शलालुनोऽन्यतरस्याम्

4-4-54 शलालुनः अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् अस्य तत् अस्य पण्यम् ष्ठन्

Sampurna sutra

Up

'तदस्य पण्यम्' (इति) शलालुनः ष्ठन् अन्यतरस्याम्

Neelesh Sanskrit Brief

Up

'अस्य पण्यम्' अस्मिन् अर्थे प्रथमासमर्थात् 'शलालु'शब्दात् विकल्पेन ष्ठन् प्रत्ययः भवति, पक्षे औत्सर्गिकः ठक् अपि विधीयते ।

Kashika

Up

शलालुशब्दान्यतरस्यां ष्ठन् प्रत्ययो भवति तदस्य पण्यमित्येतस्मिन् विषये। ठकोऽपवादः, पक्षे सोऽपि भवति। शलालुशब्दो गन्धविशेषवचनः। शलालु पण्यमस्य शलालुकः। शलालुकी। शालालुकः। शालालुकी॥

Siddhanta Kaumudi

Up

ष्ठन्स्यात् पक्षे ठक् । शलालुकः । शलालुकी । शालालुकः । शालालुकी । शलालुः सुगन्थिद्रव्यविशेषः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'पण्य' इति पण् (व्यवहारे) धातोः 'यत्' प्रत्ययान्तरूपम् । व्यवहारम् कर्तुम् / क्रेतुम् योग्यम् तत् पण्यम् । <<तदस्य पण्यम्>> 4.4.51 इत्यत्र निर्दिष्ऱे 'पण्यम्' अस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते तं बाधित्वा 'शलालु'शब्दात् विकल्पेन ष्ठन्-प्रत्ययः भवति । (शलालु इति उकारान्तनपुंसकलिङ्गः गन्धविशेषवाची शब्दः) । यथा - शलालु पण्यमस्य सः = शलालु + ष्ठन् → शलालुक । स्त्रीत्वे विवक्षिते <<षिद्गौरादिभ्यश्च>> 4.1.41 इति ङीष्-प्रत्ययं कृत्वा - शलालुकी । अत्र ष्ठन्-प्रत्ययविधानम् 'अन्यतरस्याम्' कृतमस्ति, अतः पक्षे ठक् अपि भवति । यथा - शलालु पण्यमस्य सः = शलालु + ठक् → शालालुकः । स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्>> 4.1.15 इति ङीप्-प्रत्ययं कृत्वा - शालालुकी ।

Balamanorama

Up

<<शलालुनोऽन्यतरस्याम्>> - शलालुनोऽन्यतरस्याम् ।ष्ठ॑न्निति शेषः ।तदस्य पण्यमित्येव ।शलालुक इति । शलालु पण्यमस्येति विग्रहः । उकः परत्वाट्ठस्य कः । षित्त्वस्य फलमाह — शलालुकीति ।

Padamanjari

Up

शलालुक इति । ठिसुसुक्तान्तात्कःऽ ॥