5-2-59 मतौ छः सूक्तसाम्नोः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा
index: 5.2.59 sutra: मतौ छः सूक्तसाम्नोः
मतौ सूक्तसाम्नोः छः
index: 5.2.59 sutra: मतौ छः सूक्तसाम्नोः
मतुबर्थयोः सूक्तस्य साम्नः च निर्देशं कर्तुम् प्रथमासमर्थात् प्रातिपदिकात् छ-प्रत्ययः भवति ।
index: 5.2.59 sutra: मतौ छः सूक्तसाम्नोः
मतौ इति मत्वर्थ उच्यते। प्रातिपदिकान् मत्वर्थे छः प्रत्ययो भवति सूक्ते सामनि च अभिधेये। मत्वर्थग्रहणेन समर्थविभक्तिः, प्रकृतिविशेषणं, प्रत्ययार्थः इति सर्वमाक्षिप्यते। अच्छावाकशब्दोऽस्मिन्निति अच्छावाकीयं सूक्तम्। मित्रावरुणीयम्। यज्ञायज्ञीयं साम। वारवन्तीयम्। अनुकरनशब्दाश्च स्वरूपामात्रप्रधानाः प्रत्ययमुत्पादयन्ति। तेन अनेकपदादपि सिद्धम्। अस्यवमीयम्। कयाषुभीयम्।
index: 5.2.59 sutra: मतौ छः सूक्तसाम्नोः
मत्वर्थे छः स्यात् । अच्छावाकशब्दोऽस्मिन्नस्ति अच्छावाकीयं सुक्तम् । वारवन्तीयं साम ॥
index: 5.2.59 sutra: मतौ छः सूक्तसाम्नोः
तदस्यास्त्यस्मिन्निति मतुँप् 5.2.94 अनेन सूत्रेण 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः औत्सर्गिकरूपेण 'मतुँप्' इति प्रत्ययः विधीयते । अतः एतौ अर्थौ 'मतुबर्थौ' इति नाम्ना ज्ञायेते । एतयोः एव निर्देशः अस्मिन् सूत्रे 'मतौ' इत्यनेन कृतः अस्ति । एताभ्यामर्थाभ्याम् निर्मितः शब्दः यदि सूक्तस्य उत साम्नः निर्देशं करोति, तर्हि वर्तमानसूत्रेण औत्सर्गिकस्य मतुँप्-प्रत्ययस्य अपवादस्वरूपेण 'छ' प्रत्ययविधानम् भवति ।
यथा -
प्रक्रिया इयम् -
अच्छावाक + छ
→ अच्छावाक + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति 'छ' इत्यस्य इय-आदेशः]
→ अच्छावाक् + ईय [यस्येति च 6.4.148 इति अकारलोपः]
→ अच्छावाकीय
मित्रावरुणशब्दः अस्ति अस्मिन् सूक्ते तत् मित्रावरुणीयम् सूक्तम् ।
यज्ञायज्ञशब्दः अस्ति अस्मिन् साम्नि तत् यज्ञायज्ञीयम् साम ।
वारवन्तशब्दः अस्ति अस्मिन् साम्नि तत् वारवन्तीयम् साम ।
अस्य सूत्रस्य विषये कश्चन विशेषः ज्ञेयः । अत्र दर्शितेषु विग्रहवाक्येषु शब्दस्य 'स्वस्य रूपस्य' निर्देशः भवति, न हि अर्थस्य । When we say 'अच्छावाकः अस्ति अस्मिन् सूक्ते', what we mean is that the word 'अच्छावाकः' is present in the sukta, and not the person with that name. On the other hand, almost everywhere else, even though the प्रत्यय is attached to the word, the तद्धितवृत्ति uses the meaning of the word. For example, when we say 'दशरथस्य अपत्यम्', we are talking about offspring of the person named दशरथ, and not the word दशरथ । अस्यैव स्पष्टीकरणार्थः काशिकाकारः वदति - अनुकरणशब्दाश्च स्वरूपामात्रप्रधानाः प्रत्ययमुत्पादयन्ति ; तेन अनेकपदादपि सिद्धम् । इत्युक्ते, अत्र विग्रहवाक्ये प्रयुक्तः शब्दः स्वस्य रूपस्यैव निर्देशं करोति, न हि अर्थस्य । अस्यां स्थितौ पदसमूहस्य / वाक्यखण्डस्य अप्यत्र वृत्तौ प्रयोगः भवितुमर्हति । यथा - 'अस्य वाम' इति वाक्यखण्डः अस्ति अस्मिन् सूक्ते तत् 'अस्यवामीयम्' सूक्तम् । अत्र 'अस्य वाम' इति वस्तुतः वाक्यखण्डः अस्ति, न हि प्रातिपदिकम् । परन्तु अत्र शब्दस्वरूपस्य ग्रहणम् भवति, अतः अत्र 'अस्य वाम' इत्यस्य अर्थः न स्वीक्रियते, अपितु 'शब्दस्वरूपम्' (A physical sequence of letters) इति स्वीकृत्य अस्मात् वाक्यखण्डात् प्रत्ययः भवति ।
स्मर्तव्यम् -
अनेन सूत्रेण मत्वर्थयोः 'छ' प्रत्ययः दीयते । अतः मत्वर्थस्य विषये तदस्यास्त्यस्मिन्निति मतुँप् 5.2.94 इत्यत्र उक्ताः सर्वे बिन्दवः अस्य सूत्रस्य विषये अपि स्मर्तव्याः ।
सूत्रपाठे तदस्यास्त्यस्मिन्निति मतुँप् 5.2.94 इत्यतः अहंशुभमोर्युस् 5.2.140 इति यावत्सु सूत्रेषु 'मत्वर्थयोः' प्रत्ययविधानम् कृतमस्ति । अतः वस्तुतः वर्तमानसूत्रमपि तस्मिन्नेव प्रकरणे भवितुम अर्हति । परन्तु पाणिनिना तत् सूत्रमत्र स्थापितमस्ति । अस्य किमपि कारणम् व्याख्यानेषु न दीयते ।
index: 5.2.59 sutra: मतौ छः सूक्तसाम्नोः
मतौ च्छः सूक्तसाम्नोः - मतौ छः ।मतु॑शब्दो मत्वर्थे लाक्षणिक इत्याह मत्वर्थे इति । अच्छा वाकीयं सूक्तमिति । अच्छावाकशब्दोऽस्यास्ति, अस्मिन्नस्तीति वा विग्रहः । अच्चावाकशब्दयुक्तमित्यर्थः । अच्छावाकशब्दाच्छब्दस्वरूपपरात् प्रथमान्ताच्छः । वारवन्तीयं सामेति ।अआं नत्वा वारवन्त॑मित्यस्यामृच्यध्यूढमित्यर्थः । एवमस्यवामीयमित्यपि ।अस्यवामस्ये॑त्यस्य एकदेशानुकरणस्यवामेति । तस्माच्छः । अस्यवामशब्दसंयुक्तमित्यर्थः ।प्रकृतिवदनुकरण॑मित्यस्याऽनित्यात्वात्सुपो न लुक् ।
index: 5.2.59 sutra: मतौ छः सूक्तसाम्नोः
मताविति मत्वर्थ उच्यत इति। साहचर्याद् मुख्यस्य ग्रहणं न भवति। कथं हि मतुरभिधेयः स्याच्छब्दस्य शब्दः ? मत्वर्थग्रहणेनेत्यादि। समर्थविभक्तिः प्रथमा, प्रकृतेरर्थद्वारकं विशेषणमस्तित्वम्, प्रत्ययार्थः - अस्यास्मिन्निति च। तत्र यद्यपि प्रत्ययार्थो मतोरभिदेयम्, इतरदनभिधेयम्; तथापि साहचर्यमविशिष्टमिति सर्वमेतदाक्षिप्यतेउसन्निधाप्यते, उपस्थाप्यत इत्यर्थः। अथ वा - प्रधानवशब्तित्वाद् गुणानां प्रधाने प्रत्ययार्थे उपस्थापिते समर्थविभक्त्यादिकमपि गुणभूतमुपस्थाप्यते एव, आचमनादिवत्, यथा - व्रहाह्णा भोज्यन्तामित्युक्तेऽनुक्ता अप्याचमनादयोऽह्गभूता आक्षिप्यन्ते। इहास्यवाम इत्यस्मिन्नस्तीति षष्ठीप्रथमयोरुपलम्भादनेकपदसमुदायोऽयम्, ततश्चार्तवत्समुदायानां समासग्रहणं नियमार्थमिति प्रातिपदिकसंज्ञाया अभाबादेवंविधेभ्यः प्रत्ययो न प्राप्नोतीत्यत आह - अनुकरणशब्दाश्चेति। स्वरूपमात्रप्रधान इति। नात्र तदानीमुच्चरितमनुकरणस्वरूपं विवक्षैतम्, किं तर्हि ? अनुकार्यस्वरूपम्। मात्रशब्दो बाह्यर्थव्यवच्छेदार्थः, एतदुक्तं भवति - यथा गवादयः शब्दाः सास्नादिमदाकृतिमर्थं प्रत्यायन्तस्तेनार्थेन तद्वति मतुपमुत्पादयन्ति - गोमान्, वृक्षवानिति; तथानुकरणशब्दाः प्रथमासमर्थाः स्वेनानुकार्येण तद्वति च्छप्रत्ययमिति। तत्र ठनुकरणशब्दाःऽ इत्यनेन पदसमुदायत्वं निरस्यति। अनुकार्थो हि पदसमुदायः न त्वनुकरणम्। किं पुनरन्यदनुकार्यमनुकरणं च, ननु रूपभेदो नोपलभ्यते ? यद्यप्येवम्, तथाप्यर्थभेदाद् भेदः, अनुकार्यस्य बाह्यएऽर्थः, अनुकरणस्य तु तदेवानुकार्यम्। अत एवास्यावामीयमित्यादौ विबक्त्यर्थाप्रतिपादनात्सुप्त्वाभावात्स्यशब्दादीनां लुग्न भवति। ये चाम्नायशब्दानां नियमाः-'श्मशाने नाध्येयम्' ,'चतुर्द्दश्यां नाध्येयम्' ,'शूद्स्य वेदमुपशृण्वस्त्रपुजतुभ्यां श्रोत्रपूरणम्' इत्येवमादयः, तेऽप्यनुकरणेषउ न भवन्ति। अस्यवामीयमिति हि सर्वत्र सर्वदा सर्वेपां च सकाशे प्रयुज्यते। तस्मादन्येऽनुकरणशब्दाः। अनुकार्यशब्दाश्च स्वरूपमात्रप्रदान इत्यनेन त्वर्थवत्वमाह। अनेकपदादपीति। अनेकं पदं यत्र समुदाये तस्मादपीत्यर्थः। परप्रसिद्ध्या चैवमुच्यते, यम्भवाननेकपदसमुदायं मन्यते तस्मादपीत्यर्थः। न त्वत्र वस्तुतोऽनेकपदत्वमस्ति - अस्यवामीयमिति, अस्यवामस्येति वेदे यत्पदद्वयं पठितं तदैकदेशस्यास्यवामशब्दस्य च्छप्रत्ययप्रकृतिरस्यवामशब्दः। प्रतिपादक इत्यर्थवत्वम्, पदसमुदायत्वाभावाच्च प्रातिपदिकत्वे सति प्रत्ययः। किं पुनरत्र च्छप्रत्ययप्रकृततेरनुकरणत्वे प्रमाणम् ? च्छप्रत्यय एव। न ह्यसावनुकरणत्वमन्तरेण सम्बवति। तस्मादितिशब्दवच्छप्रत्ययोऽप्युनुकरणत्वे प्रमाणम् ॥