5-3-28 दक्षिणोत्तराभ्याम् अतसुच् प्रत्ययः परः च आद्युदात्तः च तद्धिताः दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेषु अस्तातिः
index: 5.3.28 sutra: दक्षिणोत्तराभ्यामतसुच्
दक्षिण-उत्तराभ्याम् सप्तमी-पञ्चमी-प्रथमाभ्यः दिग्-देश-कालेषु अतसुच्
index: 5.3.28 sutra: दक्षिणोत्तराभ्यामतसुच्
'दक्षिण' तथा 'उत्तर' एतौ शब्दौ यदा 'दिशा', 'स्थान' उत 'काल' एतेषु अर्थषु प्रयुज्येते, तदा तयोः सप्तम्यन्तेभ्यः, पञ्चम्यन्तेभ्यः तथा च प्रथमान्तेभ्यः रूपेभ्यः 'अतसुच्' इति प्रत्ययः स्वार्थे विधीयते ।
index: 5.3.28 sutra: दक्षिणोत्तराभ्यामतसुच्
दिक्षिणौत्तराभ्यां दिग्देशकालेषु वर्तमानभ्यां सप्तमीपञ्चमीप्रथमान्ताभ्यां स्वार्थेऽतसुच् प्रत्ययो भवति। अस्तातेरपवदः। दक्षिणाशब्दः काले न सम्भवतीति दिग्देशवृत्तिः परिगृह्यते। दक्षिणतो वसति। दक्षिणत आगतः। दक्षिणतो रमणीयम्। उत्तरतो वसति। उत्तरत आगतः। उत्तरतो रमणीयम्। अकारो विशेषणार्थः षष्ठ्यतसर्थप्रत्ययेन 2.3.30 इति।
index: 5.3.28 sutra: दक्षिणोत्तराभ्यामतसुच्
अस्तातेरपवादः । दक्षिणतः । उत्तरतः ॥
index: 5.3.28 sutra: दक्षिणोत्तराभ्यामतसुच्
'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः 5.3.27 इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्यये प्राप्ते तस्य अपवादस्वरूपेण 'दक्षिण' तथा 'उत्तर' एताभ्याम् शब्दाभ्याम् वर्तमानसूत्रेण 'अतसुच्' प्रत्ययः विधीयते । अस्मिन् प्रत्यये चकारः इत्संज्ञकः अस्ति, उकारः उच्चारणार्थः अस्ति, अतः द्वयोः अपि लोपः भवति ; 'अतस्' इत्येव अवशिष्यते ।
उदाहरणे एते -
= दक्षिणायाम् / दक्षिणे / दक्षिणस्याः / दक्षिणात् + अतस्
→ दक्षिण + अतस् [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्ययस्य लुक्]
→ दक्षिण् + अतस् [यस्येति च 6.4.148 इति अकारलोपः]
→ दक्षिणतः [सकारस्य रेफः, विसर्गः]
विशेषः - 'दक्षिण' शब्दः 'काल' अस्मिन् अर्थे न प्रयुज्यते, अतः तस्य उदाहरणानि न लभन्ते ।
= उत्तरस्याम् / उत्तरे / उत्तरस्याः / उत्तरात् / उत्तरा / उत्तरः + अतस्
→ उत्तर + अतस् [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्ययस्य लुक्]
→ उत्तर् + अतस् [यस्येति च 6.4.148 इति अकारलोपः]
→ उत्तरतः [सकारस्य रेफः, विसर्गः]
अनेन सूत्रेण निर्मितयोः 'दक्षिणतः' तथा 'उत्तरतः' एतयोः द्वयोः अपि शब्दयोः तद्धितश्चासर्वविभक्तिः 1.1.38 इत्यनेन अव्ययसंज्ञा भवति ।
ज्ञातव्यम् - अस्मिन् सूत्रे 'अतसुच्' इत्यस्य स्थाने 'तसुच्' इति प्रत्ययः प्रोच्यते तथापि तादृशमेव रूपम् सिद्ध्येत् । परन्तु षष्ठ्यतसर्थप्रत्ययेन 2.3.30 इत्यस्मिन् सूत्रे विशिष्टरूपेण 'अतस्' प्रत्ययस्य ग्रहणमावश्यकम्, अतः अत्र प्रत्यये अकारः स्थापितः अस्ति । यदि अत्र 'तसुच्' इत्येव प्रत्ययः उच्येत, तर्हि षष्ठ्यतसर्थप्रत्ययेन 2.3.30 इत्यस्य स्थाने 'षष्ठीतसर्थप्रत्ययेन' इति 'तसर्थ' एतादृशः उल्लेखः आवश्यकः स्यात् । परन्तु एतादृशः उल्लेखः क्रियते चेत् अन्ये 'तसर्थाः' (यथा - तसिल् प्रत्ययः) अप्यत्र निर्दिष्टाः भवेयुः, येषाम् ग्रहणमत्र न इष्यते । अतएव अत्र 'अतसुच्' इत्यत्र प्रारम्भे अकारस्य योजनम् कृतमस्ति, येन अस्य प्रत्ययस्य अन्येभ्यः 'तसर्थेभ्यः' भिन्नरूपेण विधानम् सम्भवेत् ।
index: 5.3.28 sutra: दक्षिणोत्तराभ्यामतसुच्
दक्षिणोत्तराभ्यामतसुच् - दक्षिणोत्तराभ्यां ।दिग्देशकालवृत्तिभ्या॑मिति शेषः । दक्षिणत उत्तरत इति । नच तसुजेव प्रत्ययोऽस्तु, दिग्वर्तित्वे तुसर्वनाम्नो वृत्तिमात्रे॑ इति पुंवत्वेनैव 'दक्षिणतः' इत्यादि सिद्धमिति वाच्यं, स्पष्टार्थत्वात् । अत एव भाष्ये अकारः प्रत्याख्यातः । केचित्तु — अकारोच्चारणमन्यतो विधानार्थं, तेन पुरत इति सिद्धमित्याहुःसमानकालीन॑मित्यादिवत् 'पुरत' इति प्रामादिकमेवेति बहवः ।
index: 5.3.28 sutra: दक्षिणोत्तराभ्यामतसुच्
किमर्थमतसुजुच्यते, न तसुजेवोच्येत्, तत्रायमप्यर्थः - स्वरार्थश्चकारो न कर्तेव्यो भवति, प्रत्ययस्वरेणैवक सिद्धम्, का रूपसिद्धिः ? दक्षिणोतरशब्दावकारानेतौ। यदा तर्हि दिशि वर्तमानौ दाबन्तौ भवतस्यदा यस्येतिलोपेन टापो निवृत्तिर्यथा स्यादित्येवमर्थोऽकारः, सिद्धाऽत्र टापो निवृत्तिः, कथम् ?'तसिलादिष्वाकृत्वसुचः' कैति पुंवद्भावात्। ननु च समानायामाकृतौ भाषितपुंस्कस्य तेन पुंवद्भावः, आकृत्यन्तरे चैतौ भाषितपुंस्कौ, कथम् ? दिशि वर्तमानाः पूर्वादयो निमितान्तरनिपेक्षाः, देशकालयोस्तु व्यवस्थापेक्षाः। कथं तर्हि दिशि वर्तमानानां सर्वनामसंज्ञा भवति, यावता व्यवस्थायामित्युच्यते ? अत्राहुः - यद्यपि दिशि षर्तमानानां व्यवस्था न प्रवृत्तिनिमितम्, वस्तुतस्तु व्यवस्था विद्यते इति भवत्येव संज्ञा। व्यवस्थायामिति हि विषयो निर्द्दिश्यते, न तु प्रवृत्तिनिमितम्। तथा चोतराः कुर्व इत्यत्र निरूढत्वाद्व्यवहारस्य प्रयोक्तृभिरनपेक्ष्यमाणाया अपि वस्तुतो व्यवस्थायाः सद्भावात्सर्वनामसंज्ञाप्रसङ्गेऽसंज्ञायामिति प्रतिषेधः कृत इति। तदेवमाकृतिभेदातसिलादिष्वति पुंवद्भावो न सिद्धयति। एवं तर्हि'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' इति पुंवद्भावो भवि,यति, यथा दक्षिणोतरपूर्वाणामित्यत्र, तस्मान्नार्थोऽकारकरणेन ? इत्यत आह - अकारो विशेषणार्थ इति।'षष्ठी तसर्थप्रत्येन' इत्युच्यमाने ततो ग्रामादागत इति तसिलापि योगे षष्ठी स्यात् ? ठपपदविभक्तेः कारकविभक्तिर्बलीयसीऽ। इह तर्हि ततो ग्रामादन्य इत्यन्यादियोगे या पञ्चमी, तां बायत्वा षष्ठी स्यात् ?'निरनुबन्धकग्रहणे न सानुबन्धकस्य' इत्येवं तसिलादियोगे न भविष्यति। यस्तर्हि निरनुबन्धकः'प्रतियोगे पञ्चम्यास्तसिः' 'तेनैकदिक्' ,'तसिश्च' , तत्र मा भूतर्जुनतः प्रत्यभिमन्युः, सुदामतो विद्यौदिति ॥