5-3-33 पश्च पश्चा च च्छन्दसि प्रत्ययः परः च आद्युदात्तः च तद्धिताः दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेषु अस्तातिः
index: 5.3.33 sutra: पश्च पश्चा च च्छन्दसि
छन्दसि पश्च, पश्चा (निपात्येते)
index: 5.3.33 sutra: पश्च पश्चा च च्छन्दसि
वेदेषु 'पश्च' तथा 'पश्चा' एतौ शब्दौ प्रयुक्तौ दृश्येते, ते निपात्येते इति ज्ञेयम् ।
index: 5.3.33 sutra: पश्च पश्चा च च्छन्दसि
पश्चपश्चाशब्दौ निपात्येते छन्दसि विषये अस्तातेरर्थे। चकारात् पश्चादपि भवति। अपरस्य पश्चभावोऽकाराकारौ च प्रत्ययौ निपात्येते। पुरा व्याघ्रो जायते पश्च सिंहः। पश्चा सिंहः। पश्चात् सिंहः।
index: 5.3.33 sutra: पश्च पश्चा च च्छन्दसि
अवरस्य अस्तात्यर्थे निपातौ । पश्च हि सः । नो ते पश्चा । तुश्छन्दसि <{SK2007}> तृजन्तात्तृन्नन्ताच्च इष्ठन्नीयसुनौ स्तः । आसुतिं करिष्ठाः (आसुतिं करि॑ष्ठः) । दोहीयसी धेनुः ॥
index: 5.3.33 sutra: पश्च पश्चा च च्छन्दसि
पश्चात् 5.3.32 इत्यनेन पाठितस्य 'पश्चात्' शब्दस्य अर्थे एव वेदेषु 'पश्च' तथा 'पश्चा' शब्दौ प्रयुज्येते, तयोः निपातनमनेन सूत्रेण दीयते । 'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमणस्य 'अपर' शब्दस्य प्रथमान्तरूपात्, पञ्चम्यन्तरूपात्, तथा च सप्तम्यन्तरूपात् स्वार्थे 'अ' तथा 'आ' प्रत्ययौ कृत्वा एतयोः सिद्धिः भवति । यथा -
अपरा दिक् / अपरस्याः दिशः / अपरस्याम् दिशि / अपरः देशः / अपरस्मात् देशात् / अपरस्मिन् देशे
= अपर + अ/आ [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्ययस्य लुक्]
→ अपर + अ/आ
→ पश्च + अ/आ ['अपर' शब्दस्य 'पश्च' आदेशः निपात्यते]
→ पश्च् + अ/आ [यस्येति च 6.4.148 इति अकारलोपः]
→ पश्च / पश्चा
यथा - सामवेदे पूर्वार्चिकायाम् 4.2.7 - 'न पश्चा पश्चात् दध्यति तस्मै' ।