वयस्यासु मूर्ध्नो मतुप्

4-4-127 वयस्यासु मूर्ध्नः मतुप् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छन्दसि

Sampurna sutra

Up

index: 4.4.127 sutra: वयस्यासु मूर्ध्नो मतुप्


'उपधानः मन्त्रः आसाम्' (इति) 'वयस्यासु मूर्ध्नः' इति इष्टकासु मतुप्, मतोः च लुक्

Neelesh Sanskrit Brief

Up

index: 4.4.127 sutra: वयस्यासु मूर्ध्नो मतुप्


'वयस्वान् मूर्धन्वान् उपधानमन्त्रः आसाम् इष्टकानाम्' अस्मिन् अर्थे प्रथमासमर्थात् मतुप्-प्रत्ययान्त-मूर्धन्-शब्दस्य वेदेषु संज्ञायाम् मतुप्-प्रत्ययः कृतः दृश्यते ।

Kashika

Up

index: 4.4.127 sutra: वयस्यासु मूर्ध्नो मतुप्


वयस्वानुपधानो मन्त्रो यासां ता वयस्याः, तास्वभिधेयासु मूर्ध्नो मतुप् प्रत्ययो भवति। पूर्वस्य यतोऽपवादः। यस्मिन् मन्त्रे वयःशब्दो मूर्धन्शब्दश्च विद्यते स वयस्वानपि भवति मूर्धन्वानपि, यथा मूर्धा वयः प्रजापतिश् छन्दः इति। तत्र वयस्वच्छब्दादिव मूर्धवच्छब्दादपि यति प्राप्ते मतुप् विधास्यते। मूर्धन्वतीर्भवन्ति। वयस्या एव मूर्धन्वत्यः। वयस्यासु इति किम्? यत्र मूर्धन्शब्द एव केवलो न वयःशब्दस्न् तत्र मा भूत्। मूर्धन्वतः इति वक्तव्ये मूर्ध्नः इत्युक्तं, मतुपो लुकं भाविनं चित्ते कृत्वा।

Siddhanta Kaumudi

Up

index: 4.4.127 sutra: वयस्यासु मूर्ध्नो मतुप्


तद्वानासामिति सूत्रं सर्वमनुवर्तते । मातोरिति पदमावर्त्य पञ्चम्यन्तं बोध्यम् । मतुबन्तो यो मूर्धशब्दस्ततो मतुप्स्यात्प्रथमस्य मतोर्लुक्च वयः शब्दवन्मन्त्रोपधेयासु मूर्धन्वतीरुपदधातीति प्रयोगः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.127 sutra: वयस्यासु मूर्ध्नो मतुप्


यस्मिन् उपधानमन्त्रे 'वयस्' तथा 'मूर्धन्' द्वावपि शब्दौ स्तः, तादृशः उपधानमन्त्रः 'वयस्वान्' अस्ति इत्यपि उच्यते, 'मूर्धन्वान् अस्ति इत्यपि उच्यते । अस्य मन्त्रस्य विषये 'आसाम् इष्टकानाम्' इत्यस्मिन् अर्थे प्रारम्भे वयस्वत्-शब्दात् तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः 4.4.125 इत्यनेन यत्-प्रत्ययः भवति । अग्रे तेनैव सूत्रेण 'मूर्धन्वत्' शब्दात् अपि यत्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण (आरम्भे 'मूर्धन्वत्' इत्यत्र विद्यमानस्य मतुप्-प्रत्ययस्य लुकं कृत्वा ततः पुनः) मतुप्-प्रत्ययः विधीयते ।

यथा - वयस्वान् मूर्धन्वान् मन्त्रः आसाम् इष्टकानाम् ताः इष्टकाः =

[1] वयस्वत्-शब्दात् यत्-प्रत्ययः -

वयस्वत् + यत्

→ वयस् + यत् [ तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः 4.4.125 इति मतुप्-प्रत्ययस्य लुक्]

→ वयस्य

[2] मूर्धन्वत्-शब्दात् मतुप्-प्रत्ययः -

मूर्धन्वत् + मतुप्

→ मूर्धन् + मत् [वयस्यासु मूर्ध्नो मतुप् 4.4.27 इति मतुप्-प्रत्ययस्य लुक्]

→ मूर्धन् + वत् [मादुपधायाश्च मतोर्वोऽयवादिभ्यः 8.2.9 इति वकारादेशः]

→ मूर्धन्वत्

वयस्वान् मूर्धन्वान् मन्त्रः आसाम् इष्टकानाम् ताः वयस्याः मूर्धन्वत्यः इष्टकाः ।

वेदेषु प्रयोगः - बौधायनश्रौतसूत्रेषु 10.38 - '...मूर्धन्वतीरुपदधाति विष्टम्भो वय इति चतस्रः पुरस्ताद्धँ सपातिनीस्तयादेवतं कृत्वा सूददोहसः करोत्यथ वसस्या उपदधाति...' ।

ज्ञातव्यम् -

  1. अस्य सूत्रस्य प्रयोगः केवलं तेषाम् मन्त्राणाम् विषये एव भवति येषु 'वयस्' तथा 'मूर्धन्' द्वावपि शब्दौ स्तः । यदि मन्त्रे केवलं मूर्धन्-शब्दः विद्यते, तर्हि सः मन्त्रः 'वयस्वान्' न भवति, केवलं 'मूर्धन्वान्' भवति । अस्य मन्त्रस्य विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः अस्यां स्थितौ 'मूर्धन्वत्' शब्दात् औत्सर्गिकः यत्-प्रत्ययः एव विधीयते, न हि मतुप्-प्रत्ययः ।

  2. अनेन सूत्रेण द्वे कार्ये उच्येते - मूर्धन्वान् शब्दात् विद्यमानस्य मतुप्-प्रत्ययस्य लुक्, तथा च नूतनरूपेण 'मतुप्' प्रत्ययविधानम् । आरम्भिकम् लुकम् दर्शयितुमेव 'मूर्ध्नः' इति लुप्त-मतुप्-प्रत्ययान्तस्य योजनम् सूत्रे कृतमस्ति । अस्मिन् विषये काशिकाकारः वदति - 'मूर्धन्वतः इति वक्तव्ये मूर्ध्नः इत्युक्तं, मतुपो लुकं भाविनं चित्ते कृत्वा' । इत्युक्ते, यद्यपि मतुप्-प्रत्ययः 'मूर्धन्वत्' शब्दात् विधीयते, तथापि सूत्रे उपस्थितः लुक्-मतुबन्तः 'मूर्धन्' शब्दः अग्रे भविष्यमाणम् लुकम् निर्देशयति - इति आशयः ।

Padamanjari

Up

index: 4.4.127 sutra: वयस्यासु मूर्ध्नो मतुप्


वयस्यास्विति । च्छन्दसि या वयस्या इष्टका उच्यन्ते तास्वित्यर्थः । ताश्च बह्व्यः, तास्वन्तश्चतस्रो मूर्धन्वत्यः,'विष्टम्भोवयः' इत्यादिवयस्वद्भिर्मन्त्रैरुपधेयाः, तत्र च यद्यपि मूर्द्धा वयः प्रजापतिश्च्छन्द इत्यन्तिम एकस्मिन्नेव मन्त्रे मूर्द्धशब्दोऽस्ति, तथापि साहचर्याद्'विष्टम्भो वयः' इत्याद्याश्चत्वारो मूर्धन्वन्त उच्यन्ते, यथा - च्छत्रिणो यान्तीति, तेन मूर्द्धन्वतीरुपदधातीति बहुवचनम् । मूर्द्धन्वानपि भवतीति । ननु ठनो नुट्ऽ इति च्छन्दसि नुड् विधीयते ? सत्यम् ; यथा सूत्रकारेण छान्दसमेव पदं प्रयुक्तम् -'वयसस्यासु' इति, तथेदमपि वृत्तिकारेण, मूर्धन्वानपि भवति च्छन्दसीत्यर्थः ।'वयस्याश्च ताः मूर्धन्वत्याश्च' इति ठुभयथापि च्छन्दस्यभिधीयतेऽ इत्युक्तं भवति । यत्र मूर्द्धन्शब्द एव केवल इति । यथा - ठग्ने यशस्विन्यशसे समर्पयऽ इत्यादिके मन्त्रे । ततो मा भूदिति । तदभिधायिनो मूर्द्धन्शब्दादित्यर्थः । मूर्द्धन्वत इति वक्तव्यमिति ।'तद्वान्' इति चऽ लुक् च मतोःऽ इति चानुवर्तते, ततश्च मूर्द्धन्वत इति युक्तं वक्तुमिति भावः । इह तु गायत्रीः पुरस्तादुपदधाति,'तेजो वै गायत्री तेज एव मुखतो धते मूर्द्धन्वती भवति' इति मुख्यो गायत्रीषु मूर्धंन्वतीशब्दः प्रथमं मतुबन्तः प्रयुक्तः, किं कारणम् ? तदुपधानमन्त्रेषु ठग्निर्मूर्धा भुवःऽ इत्यादिषु वयः शब्दस्याभावात् ॥