4-4-67 श्राणामांसौदनात् ट्ठिन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् अस्मै दीयते नियुक्तम्
index: 4.4.67 sutra: श्राणामांसौदनाट्टिठन्
'तत् अस्मै नियुक्तम् दीयते' (इति) श्राणा-मांसौदनात् टिठन्
index: 4.4.67 sutra: श्राणामांसौदनाट्टिठन्
'नित्यरूपेण, अव्यभिचाररूपेण अस्मै दीयते' अस्मिन् अर्थे श्राणा तथा मांसौदन - एताभ्यां शब्दाभ्यां प्रथमासमर्थाभ्याम् 'टिठन्' प्रत्ययः भवति ।
index: 4.4.67 sutra: श्राणामांसौदनाट्टिठन्
श्राणामांसओदनशब्दाभ्यां टिठन् प्रत्ययो भवति तदस्मै दीयते नियुक्तम् इत्येतस्मिन्नर्थे। ठकोऽपवादः। इकार उच्चारणार्थः। टकारो ङीबर्थः। श्राणा नियुक्तमस्मै दीयते श्राणिकः। श्राणिकी। मांसौदनिकः। मांसौदनिकी। अथ ठञेव कस्मान् न उक्तः, न ह्यत्र ठञष् टिठनो वा विशेषोऽस्ति? मांसौदनग्रहणं सङ्घातविगृहीतार्थं केचिदिच्छन्ति, तत्र वृद्ध्यभावो विशेषः। ओदनिकः। ओदनिकी।
index: 4.4.67 sutra: श्राणामांसौदनाट्टिठन्
श्राणा नियुक्तं दीयतेऽस्मै श्राणिकः । श्राणिकी । मांसौदनग्रहणं संधातविगृहीतार्थम् । मांसौदनिकः । मांसिकः । ओदनिकः ॥
index: 4.4.67 sutra: श्राणामांसौदनाट्टिठन्
'श्राणा' (यवागुः), तथा 'मांसौदन' (मांसमिश्रितम् ओदनम्) एताभ्यां शब्दाभ्याम् तदस्मै दीयते नियुक्तम् 4.4.66 अस्मिन् अर्थे औत्सर्गिकं ठक्-प्रत्ययं बाधित्वा टिठन्-प्रत्ययः विधीयते । 'टिठन्' इत्यत्र टकारनकारौ इत्संज्ञकौ स्तः, इकारः तु उच्चारणार्थः अस्ति ।
श्राणा दीयते अस्मै नियुक्तम् सः
= श्राणा + टिठन्
= श्राणा + ठ
→ श्राणा + इक [ठस्येकः 7.3.50 इति इक-आदेशः]
→ श्राण् + इक [किति च 7.2.118 इति आदिवृद्धिः, यस्येति च 6.4.148 इति आकारलोपः]
→ श्राणिक ।
तथैव - मांसौदनम् दीयते अस्मै नियुक्तम् सः = मांसौदनिकः ।
ज्ञातव्यम् -
1) 'टिठन्' इत्यत्र टकारः इत्संज्ञकः अस्ति । तस्य प्रयोजनम् स्त्रीप्रत्ययविधाने दृश्यते - स्त्रीत्वे विवक्षिते टित्-प्रत्ययान्तशब्दाः टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15 इत्यनेन ङीप्-प्रत्ययं प्राप्नुवन्ति ।यथा - श्राणा दीयते अस्यै नियुक्तम् सा = श्राणा + टिठन् + ङीप् → श्राणिकी ।
2) 'टिठन्' इत्यत्र नकारः अपि इत्संज्ञकः अस्ति । तस्य प्रयोजनम् 'स्वरविधानम्' इति । ञ्नित्यादिर्नित्यम् 6.1.197 इत्यनेन नित्-प्रत्ययान्तशब्दानां प्रथमस्वरः उदात्तसंज्ञां प्राप्नोतो ।
3) केचन पण्डिताः 'मांसौदन' शब्दस्य विग्रहं कृत्वा 'मांस' तथा 'ओदन' द्वयोः विषये भिन्नरूपेण अपि टिठन्-विधानम् कुर्वन्ति । यथा - मांसम् दीयते अस्मै नियुक्तम् सः मांसिकः , ओदनं दीयते अस्मै नियुक्तम् सः ओदनिकः । अस्मिन् विषये काशिकाकारः वदति - 'अथ ठञेव कस्मान् न उक्तः, न ह्यत्र ठञः टिठनः वा विशेषः अस्ति? मांसौदनग्रहणं सङ्घातविगृहीतार्थं केचिदिच्छन्ति, तत्र वृद्ध्यभावो विशेषः' । इत्युक्ते, यदि केवलं 'श्राणा' तथा 'मांसौदन' द्वौ शब्दौ एव अभविष्यताम्, तर्हि आचार्यः 'ठञ्' इत्येव प्रत्ययविधानमकरिष्यत् - यतः ञित्-प्रत्ययान्त-शब्दाः अपि स्त्रीत्वे विवक्षिते टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15 इत्यनेन ङीप्-प्रत्ययं प्राप्नुवन्ति, तथा च नित्-प्रत्ययवत् आद्युदात्तत्वमपि निदर्शयन्ति । परन्तु अत्र आचार्यः ञकारस्य प्रयोगम् न करोति अपितु नकारटकारयोः पृथक् रूपेण प्रयोगं करोति । एतत् अस्यैव ज्ञापकम् यत् अत्र आचार्यः 'ओदन' शब्दस्य अपि ग्रहणं कर्तुम् इच्छति, परन्तु तस्य विषये आदिवृद्धिं न इच्छति । अतएव अत्र 'मांस' तथा 'ओदन' - द्वयोः पृथक्-रूपेण अपि ग्रहणम् करणीयम् ।
index: 4.4.67 sutra: श्राणामांसौदनाट्टिठन्
श्राणामांसौदनाट्टिठन् - श्राणामांस ।तदस्मै दीयते नियत॑मित्येव । श्राणा=यवागूः ।यवागूरुष्णिका श्राणा विलेपी तरला च से॑त्यमरः । टित्त्वं ङीबर्थम् । तदाह — श्राणिकीति । सङ्घातविगृहीतार्थमिति । ठकैव सिद्धे 'ओदनिक' इत्यत्र आदिवृद्ध्यभावार्थं प्रत्ययान्तरविधानमिति भावः ।
index: 4.4.67 sutra: श्राणामांसौदनाट्टिठन्
'श्रा पाके' क्तः, क्षीरहविषोरेव निपातनाच्छभावाभावे'संयोगादेरातो धातोः' इति निष्टातकारस्य नकारः । श्राणा उ यवागूः । मांसमिश्र ओदनो मांसौदनः । ठञेव कस्मान्नोक्त इति । लाघावात्स एव युक्तो वक्तुमिति भावः । न ह्यत्रेति । द्वे अप्येते प्रकृती पूर्वमेव वृद्धे, योऽपि'वृद्धिनिमितस्य' इति पुंवद्भावप्रतिषेधः, स टिठन्यपि'न कोपधायाः' इति भवति । मासौदनग्रहणमित्यादि । ठञ्येव वक्तव्ये टिठनो वचनमेवात्र प्रमाणमिति तेषां भावः ॥