ध्यतः । 'भाग' इत्यस्य विशेषणरूपेण यत्र एतौ शब्दौ प्रयुज्येते, तत्र ताभ्याम् स्वार्थे 'अन्' प्रत्ययः वर्तमानसूत्रेण विधीयते । यथा -

द्वितीयः भागः

= द्वितीय + अन्

→ द्वितीय् + अ [यस्येति च 6.4.148 इति अकारलोपः]

→ द्वितीय

एवमेव - तृतीयः भागः = तृतीयः ।

ज्ञातव्यम् -

  1. वस्तुतः अत्र 'अन्' प्रत्ययस्य प्रयोगेण पुनः 'द्वितीय' तथा 'तृतीय' एतौ एव शब्दौ सिद्ध्यतः । अत्र प्रत्ययविधानमपि स्वार्थे कृतमस्ति, अतः अत्र 'द्वितीय' इत्यस्मिन्नेव अर्थे पुनः 'द्वितीय' इत्येव शब्दः सिद्ध्यति । अतः अस्य सूत्रस्य प्रयोजनम् किम् - इति प्रश्नः उपतिष्ठते । अस्य स्पष्टीकरणार्थम् काशिकाकारः वदति - 'स्वरार्थम् वचनम्' । इत्युक्ते, पूरणप्रत्ययान्तः 'द्वितीय'शब्दः, तथा अन्-प्रत्ययान्तः 'द्वितीय'शब्दः एतयोः स्वरे अन्तरम् विद्यते -

(अ) पूरणप्रत्ययान्तः यः 'द्वितीय' शब्दः, तस्मिन् तकारोत्तरः ईकारः आद्युदात्तश्च 3.1.3 इत्यनेन उदात्तस्वरम् प्राप्नोति ।

(आ) अन्-प्रत्ययान्तः यः 'द्वितीय'शब्दः, तस्मिन् वकारोत्तरः इकारः ञ्नित्यादिर्नित्यम् 6.1.197 इत्यनेन उदात्तस्वरम् प्राप्नोति ।

एतम् स्वरविशेषम् द्योतयितुम् एव अत्र 'अन्' इति प्रत्ययः उक्तः अस्ति । वस्तुतः तु अस्मिन् प्रत्यये 'अ' इत्यस्य किमपि प्रयोजनम् न, केवलम् 'न्' इति इत्संज्ञकस्यैव अत्र कार्यमस्ति । परन्तु केवलम् इत्संज्ञकः वर्णः प्रत्ययरूपेण विधातुम् न शक्यते, अतः प्रत्ययस्य प्रारम्भे 'अ' इति स्थापितः अस्ति ।

  1. अस्मिन् सूत्रे 'पूरणात्' इति निर्देशः वस्तुतः अत्र न आवश्यकः, यतः 'तीय' इति प्रत्ययः पूरणार्थे एव विधीयते । परन्तु 'पूरणात्' इत्यस्य अनुवृत्तिः अग्रिमसूत्रेषु आवश्यकी, अतः तदर्थमस्य शब्दस्य अत्र ग्रहणम् कृतमस्ति ।

विशेषः - अस्मिन् सूत्रे कौमुद्याम् वार्त्तिकम् एकम् पाठ्यते - <!तीयादीकक् स्वार्थे वाच्यः ; न विद्यायाः!> । इत्युक्ते, 'तीय' प्रत्ययान्तशब्दात् स्वार्थे 'ईकक्' इति प्रत्ययः भवितुमर्हति, यदि अनेन निर्मितः तद्धितान्तशब्दः 'विद्या' इत्यस्य विशेषणरूपेण न प्रयुज्यते । यथा - द्वितीय + ईकक् → द्वितीयीक । द्वितीयम् इत्येव द्वितीयीकम् । 'द्वितीया विद्या' इत्यत्र तु निषेधात् 'द्वितीयीका' इति न भवति ।

Balamanorama

Up

index: 5.3.48 sutra: पूरणाद्भागे तीयादन्


पूरणाद्भागे तीयादन् - पूरणाद्भागे । पूरणार्थकतीयप्रत्ययान्ताद्भागे विद्यमानात्स्वार्थे अन्स्यादित्यर्थः । अन्विधेः प्रयोजनमाह — स्वरे विशेष इति ।ञ्नित्यादिर्नित्य॑मिति स्वरे इत्यर्थः । तीयादीकगिति । वार्तिकमिदंदृष्टं सामे॑ति सूत्रभाष्ये स्थितम् । न विद्याया इति । वार्तिकमिदमपि तत्रैव स्थितम् । विद्यावृत्तेस्तीयप्रत्ययान्तादीकङ्नेत्यर्थः ।

Padamanjari

Up

index: 5.3.48 sutra: पूरणाद्भागे तीयादन्


पूरणार्थविहितत्वातीयप्रत्यय एव पूरणशब्देनोक्त इत्याह - पूरणप्रत्ययो यस्तीय इति। स्वरार्थं वचनमिति। भागे नित्स्वरेणाद्यदातत्वं यथा स्यात्, रूपे तु नास्ति विशेषः। पूरणग्रहणमुतरार्थमिति। नेहार्थम्, कुतः? इत्यत आह - न हीति। ननु चायमस्ति -'मुखपार्श्वतसोर्लोपः, भुखतीयः' इति ? तत्राह - मुखतीयादिरनर्थक इति। मुखतीयादौ यस्तीयशब्दः सोऽनर्थक इत्यर्थ ॥