आत्माध्वानौ खे

6-4-169 आत्माध्वानौ खे असिद्धवत् अत्र आभात् भस्य प्रकृत्या अणि अन्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

आत्मन् अध्वन् इत्येतौ खे परतः प्रकृत्या भवतः। आत्मने हित आत्मनीनः। अध्वानमलङ्गामी अध्वनीनः। ख इति किम्? प्रत्यात्मम्। प्राध्वम्। प्रत्यात्ममित्यव्ययीभावे <<अनश्च>> ५.४.१०८ इति समासान्तष्टच्प्रत्ययः। प्राध्वमिति <<उपसर्गादध्वनः>> ५.४.८५ इत्यच्प्रत्ययः॥

Siddhanta Kaumudi

Up

एतौ खेप्रकत्या स्तः । आत्मने हितमात्मनीनम् । विश्वजनीनम् ॥ कर्मधारयादेवेष्यते ॥ षष्ठीतत्पुरुषाद्बहुव्रीहेश्च छ एव । विश्वजनीयम् ।<!पञ्चजनादुपसंख्यानम् !> (वार्तिकम्) ॥ पञ्चजनीनम् ।<!सर्वजनाट्ठञ् खश्च !> (वार्तिकम्) ॥ सार्वजनिकः । सर्वजनीनः ।<!महाजनाट्ठञ् !> (वार्तिकम्) ॥ माहाजनिकः । मातृभोगीणः । पितृभोगीणः । राजभोगीणः । (गणसूत्रम् -) आचार्यादणत्वं च ॥ आचार्यभोगीनः ॥

Laghu Siddhanta Kaumudi

Up

एतौ खे प्रकृत्या स्तः । आत्मने हितम् आत्मनीनम् । विश्वजनीनम् । मातृभोगीणः ॥ इति छयतोरवधिः ॥ ९ ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<आत्माध्वानौ खे>> - तत्र टिलोपे प्राप्ते — आत्माध्वानौ खे । प्रकृत्या स्त इति ।प्रकृत्यैक॑जित्यस्तदनुवृत्तेरिति बावः । कर्मधारयादेवेति ।विआजनशब्दा॑दिति शेषः । त्र व्याख्यानमेव शरणम् । विआजनीयमिति । विआस्य जनो विआजनः=साधारमो वैद्यादिः । विआओ जनो यस्येति बहुव्रीहिर्वा । तस्मै हितमिति विग्रहः । पञ्चजनीनमिति । ब्राआहृणक्षत्रियवैश्यशूद्राश्चत्वारो वर्णा रथकारजातिश्चेत्येते पञ्चजनां । तेभ्यो हितमिति विग्रहः । सर्वजनाट्ठञ्खश्चेति । 'वक्तव्य' इति शेषः ।समानाधिकरणादिति वक्तव्य॑मिति वार्तिकं भाष्ये स्थितम् । महाजनाट्ठञिति । 'वक्तव्य' इति शेषः । विआजनप्रसङ्गादिदं वार्तिकद्वयमुपन्यस्तम् । अथ भोगोत्तरपदस्योदाहरति — मातृभोगीण इति । मातृभोगाय हित इत्यर्थः । आचार्यादिति । आचार्यशब्दात्परस्य भोगीनशब्दस्य नस्य णत्वाऽभावो वाच्य इत्यर्थः । नच असमानपदस्थत्वादेवात्र मत्वास्याऽप्रसक्तेस्तन्निषेधो व्यर्थ इति वाच्यं, मातृभोगीणादौ णत्वज्ञापनार्थत्वात् ।

Padamanjari

Up