5-2-121 अस्मायामेधास्रजः विनिः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप्
index: 5.2.121 sutra: अस्मायामेधास्रजो विनिः
'तत् अस्य, अस्मिन् अस्तीति' (इति) अस्-माया-मेधा-स्रजः विनिः, मतुँप् अन्यतरस्याम्
index: 5.2.121 sutra: अस्मायामेधास्रजो विनिः
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः असन्तेभ्यः प्रातिपदिकेभ्यः, तथा 'माया', 'मेधा' तथा 'स्रज्' एतेभ्यः शब्देभ्यः प्रथमासमर्थेभ्यः 'विनि' तथा 'मतुप्' प्रत्ययौ भवतः ।
index: 5.2.121 sutra: अस्मायामेधास्रजो विनिः
असन्तात् प्रातिपदिकात्, माया मेधा स्रजित्येतेभ्यश्च विनिः प्रत्ययो भवति मत्वर्थे। मतुप् सर्वत्र समुच्चीयते एव। असन्तात् तावत् यशस्वी, पयस्वी। मायावी। मेधावी। स्रग्वी। मायाशब्दाद् व्रीह्यादिषु पाठातिनिठनौ अपि भवतः। मायी, मायिकः।
index: 5.2.121 sutra: अस्मायामेधास्रजो विनिः
यशस्वी । यशस्वान् । मायावी । मायावान् । व्रीह्यादिपाठादिनिठनौ । मायी । मायिकः । क्विन्नन्तत्वात्कुः । स्रग्वी ।<!आमयस्योपसंख्यानं दीर्घश्च !> (वार्तिकम्) ॥ आमयावी ।<!शृङ्गवृन्दाभ्यामारकन् !> (वार्तिकम्) ॥ शृङ्गारकः । वृन्दारकः ।<!फलबर्हाभ्यामिनच् !> (वार्तिकम्) ॥ फलिनः । बर्हिणः ।<!हृदयाच्चालुरन्यतरस्याम् !> (वार्तिकम्) ॥ इनिठनौ मतुप् च । हृदयालुः । हृदयी । हृदयिकः । हृदयवान् ।<!शीतोष्णतृप्रेभ्यस्तदसहने !> (वार्तिकम्) ॥ शीतं न सहते शीतालुः । उष्णालुः । स्फायितञ्चीति रक् । तृप्रः पुरोडाशः । तं न सहते तृप्रालुः । तृप्रं दुःखमिति माधवः ।<!हिमाच्चेलुः !> (वार्तिकम्) ॥ हिमं न सहते हिमेलुः ।<!बलादूलः !> (वार्तिकम्) ॥ वलं न सहते बलूलः ।<!वातात्समूहे च !> (वार्तिकम्) ॥ वातं न सहते वातस्य समूहो वा वातूलः ।<!तप्पर्वमरुद्भ्याम् !> (वार्तिकम्) ॥ पर्वतः । मरुत्तः ॥
index: 5.2.121 sutra: अस्मायामेधास्रजो विनिः
यशस्वी। यशस्वान्। मायावी। मेधावी। स्रग्वी॥
index: 5.2.121 sutra: अस्मायामेधास्रजो विनिः
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् 5.2.94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । केभ्यश्चन शब्देभ्य एतयोः अर्थयोः 'विनि' इति अपि अपरः प्रत्ययः वर्तमानसूत्रेण पाठ्यते । क्रमेण पश्यामः -
यथा -
अ) यशः अस्य अस्ति सः यशस्वी । प्रक्रिया इयम् -
यशस् + विनि
→ यशस् + विन् [इकारः उच्चारणार्थः, तस्य लोपः]
→ यशस् + विन् [स्वादिष्वसर्वनामस्थाने 1.4.17 इति पदसंज्ञायां प्राप्तायाम् तसौ मत्वर्थे 1.4.19 इति भसंज्ञा विधीयते । अतः सकारस्य रुँत्वम् न भवति ।]
→ यशस्विन् ।
आ) तपः अस्य अस्ति सा तपस्विनी । 'तपस्विन्' इति प्रातिपदिकम् । स्त्रीत्वे विवक्षिते ऋन्नेभ्यो ङीप् 4.1.5 इत्यनेन ङीप्-प्रत्ययं कृत्वा 'तपस्विनी' इति प्रातिपदिकम् सिद्ध्यति । तस्य प्रथमैकवचनम् 'तपस्विनी' इति ।
इ) पयः यस्मिन् विद्यते तत् पयस्वि । 'पयस्विन्' इति प्रातिपदिकम्, नपुंसकलिङ्गस्य प्रथमैकवचनम् 'पयस्वि' इति ।
पक्षे वर्तमानसूत्रेण 'मतुप्' प्रत्ययः अपि भवतीति स्मर्तव्यम् । यथा - पयस्वान्, यशस्वान् - आदयः ।
अ) माया अस्य अस्मिन् वा अस्ति सः मायावी । माया + विन् → मायाविन् इति प्रातिपदिकम् ।
आ) मेधा अस्य अस्मिन् वा अस्ति सः मेधावी । मेधा + विन् → मेधाविन् इति प्रातिपदिकम् ।
(इ) स्रक् अस्य अस्मिन् वा अस्ति सः स्रग्वी । प्रक्रिया इयम् -
स्रज् + विनि
→ स्रज् + विन् [इकारः उच्चारणार्थः, तस्य लोपः]
→ स्रग् + विन् [स्वादिष्वसर्वनामस्थाने 1.4.17 इति पदसंज्ञा । पदान्ते विद्यमानस्य जकारस्य चोः कुः 8.2.30 इति कुत्वे गकारः ।]
→ स्रग्विन् ।
पक्षे वर्तमानसूत्रेण 'मतुप्' प्रत्ययः अपि भवति । यथा - मायावान्, मेधावान्, स्रग्वान् ।
विशेषः - 'माया' इति शब्दः व्रीह्यादिभ्यश्च 5.2.116 इत्यत्र निर्दिष्टे व्रीह्यादिगणे अपि स्वीकृतः अस्ति । अतः तेन सूत्रेण 'माया' शब्दात् 'इनि' तथा 'ठन्' एतौ प्रत्ययौ अपो भवतः । माया अस्य अस्मिन् वा अस्ति सः मायी मायिकः वा ।
स्मर्तव्यम् -
'विनि' प्रत्यये नकारोत्तरः इकारः इत्संज्ञकः नास्ति । केवलम् 'विन्' इति उच्यते चेत् नकारस्य इत्संज्ञा भवेत्, या न इष्यते ; अतः नकारस्य इत्संज्ञाबाधनार्थमन्ते इकारः स्थापितः अस्ति । प्रक्रियायाः प्रारम्भे एव अस्य लोपः भवति ।
सिद्धान्तकौमुद्यामस्मिन् सूत्रे कानिचन वार्त्तिकानि पाठितानि सन्ति । एतानि सर्वाणि वार्त्तिकानि भाष्ये काशिकायां च अग्रिमे सूत्रे बहुलं छन्दसि 5.2.122 इत्यत्र पाठ्यन्ते, अतः तेषाम् विवरणम् तत्रैव दत्तमस्ति ।
index: 5.2.121 sutra: अस्मायामेधास्रजो विनिः
अस्मायामेधास्रजो विनिः - अस्मायामेधा ।अ॑सित्यनेन असन्तं विवक्षितम् । असन्त, माया, मेधा, रुआज् एभ्यो विनि प्रत्ययः स्यादित्यर्थः । प्रत्यये नकारादिकार उच्चारणार्थः । यशस्वीति । 'तसौ मत्वर्थे' इति भत्वान्न रुत्वमिति भावः । यशस्वानिति ।एकगोपूर्वा॑दिति सूत्रे नित्यग्रहणेन निवृत्तमपि समुच्चयार्थमन्यतरस्याङ्ग्रहणमिहमण्डूकप्लुत्या अनुवर्तते, 'तसौ मत्वर्थे' इति सूत्रे यशस्वानिति भाष्योदाहरणादिति भावः । रुआग्वीत्यत्रव्रश्चे॑ति षत्वमाशङ्क्याह — क्वन्नन्तत्वादिति । आमयस्येति । आमशब्दान्मत्वर्थे विनिः प्रकृतेर्दीर्घश्चेत्यर्थः । शृङ्गवृन्दाभ्यामिति । फलबर्हाभ्यामिति । ह्मदयाच्चालुरिति । वार्तिकत्रयमिदम् । मतुप्चेति । 'वक्तव्य' इति शेषः, भाष्ये तथोक्तत्वात् । चुटू इति चकारस्येत्यसंज्ञा अन्यतरस्यांग्रहणाच्चालोपभावे इनिठनौ । समुच्चयार्थकान्यतरस्याङ्ग्रहणानुवृत्तेर्मतुबपि । तथा चाऽत्र चत्वारः प्रत्ययाः । तदाह — ह्मदयालुरित्यादि ।॒शीतोष्णतृप्रेम्यस्तन्न सहते॑ इति वार्तिकमर्थतः सङ्गृहणाति — शीतेति । शीत, उष्ण, तृप्र — एभ्यो द्वितीयान्तेभ्यो न सहते इत्यर्थे चालुर्वक्तव्य इत्यर्थः । तृप्रः पुरोडाश इति । मन्त्रभाष्ये तथोक्तत्वादिति भावः । हिमोच्चेलुरिति । वार्तिकमिदम् । हिमशब्दाद्द्वितीयान्तान्न सहत इत्यर्थे चेलुः स्यादित्यर्थः । चकार इत् । बलादूल इति ।तन्न सहते इत्यर्थे वक्तव्य॑ इति शेषः । वातात्समूहे चेति । षष्ठन्ताद्वातशब्दात्समूहेऽर्थे, द्वितीयान्तान्न सहते इत्यर्थे च ऊलप्रत्ययो वाच्य इत्यर्थः । तप्पर्वमरुद्भ्यामिति । वार्तिकमिदम् । पर्वमरुद्भ्यां तप्वक्तव्य #इत्यर्थः । 'तन्वक्तव्य' इति वृत्तिकृत्, हरदत्तश्च । प्रौढमनोरमायां तु नित्त्वं निराकृतम् । शब्देन्दुशेखरे तु हरदत्तसंमतं नित्त्वमेव स्थापितम् । रूढत्वादवयवार्थाऽभावान्न मतुप् ।
index: 5.2.121 sutra: अस्मायामेधास्रजो विनिः
मतुप् सर्वत्र समुच्चीयत एवेति। पूर्वं नित्यग्रहणेन अन्यतरस्यांग्रहणं तत्रैव न सम्बध्यते, इह तु सम्बध्यत एवेत्येव शब्दस्यार्थः। तथा च'तसौ मत्वर्थे' इत्यत्र पयस्वान् यशस्वानिति भाष्ये उदाहृतम्। पयस्वीति।'तसौ मत्वर्थे' इति भत्वाज्जश्त्वाभावः ॥