4-4-109 सोदरात् यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र समानोदरे शयितः
'शयितः' (इति) सोदरात् संज्ञायाम् यः
'शयितः' अस्मिन् अर्थे सप्तमीसमर्थात् 'सोदर'शब्दात् संज्ञायां विषये 'यः' अयम् प्रत्ययः विधीयते ।
सोदरशब्दात् सप्तमीसमर्थात् शयित इत्येतस्मिन्नर्थे यः प्रत्ययो भवति। <<विभाषोदरे>> ६.३.८८ इति सूत्रेण यकारादौ प्रत्यये विवक्षिते प्रागेव समानस्य सभावः। समानोदरे शयितः सोदर्यो भ्राता। ओ चोदात्तः ४.४.१०८ इति नानुवर्तते। यकारे स्वरः॥
सोदर्यः । अर्थः प्राग्वत् ॥
'सोदर' इत्युक्ते 'समानमुदरम्' । 'समानोदर' इत्यस्मात् शब्दात् 'शयितः' (शयनम् कृतः / स्थितः) अस्मिन् अर्थे 'य' प्रत्यये कृते <<विभाषोदरे>> 6.3.88 इत्यनेन 'समान' इत्यस्य विकल्पेन 'स' आदेशं कृत्वा 'सोदर' इति शब्दः सिद्ध्यति । तस्मात् अग्रे य-प्रत्ययं कृत्वा 'सोदर्य' इति तद्धितान्तः शब्दः सिद्ध्यति । प्रक्रिया इयम् - समानोदरे शयितः = समानोदर + य → सोदर + य [ <<विभाषोदरे>> 6.3.88 इति 'समान' इत्यस्य वैकल्पिकः 'स' आदेशः] → सोदर् + य [<<यस्येति च>> 6.4.148 इति अकारलोपः] → सोदर्य सोदरे (= समाने उदरे) शयितः सः सोदर्यः भ्राता, सा च सोदर्या स्वसा । ज्ञातव्यम् - 1. अस्मिन् सूत्रे वस्तुतः 'यत्' इति प्रत्ययः अनुवर्तते । परन्तु तं बाधित्वा अत्र 'य'प्रत्ययविधानम् कृतमस्ति । अस्य प्रयोजनम् स्वरविशेषः । 'यत्'प्रत्ययः <<तित्स्वरितम्>> 6.1.185 इत्यनेन स्वरितः जायते, परन्तु 'य'प्रत्ययः तु <<आद्युदात्तश्च>> 3.1.3 इत्यनेन आद्युदात्तः अस्ति । अत्र प्रत्ययस्य आद्युदात्तत्वम् इष्यते, अतः अत्र विशिष्टरूपेण 'य'प्रत्ययविधानम् कृतमस्ति । 2. 'समानोदर' शब्दस्य सोदर-आदेशः विकल्पेनैव भवति । पक्षे <<समानोदरे शयित ओ चोदात्तः>> 4.4.108 इत्यनेन 'समानोदर्य' इति अपि रूपं जायते । 'समानोदर्य' इत्यस्य ओकारः उदात्तः अस्ति परन्तु 'सोदर्य' शब्दस्य ओकारः उदात्तः नास्तीति अपि द्वयोर्मध्ये भेदः ।
<<सोदराद्यः>> - सोदराद्यः ।सप्तम्यन्ताच्छयित इत्यर्थे॑ इति शेषः । तित्त्वाऽभावात्प्रत्ययस्वेरणान्तोदात्तोऽयम् ।विभाषोदरे॑इति सभावः ।अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चती॑त्यत्र तु समानपर्यायसहशब्दस्य बहुव्रीहौवोपसर्जनस्ये॑ति सभावो बोध्यः । एवंयत्र भ्राता सहोदरः॑ इत्याद्यपि सिद्धम् । *इति बालमनोरमायाम् प्राग्घितीयाः ।*अथ प्रकृतिभावः*
यकारादौ प्रत्यये विवक्षित इति ।'विभाषोदरे' इत्यत्र'तीर्थे यः' इत्यतो य इत्यनुवर्तते, तत्र य इत्येषा विषयसप्तमीति दर्शयति । ओ चोदात इति तु नानुवर्तत इति । यविधानसामर्थ्यात् ॥