5-3-34 उत्तराधरतक्षिणात् अतिः प्रत्ययः परः च आद्युदात्तः च तद्धिताः दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेषु अस्तातिः
index: 5.3.34 sutra: उत्तराधरदक्षिणादातिः
उत्तर-अधर-दक्षिणात् सप्तमी-पञ्चमी-प्रथमाभ्यः दिग्-देश-कालेषु आतिः
index: 5.3.34 sutra: उत्तराधरदक्षिणादातिः
'उत्तर', 'अधर' तथा 'दक्षिण' एते शब्दाः यदा 'दिशा', 'स्थान' उत 'काल' एतेषु अर्थषु प्रयुज्यन्ते, तदा तेषाम् सप्तम्यन्तेभ्यः, पञ्चम्यन्तेभ्यः तथा च प्रथमान्तेभ्यः रूपेभ्यः 'आति' इति प्रत्ययः स्वार्थे विधीयते ।
index: 5.3.34 sutra: उत्तराधरदक्षिणादातिः
उत्तराधरदक्षिणशब्देभ्यः आतिः प्रत्ययो भवति अस्तातेरर्थे। उत्तरस्यां दिशि वसति उत्तराद् वसति। उत्तरादागतः। उत्तराद् रमणीयम्। अधराद् वसति। अधरादागतः। अधराद् रमणीयम्। दक्षिणाद् वसति। दक्षिणादागतः। दक्षिणाद् रमणीयम्।
index: 5.3.34 sutra: उत्तराधरदक्षिणादातिः
उत्तरात् । अधरात् । दक्षिणात् ॥
index: 5.3.34 sutra: उत्तराधरदक्षिणादातिः
'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः 5.3.27 इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्यये प्राप्ते तस्य अपवादस्वरूपेण 'उत्तर', 'अधर' तथा 'दक्षिण' एतेभ्यः शब्देभ्यः वर्तमानसूत्रेण 'आति' प्रत्ययः विधीयते । अस्मिन् प्रत्यये तकारोत्तरः इकारः उच्चारणार्थः अस्ति, अतः तस्य लोपः भवति । यथा -
= उत्तर + आति [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्ययस्य लुक्]
→ उत्तर + आत्
→ उत्तर् + आत् [यस्येति च 6.4.148 इति अकारलोपः]
→ उत्तरात्
= अधर + आति [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्ययस्य लुक्]
→ अधर + आत्
→ अधर् + आत् [यस्येति च 6.4.148 इति अकारलोपः]
→ अधरात्
= दक्षिण + आति [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्ययस्य लुक्]
→ दक्षिण + आत्
→ दक्षिण् + आत् [यस्येति च 6.4.148 इति अकारलोपः]
→ दक्षिणात्
विशेषः - 'दक्षिण' शब्दः 'काल' अस्मिन् अर्थे न प्रयुज्यते, अतः तस्य उदाहरणानि न लभन्ते ।
अनेन प्रकारेण 'उत्तरात्', 'अधरात्', 'दक्षिणात्' एते शब्दाः सिद्ध्यन्ति । एतेषामव्ययसंज्ञा भवति ।
ज्ञातव्यम् -
अत्र प्राप्ताः 'उत्तरात्', 'अधरात्', 'दक्षिणात्' - एते शब्दाः तद्धितश्चासर्वविभक्तिः 1.1.38 इत्यनेन अव्ययसंज्ञकाः भवन्ति । यद्यपि एते 'पञ्चम्यन्त'रूपवत् दृश्यन्ते, तथापि एते भिन्नाः शब्दाः इति ज्ञेयम् । यथा - 'दक्षिणात् वसति', 'दक्षिणात् दिक्', 'दक्षिणात् आगतः' - एते त्रयः अपि प्रयोगाः साधवः एव ।
दक्षिणोत्तराभ्यामतसुच् 5.3.28 इत्यनेन 'दक्षिण' तथा 'उत्तर' एताभ्याम् शब्दाभ्याम् 'अतसुच्' इति प्रत्ययः अपि अस्मिन्नेव सन्दर्भे उक्तः अस्ति ।
index: 5.3.34 sutra: उत्तराधरदक्षिणादातिः
उत्तराधरदक्षिणादातिः - उत्तराधर । आतिप्रत्यये इकार उच्चारणार्थः । अस्तातेरपवादः ।
index: 5.3.34 sutra: उत्तराधरदक्षिणादातिः
आतिप्रत्ययो भवतीति। दक्षिणोतराभ्यामतसुजपि भवति, अधरशब्दादस्तातिरपि; ठस्ताति चऽ इत्यधरशब्दस्याधादेशविधानाल्लिङ्गात्। अत्र चोतरादीनां सप्तम्यादीनां च साम्ये सत्यपि पूर्ववद्यथासंख्याभावः। अस्तादिस्तूतरादीनां न सम्भवति, दक्षिणशब्दस्य काले वृत्यसम्भवात् ॥