भक्तादणन्यतरस्याम्

4-4-68 भक्तात् अण् अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् अस्मै दीयते नियुक्तम्

Sampurna sutra

Up

'तत् अस्मै नियुक्तम् दीयते' (इति) भक्तात् अन्यतरस्यामण्

Neelesh Sanskrit Brief

Up

'नित्यरूपेण, अव्यभिचाररूपेण अस्मै दीयते' अस्मिन् अर्थे प्रथमासमर्थात् 'भक्त'शब्दात् विकल्पेन अण्-प्रत्ययः भवति, पक्षे औत्सर्गिकः ठक् अपि भवति ।

Kashika

Up

भक्तशब्दादण् प्रत्ययो भवत्यन्यतरस्यां तदस्मै दीयते नियुक्तमित्येतस्मिन् विषये। ठकोऽपवादः। पक्षे सोऽपि भवति। भक्तमस्मै दीयते नियुक्तं भाक्तः, भाक्तिकः॥

Siddhanta Kaumudi

Up

पक्षे ठक् । भक्तमस्मै नियुक्तं दीयते भाक्तः । भाक्तिकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'भक्त' इत्युक्ते ओदनम् । <<तदस्मै दीयते नियुक्तम्>> 4.4.66 अस्मिन् अर्थे औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते तं विकल्पेन बाधित्वा वर्तमानसूत्रेण अण्-प्रत्ययः विधीयते । भक्तम् दीयते अस्मै नियुक्तम् सः भाक्तः । पक्षे 'ठक्' अपि भवति - भक्तम् दीयते अस्मै नियुक्तम् सः भाक्तिकः ।

Balamanorama

Up

<<भक्तादणन्यतरस्याम्>> - भक्तादणन्यतरस्याम् ।तदस्मै दीयते नियत॑मित्येव ।

Padamanjari

Up

भजेर्भक्तमु अन्नम् ॥