अनुग्वलंगामी

5-2-15 अनुकु अलंगामी प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा खः तत्

Sampurna sutra

Up

index: 5.2.15 sutra: अनुग्वलंगामी


'अनुगु अलङ्गामी' (इति) खः

Neelesh Sanskrit Brief

Up

index: 5.2.15 sutra: अनुग्वलंगामी


'अनुगु' शब्दात् 'अलङ्गामी (पर्याप्तम् गच्छति)' अस्मिन् अर्थे ख-प्रत्ययः भवति ।

Kashika

Up

index: 5.2.15 sutra: अनुग्वलंगामी


गोः पश्चादनुगु। अनुगुशब्दादलङ्गामी इत्येतस्मिन्नर्थे खः प्रत्ययो भवति। अनुगु पर्याप्तं गच्छति अनुगवीनः गोपालकः।

Siddhanta Kaumudi

Up

index: 5.2.15 sutra: अनुग्वलंगामी


अनुगु गोः पश्चात्पर्याप्तं गच्छति अनुगवीनो गोपालः ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.15 sutra: अनुग्वलंगामी


'अनुगु' इति किञ्चन अव्ययम् । 'गोः पश्चात्' इत्यस्मिन् अर्थे 'अनु' अव्ययेन सह अव्ययीभावसमासं कृत्वा 'अनुगु' शब्दः सिद्ध्यति । अस्मात् 'अनुगु' शब्दात् 'अलम् (= पर्याप्तम्) गच्छति' अस्मिन् अर्थे ख-प्रत्ययः भवति ।

यथा -

अनुगु अलङ्गामी (= पर्याप्तं गच्छति)

= अनुगु + ख

→ अनुगु + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति ख-प्रत्ययस्य ईन-आदेशः]

→ अनुगो + ईन [ओर्गुणः 6.4.146 इति गुण-एकादेशः]

→ अनुगव् + इन [एचोऽयवायावः 6.1.78 इति अव्-आदेशः]

→ अनुगवीन

यः गोपालः धेनूनाम् रक्षणार्थम् तेभ्यः पश्चात् बहु दूरं यावत् गच्छति, धेनूभ्यः अवधानम् न त्यजति, तस्य निर्देशार्थम् 'अनुगवीन' शब्दस्य प्रयोगः क्रियते । A गोपाल who closely / appropriately follows the herd of cows wherever they go and does not leave the cows alone is referred as अनुगवीनः ।

Balamanorama

Up

index: 5.2.15 sutra: अनुग्वलंगामी


अनुग्वलंगामी - अनुग्वलंगामी । 'अनुगु' इत्यविभक्तिको निर्देशः । गोः पश्चादिति विग्रहे पश्चादर्थे अनोरव्ययीभावे ह्रस्वत्वे अनुगुशब्दः । तस्मादलङ्गामीत्यर्थे खः स्यादित्यर्थः । अत्र 'अनुगु' इत्यस्य क्रियाविशेषणत्वाद्द्वितीयैव समर्थविभक्तिरिति हरदत्तः । कृद्योगषष्ठीत्यन्ये ।अलङ्गामी॑त्यत्र अलंशब्दस्य विवरणं — पर्याप्तमिति । क्रियाविशेषणम् ।

Padamanjari

Up

index: 5.2.15 sutra: अनुग्वलंगामी


अलङ्गगामीति।'सुप्यजातौ' इति णिनिः। गोः पश्चादनुस्विति। पश्चादर्थेऽव्ययीभावः, उपसर्जनह्रस्वः। पर्याप्तमिति। क्रियाविशेषणमेव। अनुग्विति। ततश्च द्वितीयान्तात्प्रत्ययः। कृद्योगलक्षणा तु षष्ठी क्रियाविशेषणान्न भवति, तद्यथा - शोबनं पाचक इति ॥