अगारान्ताट्ठन्

4-4-70 अगारान्तात् ठन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत्र नियुक्तः

Sampurna sutra

Up

'तत्र नियुक्तः' (इति) अगारान्तात् ठन्

Neelesh Sanskrit Brief

Up

यस्य अन्ते 'अगार' इति विद्यते, तादृशात् सप्तमीसमर्थात् 'नियुक्तः' अस्मिन् अर्थे ठन्-प्रत्ययः भवति ।

Kashika

Up

अगारशब्दान्तात् प्रातिपदिकात् ठन् प्रत्ययो भवति तत्र नियुक्त इत्येतस्मिन् विषये। ठकोऽपवादः। देवागारे नियुक्तो देवागारिकः। कोष्ठागारिकः। भाण्डागारिकः॥

Siddhanta Kaumudi

Up

देवागारे नियुक्तो देवागारिकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'अगार' (= स्थानम् / गृहम्) अयम् शब्दः यस्य अन्ते अस्ति, तादृशात् शब्दात् <<तत्र नियुक्तः>> 4.4.69 अस्मिन् अर्थे औत्सर्गिकम् ठक्-प्रत्ययं बाधित्वा ठन्-प्रत्ययः भवति । यथा - 1. देवागारे नियुक्तः = देवागार + ठन् → देवागारिकः । देवालये अर्चनं कर्तुम् यः अधिकृतः अस्ति सः देवागारिकः । 2. कोष्ठागारे नियुक्तः = कोष्ठागार + ठन् → कोष्ठागारिकः । 3. भाण्डागारे नियुक्तः सः भाण्डागारिकः ।

Balamanorama

Up

Padamanjari

Up