षष्ठ्यतसर्थप्रत्ययेन

2-3-30 षष्ठि अतसर्थप्रत्ययेन अनभिहिते पञ्चमी

Kashika

Up

index: 2.3.30 sutra: षष्ठ्यतसर्थप्रत्ययेन


दक्षिणोत्तराभ्यामतसुच् 5.3.28 इति वक्ष्यति, तस्य इदं ग्रहनम्। अतसर्थेन प्रत्ययेन युक्ते षष्ठी विभक्तिर्भवति। दक्षिणतो ग्रामस्य। उत्तरतो ग्रामस्य। पुरस्ताद् ग्रामस्य। उपरि ग्रामस्य। उपरिष्टाद् ग्रामस्य।

Siddhanta Kaumudi

Up

index: 2.3.30 sutra: षष्ठ्यतसर्थप्रत्ययेन


एतद्योगे षष्ठी स्यात् । दिक्शब्द <{SK595}> इति पञ्चम्या अपवादः । ग्रामस्य दक्षिणतः । पुरः पुरस्तात् । उपरि उपरिष्टात् ॥

Balamanorama

Up

index: 2.3.30 sutra: षष्ठ्यतसर्थप्रत्ययेन


षष्ठ्यतसर्थप्रत्ययेन - षष्ठतसर्थ । एतद्योगे इति ।दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्योदिग्देशकालेष्वस्तातिः॑ इत्यारभ्य 'आहि च दूरे'उत्तराच्चे॑त्यन्तैः सूत्रैर्दिग्देशकालवृत्तिभ्यः शब्देभ्यः स्वार्थे प्रत्यया विहिताः । तत्रदक्षिणोत्तराभ्यामतसुच् इति विहितो योऽतसुच्प्रत्ययः, तस्यार्थः=दिग्देशकालरूपः, स एवार्थो यस्य स-अतसर्थप्रत्ययः, तद्योगे इत्यर्थः । यद्यप्यतसर्थप्रत्ययेषु अस्तातिरेव प्रथमस्थापि लाघवादतसर्थेत्युक्तम्, न त्वस्तात्यर्थेति, संयुक्ताक्षरघयितत्वेन गौरवात् । दिक्शब्देतीति ।अन्यारादि॑ति सूत्रे दिक्शब्देत्यनेन या पञ्चमी विहिता तदपवाद इत्यर्थः । दक्षिणत इति । सप्तमीपञ्चमीप्रथमान्तात् स्वार्थे दिग्देशकालवृत्तेर्दक्षिणशब्दादतसुच् । दक्षिणस्यां, दक्षिणस्याः, दक्षिणा वा दिगित्यर्थः । एवं देशे काले च । पुर इति । पूर्वाशब्दादस्तात्यर्थे॒पूर्वाधरावराणामसि पुरधवश्चैषाम् इत्यसिप्रत्ययः प्रकृतेः पुरादेशश्च । पूर्वस्यां, पूर्वस्याः, पूर्वा वेत्यर्थः । पुरस्तादिति । पूर्वशब्दादस्तातिप्रत्यये सतिआस्ताति चे॑ति प्रकृतेः पुरादेशः । पुरश्शब्दसमानार्थकमिदम् । उपरीति ।उपर्युपरिष्टादि॑ति सूत्रेण ऊध्र्वशब्दाद्रिल्प्रत्ययो शिष्टातिल्प्रत्ययः प्रकृतेरूपादेशश्च निपातितः । ऊध्र्वायां दिशि, ऊध्र्वाया दिशः, ऊध्र्वादिगिति वा अर्थः । एवं देशे कालेऽपि ।

Padamanjari

Up

index: 2.3.30 sutra: षष्ठ्यतसर्थप्रत्ययेन


षष्ठ।ल्तसर्थप्रत्ययेन॥ अत्र तस्यतेर्नञ्पूर्वस्य क्विप्यतसिति रूपसम्भवेऽपि प्रत्यक्षश्रुतत्वात्प्रत्ययाप्रत्ययपरिभाषया च प्रत्ययस्यैव ग्रहणमिति सिद्धं नार्थः प्रत्ययग्रहणेन। पुरस्तादिति।'पूर्वाधरावराणामसिपुरधवश्चैषाम्' ठस्ताति चऽ इति पूर्वशब्दस्य पुरादेशः। उपर्य परिष्टादिति। ऊर्ध्वशब्दस्योपशब्द आदेशो रिल्रिष्टातिलौ प्रत्ययौ भवतः,'ततः पश्चाद्धस्ती' इति भाष्यकारप्रयोगात्पञ्चमी॥