5-2-16 अध्वनः यत्खौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अलंगामी
index: 5.2.16 sutra: अध्वनो यत्खौ
'तत् अलङ्गामी' (इति) अध्वनोः यत्-खौ
index: 5.2.16 sutra: अध्वनो यत्खौ
'अलङ्गामी (= पर्याप्तम् गच्छति)' अस्मिन् अर्थे द्वितीयासमर्थात् 'अध्वन्' शब्दात् यत् तथा खः प्रत्ययौ भवतः ।
index: 5.2.16 sutra: अध्वनो यत्खौ
ततिति द्वितीया समर्थविभक्तिरनुवर्तते। अलङ्गामी इति च प्रत्ययार्थः। अध्वन्शब्दात् द्वितीयासमर्थादलङ्गामी इत्येतस्मिन्नर्थे यत्खौ प्रत्ययौ भवतः। अध्वानमलङ्गामी अध्वन्यः, अध्वनीनः। ये च अभवकर्मणोः 6.4.168, आत्माध्वानौ खे 6.4.169 इति प्रकृतिभावः।
index: 5.2.16 sutra: अध्वनो यत्खौ
अध्वानमलं गच्छति अध्वन्यः । अध्वनीनः । ये चाभावकर्मणोः <{SK1154}> । आत्माध्वानौ खे <{SK1671}> इति सूत्राभ्यां प्रकृतिभावः ॥
index: 5.2.16 sutra: अध्वनो यत्खौ
'अध्वन्' इत्युक्ते 'मार्गः' । 'कस्मिंश्चित् मार्गे पर्याप्तम् गच्छति' (sufficiently travels a road) अस्मिन् अर्थे अध्वन्-शब्दात् यत् तथा ख-प्रत्ययौ भवतः । प्रकिये एतादृश्यौ -
1) अध्वानमलङ्गामी सः
= अध्वन् + यत्
→ अध्वन् + य [नस्तद्धिते 6.4.144 इति टिलोपे प्राप्ते तं बाधित्वा ये चाभावकर्मणोः 6.4.168 इति यकारादौ तद्धितप्रत्यये परे प्रकृतिभावः]
→ अध्वन्य
2) अध्वानमलङ्गामी सः
= अध्वन् + ख
→ अध्वन् + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति ईन-आदेशः]
→ अध्वनीन [ [नस्तद्धिते 6.4.144 इति टिलोपे प्राप्ते आत्माध्वानौ खे 6.4.169 इति प्रकृतिभावः।
अध्वानमलङ्गामी सः अध्वन्यः अध्वनीनः वा ।
index: 5.2.16 sutra: अध्वनो यत्खौ
अध्वनो यत्खौ - अद्वनो यत्खौ । अध्वन्शब्दादलिङ्गमीत्यर्थे यत्खौ स्त इत्यर्थः । अध्वानमलंगच्छतीति । अलङ्गामीत्यनेन विग्रहे तु अध्वनोऽलङ्गामीत्येव विग्रहः ।
index: 5.2.16 sutra: अध्वनो यत्खौ
द्वितीयासमर्थादिति। यदा तिङ्न्तेन विग्रहः - अध्वानं गच्छतीति, तदा द्वितीयासमर्थत्वम्। यदापि सूत्रोपातेन गामीत्यनेन विप्रहः, तदापि द्वितीयैव कृद्योगलक्षणा षष्ठी न भवति; ठकेनोःऽ इति प्रतिषेधात्। इह ठध्वनो यच्चऽ इति सिद्धम्, चकारात्खश्च? एवमुच्यमाने उतरसूत्रे चकारेणानन्तरो यदेवानुकृष्यते, न चानुकृष्टः खः। अतो यत्खयोर्द्वयोरप्यनुवृत्यर्थं यत्खावित्युक्तम् ॥