4-4-6 गोपुच्छात् ठञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन तरति
'तेन तरति' (इति) गोपुच्छात् ठञ्
तृतीयासमर्थात् 'गोपुच्छ'शब्दात् 'तरति' अस्मिन् अर्थे ठञ्-प्रत्ययः भवति ।
गोपुच्छशब्दाट् ठञ् प्रत्ययो भवति तरतीत्येतस्मिन्नर्थे। ठकोऽपवादः। स्वरे विशेषः। गौपु॑च्छिकः॥
गौपुच्छिकः ॥
'गोपुच्छ' इत्युक्ते धेनोः पुच्छम् । तस्य साहाय्येन यः कोऽपि तरति, तस्य निर्देशं कर्तुम् तृतीयासमर्थात् 'गोपुच्छ'शब्दात् ठञ्-प्रत्ययः भवति । यथा - गोपुच्छेन तरति सः = गोपुच्छ + ठञ् → गोपुच्छ + इक् [<<ठस्येकः>> 7.3.50 इति इक्-आदेशः] → गौपुच्छ + इक् [<<तद्धितेष्वचामादेः>> 7.2.117 इति ञित्-प्रत्यये परे अङ्गस्य आदिवृद्धिः] → गौपुच्छ् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → गौपुच्छिक ज्ञातव्यम् - <<प्राग्वहतेष्ठक्>> 4.4.1 अनेन सूत्रेण <<तरति>> 4.4.5 अस्मिन् अर्थे औत्सर्गिकरूपेण ठक्-प्रत्ययः क्रियते । परन्तु तं बाधित्वा वर्तमानसूत्रेण ठञ्-प्रत्ययः उक्तः अस्ति । वस्तुतः तु ठक्-प्रत्ययेन अपि 'गौपुच्छिक' इत्येव रूपं जायते, परन्तु तत्र स्वरे विशेषत्वं वर्तते । ठञ्-प्रत्ययान्तः यः 'गौपुच्छिक'शब्दः, तस्य आदिस्वरः (औकारः) <<ञित्यादिर्नित्यम्>> 6.1.197 इत्यनेन उदात्तत्त्वं प्राप्नोति, तथा कित्-प्रत्यये परे तु तस्य अनुदात्तत्वम् जायते । इमं स्वरभेदं दर्शयितुमेव अत्र पाणिनिना 'ठञ्' प्रत्ययस्य विधानं कृतमस्ति ।
<<गोपुच्छाट्ठञ्>> - गोपुच्छाट्ठञ् ।तरतीत्यर्थे तृतीयान्ता॑दिति शेषः ।