6-3-88 विभाषा उदरे उत्तरपदे ये
उदरशब्द उत्तरपदे यत्प्रत्ययान्ते समानस्य विभाषा स इत्ययमादेशो भवति। सोदर्यः, समानोदर्यः। <<समानोदरे शयित ओ चोदात्तः>>४.४.१०८ इति यत्॥
यादौ प्रत्यये विवक्षिते इत्येव । सोदर्यः । समानोदर्यः ॥
<<विभाषोदरे>> - विभाषोदरे । उदरशब्दे परे समानस्य सभावो वा स्यादित्यर्थः । इत्येवेति । अनुवर्तत एवेत्यर्थः ।