अभ्यमित्राच्छ च

5-2-17 अभ्यमित्रात् छ च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अलंगामी यत्खौ

Sampurna sutra

Up

'तत् अलङ्गामी' (इति) अभ्यमित्रात् यत्खौ छः च

Neelesh Sanskrit Brief

Up

'पर्याप्तम् गच्छति' अस्मिन् अर्थे द्वितीयासमर्थात् 'अभ्यमित्र' शब्दात् यत्, खः, छः - एते प्रत्ययाः भवति ।

Kashika

Up

अभ्यमित्रशब्दाद् द्वितीयासमर्थादलंगामीत्यस्मिन्नर्थे छः प्रत्ययो भवति, चकाराद् यत्खौ च। अभ्यमित्रमलंगामी अभ्यमित्रीयः, अभ्यमित्र्यः, अभ्यमित्रीणः। अमित्राभिमुखं सुष्ठु गच्छतीत्यर्थः॥

Siddhanta Kaumudi

Up

चाद्यत्खौ । अभ्यमित्रीयः । अभ्यमित्र्यः । अभ्यमित्रीणः । अमित्राभिमुखं सुष्ठु गच्छतीत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'अभ्यमित्रम्' इति किञ्चन अव्ययम् ।'अमित्रस्य सम्मुखम्' (facing an enemy) अस्मिन् अर्थे 'अभि' अव्ययेन सह 'अमित्र' शब्दस्य अव्ययीभावसमासं कृत्वा 'अभ्यमित्रम्' इति शब्दः सिद्ध्यति । अस्मात् शब्दात् 'अलम् गच्छति' अस्मिन् अर्थे यत्,खः, छः - एते प्रत्ययाः विधीयन्ते । 'अभ्यमित्रमलम् गच्छति' इत्युक्ते 'अमित्रस्य (= शत्रोः) सम्मुखम् पर्याप्तरूपेण गच्छति' । appropriately faces an enemy - इति आशयः । रूपाणि एतादृशानि - 1. अभ्यमित्र + यत् → अभ्यमित्र्य । 2. अभ्यमित्र + ख → अभ्यमित्रीण । 3. अभ्यमित्र + छ → अभ्यमित्रीय । अभ्यमित्रमलङ्गामी सः अभ्यमित्र्यः, अभ्यमित्रीणः, अभ्यमित्रीयः वा । विशेषः - वस्तुतः 'अभ्यमित्रम्' इति अव्ययमस्ति । परन्तु अस्मिन् सूत्रे क्रियाविशेषणरूपेण अस्य प्रयोगः भवति, अतः अत्र 'द्वितीयासमर्थात्' इति निर्देशः क्रियते । मूलरूपेण अत्र 'अभ्यमित्र' इति प्रातिपदिकम् । अस्मात् शब्दात् द्वितीया-एकवचनस्य अम्-प्रत्यये कृते <<अव्ययादाप्सुपः>> 2.4.82 इत्यनेन तस्य लोपे प्राप्ते तं बाधित्वा <<नाव्ययीभावादतोऽम्त्वपञ्चम्याः>> 2.4.83 इत्यनेन अम्-प्रत्ययस्य 'अम्' इत्येव आदेशं कृत्वा 'अभ्यमित्रम्' इति रूपम् सिद्ध्यति ।

Balamanorama

Up

<<अभ्यमित्राच्छ च>> - अब्यमित्राच्छ च । अमित्रः=शत्रुः । तमभिमुखो भूत्वेत्यर्थेलक्षणेनाभिप्रती आभिमुख्ये॑ इत्यव्ययीभावे अभ्यमित्रशब्दः । तस्मादलङ्गामीत्यर्थे छप्रत्ययः स्यादित्यर्थः ।

Padamanjari

Up

अब्यचामित्रामिति।'लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावः, क्रियाविशेषणत्वात्कर्मणि द्वितीया ॥