पश्चात्

5-3-32 पश्चात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेषु अस्तातिः

Sampurna sutra

Up

पश्चात् (निपात्यते)

Neelesh Sanskrit Brief

Up

'पश्चात्' इति शब्दः निपात्यते ।

Kashika

Up

पश्चादित्ययं शब्दो निपात्यतेऽस्तातेरर्थे। अपरस्य पश्चभाव आतिश्च प्रत्ययः। अपरस्यां दिशि वसति पश्चाद् दिशि वसति। पश्चादागतः। पश्चाद् रमणीयम्॥ दिक्पूर्वपदस्यापरस्य पश्चभावो वक्तव्यः, आतिश्च प्रत्ययः॥ दक्षिणपश्चात्। उत्तरपश्चात्॥ अर्धोत्तरपदस्य दिक्पूर्वपदस्य पश्चभावो वक्तव्यः॥ दक्षिणपश्चार्धः। उत्तरपश्चार्धः॥ विनापि पूर्वपदेन पश्चभावो वक्तव्यः॥ पश्चार्धः॥

Siddhanta Kaumudi

Up

अपरस्य पश्चभाव आतिश्च प्रत्ययोऽस्तातेर्विषये ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

अनेन सूत्रेण 'पश्चात्' अस्य शब्दस्य निपातनम् दीयते । 'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमणस्य 'अपर' शब्दस्य प्रथमान्तरूपात्, पञ्चम्यन्तरूपात्, तथा च सप्तम्यन्तरूपात् स्वार्थे 'आति' प्रत्ययं कृत्वा अस्य शब्दस्य सिद्धिः दत्ता अस्ति । यथा - अपरा दिक् / अपरस्याः दिशः / अपरस्याम् दिशि / अपरः देशः / अपरस्मात् देशात् / अपरस्मिन् देशे = अपर + आति [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लुक्] → अपर + आत् [इकारः उच्चारणार्थः, अतः तस्य लोपः भवति ।] → पश्च + आत् ['अपर' शब्दस्य 'पश्च' आदेशः निपात्यते] → पश्च् + आत् [<<यस्येति च>> 6.4.148 इति अकारलोपः] → पश्चात् ज्ञातव्यम् - <<तद्धितश्चासर्वविभक्तिः>> 1.1.38 इत्यनेन 'पश्चात्' शब्दस्य अव्ययसंज्ञा भवति । अत्र त्रीणि वार्त्तिकानि ज्ञेयानि - 1. <!दिक्पूर्वपदस्य अपरस्य पश्चभावो वक्तव्यः ; आतिश्च प्रत्ययः!> । यदि कस्यचन शब्दस्य पूर्वपदम् कश्चन दिशावाची शब्दः अस्ति, तथा च उत्तरपदम् 'अपर' इति शब्दः अस्ति (यथा - उत्तरापर (north-west), दक्षिणापर (south-west)), तर्हि तादृशस्य शब्दस्य विषये अपि सप्तम्यन्तरूपात् / पञ्चम्यन्तरूपात् / प्रथमान्तरूपात् च स्वार्थे 'आति' प्रत्ययः, तथा च अङ्गे विद्यमानस्य 'अपर' शब्दस्य 'पश्च' इति आदेशः भवति । यथा - दक्षिणापरा दिक् / दक्षिणापरस्याः दिशः / दक्षिणापरस्याम् दिशि / दक्षिणापरः देशः / दक्षिणापरस्मात् देशात् / दक्षिणापरस्मिन् देशे = दक्षिणापर + आति → दक्षिणापर + आत् [इकारः उच्चारणार्थः, अतः तस्य लोपः भवति ।] → दक्षिणपश्च + आत् ['अपर' शब्दस्य 'पश्च' आदेशः निपात्यते] → दक्षिणपश्च् + आत् [<<यस्येति च>> 6.4.148 इति अकारलोपः] → दक्षिणपश्चात् एवमेव 'उत्तरपश्चात्' इत्यपि शब्दः निपात्यते । एतौ द्वावपि शब्दौ <<तद्धितश्चासर्वविभक्तिः>> 1.1.38 इत्यनेन अव्ययसंज्ञकौ भवतः । 2. <!अर्धोत्तरपदस्य च समासे दिक्पूर्वस्य अपरस्य पश्चभावो वक्तव्यः!> । यदि कस्यचन शब्दस्य पूर्वपदम् कश्चन दिशावाची शब्दः अस्ति, तथा च उत्तरपदम् 'अपर' इति शब्दः अस्ति (यथा - उत्तरापर, दक्षिणापर), तर्हि तादृशस्य शब्दस्य 'अर्ध' इत्यनेन समासे प्राप्ते प्रक्रियायाम् पूर्वपदे विद्यमानस्य 'अपर' इत्यस्य 'पश्च' इति आदेशः भवति । यथा - उत्तरापरश्च अर्धश्च = उत्तरापर + अर्ध → उत्तरपश्च + अर्ध ['अपर' इत्यस्य 'पश्च' आदेशः] → उत्तरपश्चार्ध एवमेव 'दक्षिणपश्चार्ध' इत्यपि सिद्ध्यति । 3. <!अर्धे च परतोऽपरस्य पश्चभावो वक्तव्यः!> । 'अपर' शब्दस्य 'अर्ध' शब्देन समासः क्रियते चेत् 'अपर' शब्दस्य 'पश्च' इति आदेशः भवति । यथा - अपरश्च अर्धश्च = अपर + अर्ध → पश्च + अर्ध → पश्चार्ध (half of the west side इत्यर्थः ।)

Balamanorama

Up

Padamanjari

Up

अपरस्य पश्चभाव इति। केवलस्य लिङ्गविशिष्टस्य च । दिक्पूर्वपदस्य चेति। दिग्वचनः पूर्व पदं यस्य तथोक्तः। दक्षिणपश्चादिति। दक्षिणस्या अपरस्याश्च दिशो यदन्तरालमिति'दिङ्नामान्यन्तराले' इति बहुव्रीहिः, दक्षिणापरा, तस्यां वसतीत्यातिप्रत्ययः, अपरस्य च पश्चभावः। अर्धोतरपदस्य चेति। अपरस्य चेत्येव। विनापी पूर्वपदेनेति। अपरस्य, अर्धोतरपदस्येति सम्बन्धः ॥