नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम्

7-3-30 नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् वृद्धिः अचः ञ्णिति तद्धितेषु आदेः उत्तरपदस्य तु वा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

नञ उत्तरेषां शुचि ईश्वर क्षेत्रज्ञ कुशल निपुण इत्येतेषामचामादेरचो वृद्धिर्भवति पूर्वपदस्य वा भवति तद्धिते ञिति णिति किति च परतः। शुचि — अशौचम्, आशौचम्। ईश्वर — अनैश्वर्यम्, आनैश्वर्यम्। क्षेत्रज्ञ — अक्षैत्रज्ञ्यम्, आक्षैत्रज्ञ्यम्, कुशल — अकौशलम्, आकौशलम्। निपुण — अनैपुणम्, आनैपुणम्। अत्र केचिदाहुरियं पूर्वपदस्य वृद्धिरप्राप्तैव विभाषा विधीयते। <<न नञ्पूर्वात् तत्पुरुषात्०>> ५.१.१२१ इत्युत्तरो भावप्रत्ययः प्रतिषिध्यते। तत्र शुच्यादिभ्य एव प्रत्यये कृते पश्चाद् नञ्समासे सति वृद्धिरनङ्गस्यापि वचनाद् भवतीति। तदपरे न मृष्यन्ते। भाववचनादन्योऽपि हि तद्धितो वृद्धिनिमित्तमपत्यादिष्वर्थेषु नञ्समासादेव विद्यते, बहुव्रीहेश्च नञ्समासाद् भाववचनोऽप्यस्ति। तत्राङ्गाधिकारोपमर्दनं न युज्यत इति। अक्षेत्रज्ञानीश्वरौ तत्पुरुषावेव ब्राह्मणादिषु ५.१.१२४ पठ्येते, ततस्ताभ्यां भावे ष्यञ् भवति॥

Siddhanta Kaumudi

Up

नञः परेषां शुच्यादिपञ्चानामादेरचोवृद्धिः पूर्वपदस्य सु वा ञितादौ परे । आशौचम् । अशौचम् । आनैश्वर्यम् । अनैश्वर्यम् । आक्षैत्रज्ञम् । अक्षैत्रज्ञम् । आकौशलम् । अकौशलम् ॥ आनैपुणम् । अनैपुणम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अप्राप्तैव विधीयत इति । अप्राप्तिमेवोपपादयति - न नञ्पूर्वादिति । उतरो भावप्रत्यय इति । त्वतल्भ्यामुतरः ष्यञादिः, ततश्चोतरो भावप्रत्ययः प्रागेव नञ्समासात् शुच्यादिभ्य एव विधेयः, पश्चान्नञ्समासः; तत्र नञोऽङ्गेऽनन्तर्भावादप्राप्ता वृद्धिर्विधीयत इति । तदपरे इत्यादि । असति विषयेऽङ्गाधिकार उपमृद्यः, अस्ति च विषयः; कः पुनरसौ ? भाववचनादन्योऽपत्यादिषु विहितः प्रत्ययः । अथापि भाववचने श्रद्धा, सोऽपि शक्यत एव दर्शयितुमित्याह - बहुव्रीहेश्चेति । ठुतरो भावप्रत्ययः प्रतिषिध्यतेऽ इत्येतदप्यत्र न सार्वत्रिकमित्याह - अक्षेत्रज्ञेति । तदेवमङ्गाधिकारो न बाधनीय इति स्थितम् । एवं च'तदुपस्पर्शादशौचम्' इत्यादिप्रयोगोपपतिः ।'दशाहं शावमाशौचम्' इत्यादौ त्विदमर्थोऽण् द्रष्टव्यः ॥