5-1-46 पात्रात् ष्ठन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक् वापः
index: 5.1.46 sutra: पात्रात् ष्ठन्
'तस्य वापः' इति पात्रात् ष्ठन्
index: 5.1.46 sutra: पात्रात् ष्ठन्
'वापः' (क्षेत्रम्) अस्मिन् अर्थे षष्ठीसमर्थात् पात्रशब्दात् ष्ठन् प्रत्ययः भवति ।
index: 5.1.46 sutra: पात्रात् ष्ठन्
पात्रशब्दात् ष्ठन् प्रत्ययो भवति तस्य वापः 5.1.45 इत्येतस्मिन् विषये। ठञोऽपवादः। नकारः स्वरार्थः। षकारो ङीषर्थः। पात्रशब्दः परिमाणवाची। पात्रस्य वापः पात्रिकं क्षेत्रम्। पात्रिकी क्षेत्रभक्तिः।
index: 5.1.46 sutra: पात्रात् ष्ठन्
पात्रस्य वापः क्षेत्रं पात्रिकम्-पात्रिकी क्षेत्रभक्तिः ॥
index: 5.1.46 sutra: पात्रात् ष्ठन्
'वापः' इत्युक्ते क्षेत्रम् । उप्यते अस्मिन् सः वापः । षष्ठीसमर्थात् वापस्य निर्देशं कर्तुम् पात्रशब्दात् ष्ठन्-प्रत्ययः भवति । पात्रस्य वापः पात्रिकः । एकम् पात्रम् (मापनस्य किञ्चन परिमाणम्) यावत् बीजानि उप्यन्ते यस्मिन् सः पात्रिकः वापः ।
ज्ञातव्यम् - अस्मिन् प्रत्यये षकारनकारौ इत्संज्ञकौ स्तः -
(अ) नकारस्य प्रयोजनमस्ति ञ्नित्यादिर्नित्यम् 6.1.197 इत्यनेन तद्धितान्तस्य आद्युदात्तत्वविधानम् । इत्युक्ते, 'पात्रिक' शब्दस्य प्रथमः स्वरः अत्र आद्युदात्तः विधीयते ।
(आ) षकारस्य प्रयोजनमस्ति षिद्गौरादिभ्यश्च 4.1.41 इत्यनेन स्त्रीत्वस्य विवक्षायाम् ङीष्-प्रत्ययविधानम् । यथा, पात्रस्य वापः पात्रिकी क्षेत्रभक्तिः (क्षेत्रस्य कश्चन अंशः) ।
index: 5.1.46 sutra: पात्रात् ष्ठन्
पात्रात् ष्ठन् - पात्रात् ष्ठन् । तस्य वाप इत्येव । पात्रिकमिति । पात्रस्य वाप इत्यर्थः । षित्त्वं ङीषर्थमित्याह — पात्रिकीति ।