गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत्

5-1-39 गोद्व्यचः सङ्ख्यापरिमाणाश्वादेः यत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक् तस्य निमित्तं संयोगोत्पातौ

Sampurna sutra

Up

index: 5.1.39 sutra: गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत्


'तस्य निमित्तं संयोगोत्पातौ' इति गो-द्व्यचः असंख्या-परिमाण-अश्वादेः यत्

Neelesh Sanskrit Brief

Up

index: 5.1.39 sutra: गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत्


'निमित्तम्' अस्मिन् अर्थे संयोगमुत्पातम् वा दर्शयितुम् षष्ठीसमर्थात् 'गो'शब्दात् तथा च अश्वादिगणं विहाय अन्यात् अ-संख्या-परिमाणवाचि-द्व्यच्-शब्दात् यत् प्रत्ययः भवति ।

Kashika

Up

index: 5.1.39 sutra: गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत्


गोशब्दाद् द्व्यचश्च प्रातिपदिकात् सङ्ख्यापरिमाणाश्वादिविवर्जितात् यत् प्रत्ययो भवति तस्य निमित्तं संयोगोत्पातौ 5.1.38 इत्येतस्मिन्नर्थे। ठञादीनामपवादः। गोः निमित्तं संयोगः उत्पातो वा गव्यः। द्व्यचः खल्वपि धन्यम्। स्वर्ग्यम्। यशस्यम्। आयुष्यम्। असङ्ख्यापरिमाणाश्वादेरिति किम्? पञ्चानां निमित्तम् पञ्चकम्। सप्तकम्। अष्टकम्। परिमाण प्रास्थिकम्। खारीकम्। अश्वादि आश्विकः। ब्रह्मवर्चसादुपसङ्ख्यानम्। ब्रह्मवर्चसस्य निमित्तं गुरुणा संयोगः ब्रह्मवर्चस्यम्। अश्व। अश्मन्। गण। ऊर्णा। उमा। वसु। वर्ष। भङ्ग। अश्वादिः।

Siddhanta Kaumudi

Up

index: 5.1.39 sutra: गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत्


गोर्निमित्तं संयोग उत्पातो वा गव्यः । द्व्यचः । धन्यः । यशस्यः । स्वर्ग्यः । गोद्व्यचः किम् । विजयस्य वैजयिकः । असंख्या इत्यादि किम् । पञ्चानां पञकम् । सप्तकम् । प्रास्थिकम् । खारीकम् । अश्वादि- आश्विकम् । आस्मिकम् ।<!ब्रह्मवर्चसादुपसंख्यानम् !> (वार्तिकम्) ॥ ब्रह्मवर्चस्यम् ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.39 sutra: गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत्


'निमित्तम्' इत्युक्ते कारणम् । यत्र कस्यचन वस्तुनः निमित्तम् संयोगः उत उत्पातः अस्ति, तत्र तस्य निमित्तं संयोगोत्पातौ 5.1.38 अनेन सूत्रेण सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण ठञ्-प्रत्यये प्राप्ते केभ्यश्चन प्रातिपदिकेभ्यः तं बाधित्वा यत्-प्रत्ययः भवति । उदाहरणरूपेण क्रमेण पश्यामः -

  1. 'गो' शब्दात् यत् प्रत्ययः भवति ।गोः (= धेनोः) निमित्तम् यः गव्यः संयोगः । यथा - कश्चन राजा यदि देवदत्ताय एकां गां ददाति, तर्हि अस्यां स्थितौ राज्ञा सह संयोगः गोप्राप्तेः निमित्तमस्तीति मत्त्वा अयम् संयोगः 'गव्यः' संयोगः अस्ति इत्युच्यते ।

  2. यः शब्दः द्व्यच् अस्ति, परन्तु सङ्ख्यावाची परिमाणवाची वा नास्ति, तथा च अश्वादिगणे न वर्तते, तस्मात् अपि यत् प्रत्ययः भवति । यथा -

[अ] स्वर्गस्य निमित्तः यः संयोगः सः स्वर्ग्यः संयोगः ।

[आ] धनस्य निमित्तः यः उत्पातः वा सः धन्यः उत्पातः ।

[इ] यशसः निमित्तः यः संयोगः सः यशस्यः संयोगः ।

संख्यावाचिशब्दस्य परिमाणवाचिशब्दस्य विषये तु अस्य सूत्रस्य प्रसक्तिः नास्ति ।

[अ] पञ्चानाम् निमित्तः यः संयोगः सः पञ्चकः संयोगः । अत्र सङ्ख्यायाः अतिशदन्तायाः कन् 5.1.22 इति कन्-प्रत्ययः भवति ।

[आ] खार्याः (quintal इत्यर्थः) निमित्तः यः उत्पातः सः खारीकः उत्पातः । अत्र खार्याः ईकन् 5.1.33 इत्यत्र पाठितेन <!केवलाच्च!> अनेन वार्त्तिकेन ईकन्-प्रत्ययः भवति ।

तथैव, अश्वादिगणे विद्यमानानां शब्दानां विषये अनेन सूत्रेण निर्दिष्टः यत्-प्रत्ययः न विधीयते ।

अश्वादिगणः अयम् - अश्व। अश्मन्। गण। ऊर्णा। उमा। वसु। वर्ष। भङ्ग ।

यथा - अश्वस्य निमित्तः यः संयोगः सः आश्विकः संयोगः, ऊर्णायाः निमित्तं यः संयोगः सः और्णिकः संयोगः । उभयत्र ठञ्-प्रत्ययः एव भवति ।

अत्र एकं वार्त्तिकं ज्ञातव्यम् - <!ब्रह्मवर्चसाद् उपसंख्यानम् !> । इत्युक्ते, तस्य निमित्तं संयोगोत्पात्तौ 5.1.38 इत्यस्मिन् अर्थे 'ब्रह्मवर्चस' (sacred knowledge) शब्दात् अपि यत्-प्रत्ययः भवति । ब्रह्मवर्चसस्य निमित्तः अयमुत्पातः सः ब्रह्मवर्चस्यः उत्पातः ।

Balamanorama

Up

index: 5.1.39 sutra: गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत्


गोद्व्यचोरसंख्यापरिमाणाश्वादेर्यत् - गोद्व्यचः । तस्य निमित्तं संयोग उत्पातो वेत्यर्थे गोशब्दात्,द्व्यश्च षष्ठन्ताद्यत्प्रत्ययः स्यात्, नतु सङ्ख्यायाः परिमाणादआआदेश्चेत्यर्थः । ठकोऽपवादः । द्व्यचेति । 'उदाह्यियते' इति शेषः । धन्य इत्यादि । धनस्य यशसः स्वर्गस्य च निमित्तमित्यर्थः । विजयस्येति ।निमित्त॑मिति शेषः । वैजयिक इति । आर्हीयष्ठक् । पञ्चानामिति ।निमित्त॑मिति शेषः । पञ्चकमिति । 'सङ्ख्यायाः' इति कन् । सप्तकमिति । सप्तानां निमित्तमित्यर्थः । प्रास्थिकमिति । प्रस्थस्य निमित्तमित्यर्थः ।आर्हा॑दिति ठग्विधौ परिमाणपर्युदासात् प्राग्वतीयष्ठञ् । खारीकमिति । खार्या निमित्तमित्यर्थः । आर्हीयष्ठरक् । आश्मकमिति । अश्मनो निमित्तमित्यर्थः । आर्हीयष्ठक् । 'नस्तद्धिते' इति टिलोपः ।ब्राहृवर्चसादिति । 'गोद्व्यचः' इति सूत्रेब्राहृवर्चसाच्चे॑ति वक्तव्यमित्यर्थः । ब्राहृवर्चस्यमिति । ब्राहृवर्चस्य निमित्तमित्यर्थः ।

Padamanjari

Up

index: 5.1.39 sutra: गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत्


ठञादीनामिति। आदिशब्देन ठको ग्रहणम्। अतद्गुणसंविज्ञानो बहुव्रीहिः, बहुवचनं तु ठक एवैकस्य विषयवहुत्वमाश्रित्य कृतम्, ठकोऽपवाद इत्यर्थः। किं पुनःकारणमेवं व्याख्यायते ? संख्यापरिमाणाश्वादिवर्जिताद्गोद्व्यचष्ठक एव प्राप्तत्वात्। ब्रह्मवर्चसादिति। ब्रह्मणो वर्चो व्रह्यवर्चसं वृतस्वाध्यायसंपत्,'ब्रह्महस्तिभ्यां वर्चसः' इत्यच् समासान्तः ॥