5-2-52 बहुपूगगणसङ्घस्य तिथुक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा सङ्ख्यायाः तस्य पूरणे डट्
index: 5.2.52 sutra: बहुपूगगणसंघस्य तिथुक्
'तस्य पूरणे' (इति) डटि बहु-पूग-गण-सङ्घस्य थुक्
index: 5.2.52 sutra: बहुपूगगणसंघस्य तिथुक्
बहु, पूग, गण, सङ्घ - एतेषाम् विषये 'पूरणः' अस्मिन् अर्थे विहिते 'डट्' प्रत्यये परे अङ्गस्य 'तिथुक्' आगमः भवति ।
index: 5.2.52 sutra: बहुपूगगणसंघस्य तिथुक्
डटित्येव। बहु पूग गन सङ्घ इत्येतेषां डटि परतः तिथुगागमो भवति। पूगसङ्घशब्दयोरसङ्ख्यात्वादिदम् एव ज्ञापकं डटो भावस्य। बहूनां पूरणः बहुतिथः। पूगतिथः। गणतिथः। सङ्घतिथः।
index: 5.2.52 sutra: बहुपूगगणसंघस्य तिथुक्
डटीत्येव । पूगसङ्घयोरसंख्यात्वेऽप्यतएव डट् । बहुतिथ इत्यादि ॥
index: 5.2.52 sutra: बहुपूगगणसंघस्य तिथुक्
तस्य पूरणे डट् 5.2.48 इत्यनेन सङ्ख्यावाचिभ्यः शब्देभ्यः 'डट्' प्रत्ययः भवति । अस्मिन् डट्-प्रत्यये परे 'बहु', 'पूग', 'गण' तथा 'सङ्घ' एतेषामङ्गस्य 'तिथुक्' आगमः भवति । अयमागमः 'कित्' अस्ति, अतः आद्यन्तौ टकितौ 1.1.46 इत्यनेन अन्तावयवरूपेण आगच्छति । तथा च, अस्मिन् आगमे ककारः इत्संज्ञकः अस्ति, थकारोत्तरः उकारः च उच्चारणार्थः अस्ति, अतः द्वयोः अपि लोपं कृत्वा 'तिथ्' इत्येव अवशिष्यते ।
सर्वान् शब्दान् क्रमेण पश्यामः -
बहूनाम् पूरणम्
= बहु + डट् [तस्य पूरणे डट् 5.2.48 इति डट्]
→ बहु + तिथुक् + डट् [वर्तमानसूत्रेण तिथुक्-आगमः]
→ बहु + तिथ् + अ ['तिथुक्' इत्यत्र थकारोत्तरः उकारः उच्चारणार्थः अस्ति, ककारः इत्संज्ञकः अस्ति । डट्-प्रत्यये डकारटकारौ द्वावपि इत्संज्ञकौ स्तः । चतुर्ण्णामपि लोपः भवति ।वस्तुतः अत्र टेः 6.4.143 इति टिलोपः अपि विधीयते । परन्तु यदि अत्र टिलोपः क्रियते तर्हि 'इथ्' इत्यस्य लोपः भवेत्, येन तिथुक्-आगमस्य प्रयोजनमेव विनश्येत् । अतः 'तिथुक्' इत्यस्य विधानसामर्थ्यात् एतादृशः टिलोपः अत्र न भवति ।]
→ बहुतिथ
बहूनाम् पूरणम् बहुतिथ । 'manieth' (of some large index) इत्यर्थः ।
पूगस्य पूरणम्
→ पूग + तिथुक् + डट् [वर्तमानसूत्रेण डट्-प्रत्ययः, तस्मिन् परे च अङ्गस्य तिथुक्-आगमः ]
→ पूगतिथ ['तिथुक्' इत्यत्र थकारोत्तरः उकारः उच्चारणार्थः अस्ति, ककारः इत्संज्ञकः अस्ति । डट्-प्रत्यये डकारटकारौ द्वावपि इत्संज्ञकौ स्तः । चतुर्ण्णामपि लोपः भवति ।वस्तुतः अत्र टेः 6.4.143 इति टिलोपः अपि विधीयते । परन्तु यदि अत्र टिलोपः क्रियते तर्हि 'इथ्' इत्यस्य लोपः भवेत्, येन तिथुक्-आगमस्य प्रयोजनमेव विनश्येत् । अतः 'तिथुक्' इत्यस्य विधानसामर्थ्यात् एतादृशः टिलोपः अत्र न भवति ।]
पूगस्य पूरणम् पूगतिथ । अयम् शब्दः पूगस्य अन्तिमसदस्यस्य क्रमाङ्कम् दर्शयति । पूगतिथ is used to denote the index of the last member of the group.
विशेषः - 'पूग' शब्दस्य अर्थमनुसृत्य अत्र विग्रहवाक्ये प्रायः एकवचनमेव क्रियते ।
अतः अस्मात् शब्दात् तस्य पूरणे डट् 5.2.48 इत्यनेन डट्-प्रत्ययः भवति । अस्मिन् प्रत्यये परे वर्तमानसूत्रेण अङ्गस्य 'तिथुक्' आगमः अपि विधीयते । प्रक्रिया इयम् -
गणस्य पूरणः
= गण + डट् [तस्य पूरणे डट् 5.2.48 इति डट्]
→ गण + तिथुक् + डट् [वर्तमानसूत्रेण तिथुक्-आगमः]
→ गण + तिथ् + अ ['तिथुक्' इत्यत्र थकारोत्तरः उकारः उच्चारणार्थः अस्ति, ककारः इत्संज्ञकः अस्ति । डट्-प्रत्यये डकारटकारौ द्वावपि इत्संज्ञकौ स्तः । चतुर्ण्णामपि लोपः भवति ।वस्तुतः अत्र टेः 6.4.143 इति टिलोपः अपि विधीयते । परन्तु यदि अत्र टिलोपः क्रियते तर्हि 'इथ्' इत्यस्य लोपः भवेत्, येन तिथुक्-आगमस्य प्रयोजनमेव विनश्येत् । अतः 'तिथुक्' इत्यस्य विधानसामर्थ्यात् एतादृशः टिलोपः अत्र न भवति ।]
→ गणतिथ
गणस्य पूरणम् गणतिथ । 'manieth' (of countable index) इत्यर्थः ।
सङ्घस्य पूरणम्
→ सङ्घ + तिथुक् + डट् [वर्तमानसूत्रेण डट्-प्रत्ययः, तस्मिन् परे च अङ्गस्य तिथुक्-आगमः ]
→ सङ्घतिथ ['तिथुक्' इत्यत्र थकारोत्तरः उकारः उच्चारणार्थः अस्ति, ककारः इत्संज्ञकः अस्ति । डट्-प्रत्यये डकारटकारौ द्वावपि इत्संज्ञकौ स्तः । चतुर्ण्णामपि लोपः भवति ।वस्तुतः अत्र टेः 6.4.143 इति टिलोपः अपि विधीयते । परन्तु यदि अत्र टिलोपः क्रियते तर्हि 'इथ्' इत्यस्य लोपः भवेत्, येन तिथुक्-आगमस्य प्रयोजनमेव विनश्येत् । अतः 'तिथुक्' इत्यस्य विधानसामर्थ्यात् एतादृशः टिलोपः अत्र न भवति ।]
सङ्घस्य पूरणम् सङ्घतिथ । अयम् शब्दः सङ्घस्य अन्तिमसदस्यस्य क्रमाङ्कम् दर्शयति । सङ्घतिथ is used to denote the index of the last member of the group.
विशेषः - 'सङ्घ' शब्दस्य अर्थमनुसृत्य अत्र विग्रहवाक्ये प्रायः एकवचनमेव क्रियते ।
स्मर्तव्यम् -
अनेन सूत्रेण जायमानाः सर्वे पूरणप्रत्ययान्तशब्दाः स्त्रीत्वे विवक्षिते टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15 इत्यनेन ङीप्-प्रत्ययं प्राप्नुवन्ति । यथा - बहुतिथी, पुगतिथी, गणतिथी, सङ्घतिथी ।
'पूग', 'गण', 'सङ्घ' एते शब्दाः नियतलिङ्गाः सन्ति, अतः तेभ्यः स्त्रीप्रत्ययः न भवति । परन्तु 'बहु' शब्दात् स्त्रीत्वे विवक्षिते 'बह्वी' इति प्रातिपदिकं सिद्ध्यति । अस्मात् शब्दात् अपि वर्तमानसूत्रेण 'डट्' प्रत्ययः तथा तस्य 'तिथुक्' आगमः भवति । अस्यां प्रक्रियायाम् 'तिथुक्-आगमात् पूर्वमेव 'बह्वी' शब्दस्य पुंवद्भावः विधीयते । प्रक्रिया इयम् -
बह्वीनाम् पूरणी
बह्वी + डट्
→ बहु + डट् [<!भस्याढे तद्धिते पुंवद्भावो वक्तव्यः!> इत्यनेन बह्वी-शब्दस्य पुंवद्भावः]
→ बहु + तिथुक् + डट् [वर्तमानसूत्रेण तिथुक्-आगमः]
→ बहुतिथ + ङीप् [स्त्रीत्वे विवक्षिते टिड्ढाणञ्.. 4.1.15 इति ङीप्]
→ बहुतिथ् + ई [यस्येति च 6.4.148 इति अकारलोपः]
→ बहुतिथी
बह्वीनां पूरणी बहुतिथी ।
index: 5.2.52 sutra: बहुपूगगणसंघस्य तिथुक्
बहुपूगगणसंघस्य तिथुक् - वतोरिथुक् । डटीत्येवेति । वतुबन्तस्य इथुगागमः स्याड्डटीत्यर्थः । यावतिथ इति । यावतां पूरण इति विग्रहः ।बहुगणे॑ति सङ्ख्यात्वात् 'तस्य पूरणे' इति डेटि प्रकृतेरिथुक् ।
index: 5.2.52 sutra: बहुपूगगणसंघस्य तिथुक्
अत्रापि षष्ठीनिर्द्देसाद् बह्वादीनामेवागमित्वम्। पूगसङ्घयोरित्यादिरेक एव ग्रन्थ। इह बह्वीनां पूरणीति पूर्ववड्डट् प्रत्ययः पुवद्भावश्च ॥