5-2-84 श्रोत्रियन् छन्दः अधीते प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा
index: 5.2.84 sutra: श्रोत्रियंश्छन्दोऽधीते
'छन्दः अधीते' (इति) श्रोत्रियन् वा (निपात्यते)
index: 5.2.84 sutra: श्रोत्रियंश्छन्दोऽधीते
'छन्दः अधीते' अस्मिन् अर्थे 'श्रोत्रिय' इति शब्दः विकल्पेन निपात्यते ।
index: 5.2.84 sutra: श्रोत्रियंश्छन्दोऽधीते
श्रोत्रियनिति निपात्यते छन्दोऽधीते इत्येतस्मिन्नर्थे। नकारः स्वरार्थः। श्रोत्रियो ब्राह्मणः। श्रोत्रियंश् छन्दोऽधीते इति वाक्यार्थे पदवचनम्, छन्दसो वा श्रोत्रभावः, तदधीते इति घन् च प्रत्ययः। कथं छन्दोऽधीते छन्दसः? बाग्रहणमनुवर्तते तावतिथं ग्रहणम् इति लुग् वा 5.2.77 इत्यतः।
index: 5.2.84 sutra: श्रोत्रियंश्छन्दोऽधीते
श्रोत्रियः । वेत्यनुवृत्तेश्छान्दसः ॥
index: 5.2.84 sutra: श्रोत्रियंश्छन्दोऽधीते
श्रोत्रियः। वेत्यनुवृत्तेश्छान्दसः॥
index: 5.2.84 sutra: श्रोत्रियंश्छन्दोऽधीते
'छन्दः अधीते' (studies a certain part of vedas) अस्मिन् अर्थे 'श्रोत्रिय' इति शब्दः अनेन सूत्रेण निपात्यते । छन्दः अधीते सः श्रोत्रियः ।
'श्रोत्रिय' शब्दस्य निर्माणप्रक्रिया एतादृशम् दीयते -
छन्दः अधीते
→ श्रोत्र + घन् [छन्दस्-शब्दस्य निपातनात् 'श्रोत्र' इति आदेशः, 'घन्' इति च प्रत्ययः]
→ श्रोत्र + इय [नकारस्य इत्संज्ञा, लोपः । आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति इय-आदेशः ]
→ श्रोत्र् + इय [यस्येति च 6.4.148 इति अकारलोपः]
→ श्रोत्रिय
स्मर्तव्यम् - 'छन्दः अधीते' इत्यत्र तदधीते तद्वेद 4.2.59 इत्यस्मिन् अर्थे अण्-प्रत्ययं प्रयुज्य 'छान्दस' इति अपि शब्दः सिद्ध्यति । अतएव वर्तमानसूत्रे 'वा' इति ग्रहणम् कृत्वा 'श्रोत्रियः इति विकल्पेन निपात्यते' इति निर्देशः क्रियते । पक्षे 'छान्दसः' इत्यपि साधु - इति एव अत्र आशयः ।
विशेषः - अस्मिन् सूत्रे 'श्रोत्रियन्' इत्यत्र निर्दिष्टः नकारः इत्संज्ञकः अस्ति, येन 'श्रोत्रिय' शब्दस्य आदिस्वरः ञ्नित्यादिर्नित्यम् 6.1.197 इति आद्युदात्तत्वं प्राप्नोति । अतएव अत्र निर्दिष्टायां प्रक्रियायाम् 'घन्' इति नित्-प्रत्ययः गृह्यते ।
index: 5.2.84 sutra: श्रोत्रियंश्छन्दोऽधीते
श्रोत्रियंश्छन्दोऽधीते - श्रोत्रियंश्छन्दोऽधीते । द्वितीयान्ताच्छन्दश्शब्दादधीते इत्यर्थे घन्, प्रकृतेः श्रोत्रादेशश्च निपात्यते । अध्येत्रणोऽपवादः । वेत्यवृत्तेरिति ।तावतिथ॑मिति सूत्रान्मण्डूकप्लुत्ये॑ति शेषः । ततश्च घनभावे अद्येत्रणिति भावः । वाग्रहणाननुवृत्तौ तु घना अध्येत्रणो बाधः स्यादिति बोध्यम् ।
index: 5.2.84 sutra: श्रोत्रियंश्छन्दोऽधीते
वाक्यार्थ इति। वाक्यार्थग्रहणेन तदाश्रयश्च्छन्दोऽद्यायी पुरुष उपचारादुच्यते, कुतः ? मुख्यो हि वाक्यार्थः क्रियारूपः, सम्बन्धरूपो वा, स चासत्वभूतः। श्रोत्रियशब्दस्तु सत्वभूतार्थाभिधायी, तस्मिन्वाक्यार्थेऽविद्यमानप्रकृतिप्रत्ययविभागः श्रोत्रियशब्दो निपात्यत इत्यर्थः। अथ कथमस्मिनपक्षे स्वरसिद्धिः, यावता नकार इद्यस्य तत्र परतः स्वरो विधीयते, न चात्रैवं व्यपवर्गोऽस्ति ? मा भूद्वयपवर्गे, नित्करणसामर्थ्यातदभावेऽपि भविष्यति। यद्वा, नितीति कर्मधारयोऽयम् - नश्चासाविच्च नित्, तत्र परत इति। कथमित्यादि। च्छन्दसः श्रोत्रभावो घन् च प्रत्ययः, छान्दस इति न सिद्ध्यति; घनाऽणो बाधितत्वात्, श्रोत्रभावेन च च्छन्दःशब्दस्य निवर्तितत्वादिति प्रश्नः। वाग्रहणमनुवर्तत इति। अपर आह - यश्च्छन्दोऽधीते तदर्थं चानुतिष्ठति तत्र श्रोत्रियशब्दः, अध्येतृमात्रे तु छान्दशब्द इत्यर्थभेदान्नास्ति बाध्यबाधकत्वमिति। ठेकां शाखामधीत्य श्रोत्रियो भवतिऽ इति धर्मसास्त्रम् ॥