व्रीहिशाल्योर्ढक्

5-2-2 व्रीहिशाल्योः ढक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा धान्यानां भवने क्षेत्रे

Sampurna sutra

Up

index: 5.2.2 sutra: व्रीहिशाल्योर्ढक्


'धान्यानाम् भवने क्षेत्रे' (इति) व्रीहि-शाल्योः ढक्

Neelesh Sanskrit Brief

Up

index: 5.2.2 sutra: व्रीहिशाल्योर्ढक्


षष्ठीसमर्थात् 'व्रीहि' तथा 'शालि' शब्दात् उत्पत्तेः क्षेत्रस्य निर्देशार्थम् ढक् प्रत्ययः भवति ।

Kashika

Up

index: 5.2.2 sutra: व्रीहिशाल्योर्ढक्


व्रीहिशालिशब्दाभ्यां ढक् प्रत्ययो भवति भवने क्षेत्रे अभिधेये खञोऽपवादः। व्रीहीणां भवनं क्षेत्रम् व्रैहेयम्। शालेयम्।

Siddhanta Kaumudi

Up

index: 5.2.2 sutra: व्रीहिशाल्योर्ढक्


व्रैहेयम् । शालेयम् ॥

Laghu Siddhanta Kaumudi

Up

index: 5.2.2 sutra: व्रीहिशाल्योर्ढक्


व्रैहेयम्। शालेयम्॥

Neelesh Sanskrit Detailed

Up

index: 5.2.2 sutra: व्रीहिशाल्योर्ढक्


धान्यानां भवने क्षेत्रे खञ् 5.2.1 इत्यनेन सूत्रेण धान्यवाचिभ्यः प्रातिपदिकेभ्यः तेषामुत्पत्तेः क्षेत्रस्य निर्देशार्थम् औत्सर्गिकरूपेण खञ्-प्रत्ययः उक्तः अस्ति । अस्य अपवादरूपेण 'व्रीहि' तथा 'शालि' (द्वयोः अर्थः तण्डुलम् - rice - इत्येव) एताभ्याम् शब्दाभ्याम् ढक्-प्रत्ययः भवति । यथा -

  1. व्रीहीणाम् भवनम् क्षेत्रम्

= व्रीहि + ढक्

→ व्रीहि + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति एय-आदेशः]

→ व्रैहि + एय [किति च 7.2.118 इति आदिवृद्धिः]

→ व्रैह् + एय [यस्येति च 6.4.148 इति इकारलोपः]

→ व्रैहेय

व्रीहीणाम् भवनम् क्षेत्रम् व्रैहेयम् ।

  1. तथैव, शालिनाम् भवनम् क्षेत्रम् शालेयम् ।

Balamanorama

Up

index: 5.2.2 sutra: व्रीहिशाल्योर्ढक्


व्रीहिशाल्योर्ढक् - व्रीहिशाल्योर्ढक् । व्रीहिशब्दाच्छालिशब्दाच्च षष्ठन्ताद्भवने क्षेत्रे ।ञर्थे ढगित्यर्थः । खञोऽपवादः ।

Padamanjari

Up

index: 5.2.2 sutra: व्रीहिशाल्योर्ढक्


अत्रापि निर्द्देशादेव पष्ठी समर्थविभक्तिः, वृत्तिकारेण तु पूर्वानुसारेण गम्यमानत्वान्नोक्तम् ॥