5-1-51 वस्नद्रव्याभ्यां ठन् कनौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक् तत् ःअरति वहति आवहति
index: 5.1.51 sutra: वस्नद्रव्याभ्यां ठन्कनौ
'तद् हरति, वहति, आवहति' (इति) वस्न-द्रव्याभ्याम् ठन्-कनौ
index: 5.1.51 sutra: वस्नद्रव्याभ्यां ठन्कनौ
'हरति', 'वहति', 'आवहति' एतेषु अर्थेषु द्वितीयासमर्थात् 'वस्न'शब्दात् ठन्-प्रत्ययः तथा च 'द्रव्य'शब्दात् कन्-प्रत्ययः भवति ।
index: 5.1.51 sutra: वस्नद्रव्याभ्यां ठन्कनौ
वस्नद्रव्यशब्दाभ्याम् द्वितीयासमर्थाभ्यां यथासङ्ख्यं ठन् कनित्यैतौ प्रत्ययौ भवतो हरत्यादिष्वर्थेषु। वस्नं हरति वहति वा वस्निकः। द्रव्यकः।
index: 5.1.51 sutra: वस्नद्रव्याभ्यां ठन्कनौ
यथासंख्यं स्तः । वस्त्रं हरति वहत्यावहति वा वस्त्रिकः । द्रव्यकः ॥
index: 5.1.51 sutra: वस्नद्रव्याभ्यां ठन्कनौ
'हरति' (देशान्तरं नयति / प्रापयति / carry to some other place), 'वहति' (उत्क्षिप्य नयति /lift and carry) तथा 'आवहति' (उत्पादयति / स्वसमीपे आनयति / manufactures / produces / brings something closer to oneself) एतेषु अर्थेषु वस्न (मूल्यम्) शब्दात् तथा 'द्रव्य' (धनम्) शब्दात् आर्हादगोपुच्छ.. 5.1.19 इत्यनेन प्राप्तं ठक्-प्रत्ययं बाधित्वा यथासङ्ख्यम् ठन् तथा कन् प्रत्ययः भवति -
वस्नं हरति वहति आवहति वा, सः = वस्न + ठन् → वस्निकः ।
द्रव्यम् हरति वहति आवहति वा, सः = द्रव्य + कन् → द्रव्यकः ।
index: 5.1.51 sutra: वस्नद्रव्याभ्यां ठन्कनौ
वस्नद्रव्याभ्यां ठन्कनौ - वस्नद्रव्याभ्याम् । तद्धरतिवहत्वायवहतीत्यनुवर्तते इत्यभिप्रेत्याह — वस्नं हरतीत्यादि ।
index: 5.1.51 sutra: वस्नद्रव्याभ्यां ठन्कनौ
वस्नशब्देन मूल्यमुच्यते ॥