कालात्

5-1-78 कालात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ्

Sampurna sutra

Up

प्राग्वतेः कालात् ठञ्

Neelesh Sanskrit Brief

Up

अधिकारसूत्रम् इदम् । इतः परम् 'व्युष्टादिभ्यः अण्' 5.1.97 इत्यस्मात् पूर्वम् ये अर्थाः पाठ्यन्ते ते औत्सर्गिकरूपेण कालवाचिप्रातिपदिकेभ्यः एव भवन्ति ।

Kashika

Up

कालादित्यधिकारः। यदित ऊर्ध्वमनुक्रमिष्यामः कालादित्येवं तद् वेदितव्यम्। वक्ष्यति — <<तेन निर्वृत्तम्>> ५.१.७९ — मासेन निर्वृत्तं मासिकम्। आर्धमासिकम्। सांवत्सरिकम्। कालादित्यधिकारो <<व्युष्टादिभ्योऽण्>>५.१.९७ इति यावत्॥

Siddhanta Kaumudi

Up

व्युष्टादिभ्योऽण् <{SK1761}> इत्यतः प्रागधिकारोऽयम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

अस्मिन् अधिकारे सप्त अर्थाः पाठ्यन्ते - 1. <<तेन निर्वृत्तम्>> 5.1.79 2. <<तमधीष्टो भृतो भूतो भावी>> 5.1.80 3. <<षष्टिकाः षष्टिरात्रेण पच्यन्ते>> 5.1.90 4. <<तेन परिजय्यलभ्यकार्यसुकरम्>> 5.1.93 5. <<तदस्य ब्रह्मचर्यम्>> 5.1.94 6. <<तस्य च दक्षिणा यज्ञाख्येभ्यः>> 5.1.95 7. <<तत्र च दीयते कार्यं भववत्>> 5.1.96 एतेषां सर्वेषामर्थानाम् प्रयोगः औत्सर्गिकरूपेण कालिवाचिप्रातिपदिकेभ्यः एव भवति ।

Balamanorama

Up

<<कालात्>> - कालात् । इत्यतः प्रागिति । व्याख्यानादिति भावः ।

Padamanjari

Up

स्वरूपग्रहणमिह न भवति,'तमधीष्टो भृतो भूतो भीषी' इत्यत्यन्तसंयोगे द्वितीयानिर्द्देसात्'मासाद्वयसि' इत्यादौ मासादीनां कालग्रहणेन विशेषणाच्च ॥