5-1-76 पन्थः ण नित्यम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् तत् गच्छति पथः
index: 5.1.76 sutra: पन्थो ण नित्यम्
'तत् नित्यम् गच्छति' (इति) पथः पन्थः, णः
index: 5.1.76 sutra: पन्थो ण नित्यम्
'नित्यम् गच्छति' अस्मिन् अर्थे द्वितीयासमर्थात पथिन्-शब्दात् ण-प्रत्ययः भवति, तथा च तस्य 'पन्थ' इति आदेशः अपि जायते ।
index: 5.1.76 sutra: पन्थो ण नित्यम्
नित्यग्रहणं प्रत्ययार्थविशेषणम्। पथः पन्थ इत्ययमादेशो भवति णश्च प्रत्ययो नित्यं गच्छति इत्यस्मिन् विषये। पन्थानं नित्यं गच्छति पान्थो भिक्षां याचते। नित्यम् इति किम्? पथिकः।
index: 5.1.76 sutra: पन्थो ण नित्यम्
पन्थानं नित्यं गच्छति पान्थः । पान्थी ॥
index: 5.1.76 sutra: पन्थो ण नित्यम्
'मार्गम् नित्यम् गच्छति' (Regularly travels on that road) अस्मिन् अर्थे पथिन्-शब्दात् पथः ष्कन् 5.1.75 इत्यनेन निर्दिष्टं ष्कन्-प्रत्ययं बाधित्वा वर्तमानसूत्रेण 'ण' प्रत्ययः क्रियते, तथा च 'पथिन्' शब्दस्य 'पन्थ' इति आदेशः अपि भवति । यथा -
पन्थानम् नित्यम् गच्छति सः
= पथिन् + ण
→ पन्थ + ण [पथिन्-शब्दस्य पन्थ-आदेशः]
→ पान्थ + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ पान्थ् + अ [यस्येति च 6.4.148 इति अन्तिमवर्णलोपः]
→ पान्थ
पन्थानम् नित्यम् गच्छति सः पान्थः भिक्षुः ।
ज्ञातव्यम् - भाष्यकारस्य मतेन लोके 'पान्थ' शब्दस्य प्रयोगः केवलम् 'नित्यम् गच्छति' अस्मिन्नेव अर्थे भवतीति न, अपितु 'कदाचित् गच्छति' इत्यस्मिन् अर्थे अपि भवति । अतः अस्मिन् सूत्रे 'नित्य'ग्रहणमनावश्यकमस्तीति सः प्रतिपादयति । इत्युक्ते, सः वदति - अत्र केवलम् 'पन्थः णः' इति वक्तव्यम्, येन 'तत् पन्थानम् गच्छति' इत्यस्मिन् अर्थे अपि पान्थ-शब्दः सिद्ध्यति ।
index: 5.1.76 sutra: पन्थो ण नित्यम्
पन्थो ण नित्यम् - पन्थो ण नित्यम् । पथ इत्यनुवर्तते, गच्छतीति च । नित्यमिति गच्छतीत्यत्रान्वितं प्रत्ययार्थप्रविष्यमेव, नतु विधानान्वितं सत् महाविभाषानिवृत्त्यर्थम् । द्वितीयान्तात्पथिन्शब्दान्नित्यं गच्छतीत्यर्थे णप्रत्ययः स्यात्, प्रकृतेः पन्थादेशश्चेत्यर्थः । भाष्ये तु नित्यग्रहणं प्रत्याख्यातम् ।
index: 5.1.76 sutra: पन्थो ण नित्यम्
नित्यग्रहणं प्रत्ययार्थविशेषणमिति। वाक्यनिवृत्यर्थं तु न भवति; पन्थादेशो हि प्रत्ययसन्नियोगेन विधीयमानो नैव वाक्ये सम्भवति; पथिन्श्ब्देन तु वाक्येऽनभिप्रेते पूर्वसूत्र एव नित्यग्रहणं कुर्यात्। यत्र पथिन्शब्दः श्रूयते, प्रत्ययान्तरनिवृत्यर्थमपि न भवति; पथः कनो विधानसामर्थ्यात्, प्रत्ययान्तरस्य प्राप्त्यभावात्। पन्थानं नित्यं गच्छतीति। नन्वयमर्थो न सम्भवति, विश्रमस्यावश्यम्भवित्वात्; सम्भवतु वा कथञ्चिदादित्यादौ, तथापि न तत्रैवेष्यते, उदाहृतं हि - पान्थो भिक्षां याचते इति ? तस्मादाभीक्षण्मुनित्यम्, परित्यागाभावो वा ॥