वस्नक्रयविक्रयाट्ठन्

4-4-13 वस्नक्रयविक्रयात् ठन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन जीवति

Sampurna sutra

Up

index: 4.4.13 sutra: वस्नक्रयविक्रयाट्ठन्


'तेन जीवति' इति वस्नक्रयविक्रयात् ठन्

Neelesh Sanskrit Brief

Up

index: 4.4.13 sutra: वस्नक्रयविक्रयाट्ठन्


वस्न, क्रय, विक्रय - एतेभ्यः शब्देभ्यः तृतीयासमर्थेभ्यः 'जीवति' अस्मिन् अर्थे ठन्-प्रत्ययः भवति ।

Kashika

Up

index: 4.4.13 sutra: वस्नक्रयविक्रयाट्ठन्


वस्नक्रयविक्रयशब्दाभ्यां तृतीयासमर्थाभ्यां ठन् प्रत्ययो भवति जीवति इत्येतस्मिन् विषये। ठकोऽपवादः। वस्नेन जीवति वस्निकः। क्रयविक्रयग्रहणं सङ्घातविगृहीतार्थम्। क्रयविक्रयीकः। क्रयिकः। विक्रयिकः।

Siddhanta Kaumudi

Up

index: 4.4.13 sutra: वस्नक्रयविक्रयाट्ठन्


वस्नेन मुल्येन जीवति वस्निकः । क्रयविक्रयग्रहणं संघातविगृहीतार्थम् । क्रयविक्रयिकः । क्रयिकः । विक्रयिकः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.13 sutra: वस्नक्रयविक्रयाट्ठन्


वस्नम् (मूल्यम्), क्रयः, विक्रयः, क्रयविक्रयः - एतैः साहाय्येन यः जीवति, तस्य निर्देशं कर्तुम् एतेभ्यः शब्देभ्यः ठन्-प्रत्ययः भवति -

  1. वस्नेन जीवति सः वस्निकः ।

  2. क्रयेण जीवति सः क्रयिकः ।

  3. विक्रयेण जीवति सः विक्रयिकः ।

  4. क्रयविक्रयेण जीवति सः क्रयविक्रयिकः ।

प्रक्रियायाः उदाहरणम् -

वस्न + ठक्

→ वस्न + इक [ठस्येकः 7.3.50 इति इक्-आदेशः]

→ वस्न् + इक [यस्येति च 6.4.148 इति अकारलोपः]

→ वस्निक

ज्ञातव्यम् - अस्मिन् सूत्रे 'क्रयविक्रय' अयम् निर्देशः क्रय, विक्रय तथा क्रयविक्रय - त्रयाणामपि ग्रहणं करोति । अतएव कौमुद्याम् काशिकायाम् च उच्यते - क्रयविक्रयग्रहणं सङ्घातविगृहीतार्थम्।

Balamanorama

Up

index: 4.4.13 sutra: वस्नक्रयविक्रयाट्ठन्


वस्नक्रयविक्रयाट्ठन् - वस्नक्रयविक्रयाट्ठन् । जीवतीत्यर्थे तृतीयान्तेभ्यो वस्नादिभ्यष्ठन् स्यादित्यर्थः । सङ्घातविगृहीतार्थमिति । व्याख्यानादिति भावः ।

Padamanjari

Up

index: 4.4.13 sutra: वस्नक्रयविक्रयाट्ठन्


वसेर्वस्नमुमूल्यम् । क्रियविक्रयग्रहणं सङ्घातविगृहीतार्थमिति । उक्तोऽत्र हेतुः । क्रयविक्रयेणेति समाहारद्वन्द्वः ॥