5-2-83 कुल्माषात् अञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तदस्मिन् अन्नं प्राये सञ्ज्ञायाम्
'तत् अन्नमस्मिन्' (इति) संज्ञायाम् कुल्माषात् प्राये अञ्
'तत् अन्नम् बाहुल्येन विद्यते' इत्यस्मिन् अर्थे प्रथमासमर्थात् 'कुल्माष'शब्दात् संज्ञायाः निर्देशार्थमञ् -प्रत्ययः भवति ।
कुल्माषशब्दादञ् प्रत्ययो भवति तदस्मिन्नन्नं प्राये संज्ञायामित्येतस्मिन्नर्थे। ञकारो वृद्धिस्वरार्थः। कुल्माषाः प्रायेणान्नमस्यां कौल्माषी पौर्णमासी॥
कुल्माषाः प्रायेणान्नमस्यां कौल्माषी ॥
'तत् अन्नम् बाहुल्येन विद्यते' इत्यस्मिन् अर्थे प्रथमासमर्थात् अन्नवाचिशब्दात् संज्ञायाः निर्देशार्थम् <<तदस्मिन्नन्नं प्राये संज्ञायाम्>> 5.2.82 अनेन सूत्रेण औत्सर्गिकरूपेण कन्-प्रत्यये विहिते 'कुल्माष'(a certain type of grain) शब्दात् अस्य अपवादरूपेण 'अञ्' प्रत्ययः भवति । कुल्माषाः प्रायेण अन्नमस्याम् पौर्णमास्याम्, सा कौल्माषी पौर्णमासी । प्रक्रिया इयम् - कुल्माष + अञ् → कौल्माष + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → कौल्माष् + अ [<<यस्येति च>> 6.4.148 इति अकारलोपः] → कौल्माष → कौल्माष + ङीप् [स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति ङीप्] → कौल्माष् + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → कौल्माषी
<<कुल्माषादञ्>> - कुल्माषादञ् । कनोऽपवादः ।स्याद्यावकस्तु कुल्माषश्चणको हरिमन्थकः॑ इत्यमरः ।
कुल्माषाःउमुद्गाः ॥