किशरादिभ्यः ष्ठन्

4-4-53 किसरादिभ्यः ष्ठन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् अस्य तत् अस्य पण्यम्

Sampurna sutra

Up

'तदस्य पण्यम्' (इति) किशरादिभ्यः ष्ठन्

Neelesh Sanskrit Brief

Up

'अस्य पण्यम्' अस्मिन् अर्थे किशरादिगणस्य प्रथमासमर्थशब्देभ्यः ष्ठन्-प्रत्ययः भवति ।

Kashika

Up

किशर इत्येवमादिभ्यः ष्ठन् प्रत्ययो भवति तदस्य पण्यमित्येतस्मिन् विषये। ठकोऽपवादः। किशरादयो गन्धविशेषवचनाः। किशराः पण्यमस्य किशरिकः। किशरिकी। नरदिकः। नरदिकी॥ किशर। नरद। नलद। सुमङ्गल। तगर। गुग्गुलु। उशीर। हरिद्रा। हरिद्रायणी। किशरादिः॥

Siddhanta Kaumudi

Up

किसरं पण्यमस्य किसरिकः । षित्वान्ङीष् । किसरिकी । किसर, उशीर, नलद, इत्यादि । किसरादयः सर्वे सुगन्धिद्रव्यविशेषवाचिनः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'पण्य' इति पण् (व्यवहारे) धातोः 'यत्' प्रत्ययान्तरूपम् । व्यवहारम् कर्तुम् / क्रेतुम् योग्यम् तत् पण्यम् । <<तदस्य पण्यम्>> 4.4.51 इत्यत्र निर्दिष्टे 'पण्यम्' अस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते तं बाधित्वा किशरादिगणस्य शब्देभ्यः ष्ठन्-प्रत्ययः भवति । किशरादिगणे सर्वे गन्धविशेषवाचिनः शब्दाः दीयन्ते । किशरादिगणः अयम् - किशर, नरद, नलद, सुमङ्गल, तगर, गुग्गुलु, उशीर, हरिद्रा, हरिद्रायणी । उदाहरणानि - 1. किशराः पण्यमस्य सः किशरिकः । 2. नरदाः पण्यमस्य सः नरदिकः । 3. सुमङ्गलाः पण्यमस्य सः सुमङ्गलिकः । 'ष्ठन्' प्रत्यये षकारः इत्संज्ञकः अस्ति, तस्य प्रयोजनम् - स्त्रीत्वे विवक्षिते <<षिद्गौरादिभ्यश्च>> 4.1.41 इत्यनेन ङीष्-प्रत्ययविधानम् । यथा - किशराः पण्यमस्याः सा = किशर + ष्ठन् +ङीष् → किशर + ठ + ई [इत्संज्ञालोपः] → किशर + इक + ई [<<ठस्येकः>> 7.3.50 इति इक्-आदेशः] → किशर् + इक + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → किशरिक + ई → किशरिक् + ई [<<यस्येति च>> 6.4.148 इति ईकारे परे अकारलोपः] → किशरिकी

Balamanorama

Up

<<किशरादिभ्यः ष्ठन्>> - किसरादिभ्यः ष्ठन् । तदस्य पण्यमित्येव ।ष्ठ॑न्निति च्छेदः । तदाह — षित्त्लान्ङीषिति ।

Padamanjari

Up

किशरादयो गन्धविशेषवचनास्तद्वति वर्तन्ते, गन्धान्पिनष्टीति यथा ॥