आकर्षात् ष्ठल्

4-4-9 आकर्षात् ष्ठल् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन चरति

Sampurna sutra

Up

'तेन चरति' (इति) आकर्षात् ष्ठल्

Neelesh Sanskrit Brief

Up

तृतीयासमर्थात् 'आकर्ष'शब्दात् 'चरति' अस्मिन् अर्थे ष्ठल्-प्रत्ययः भवति ।

Kashika

Up

आकर्षशब्दात् ष्ठल् प्रत्ययो भवति चरतीत्येतस्मिन्नर्थे। ठकोऽपवादः। लकारः स्वरार्थः। षकारो ङीषर्थः। आकर्षेण चरति आकर्षिकः। आकर्षिकी। आकर्ष इति सुवर्णपरीक्षार्थो निकषोपल उच्यते॥

Siddhanta Kaumudi

Up

आकर्षो निकाषोपलः । आकषादिति पाठान्तरम् । तेन चरति आकर्षिकः । षित्वान्ङीष् । आकर्षिकी ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'आकर्ष' इत्युक्ते सुवर्णस्य परीक्षणे प्रयुज्यमानः कश्चन धातुः । यः कोऽपि तस्य साहाय्येन गच्छति / खादति तस्य निर्देशं कर्तुम् तृतीयासमर्थात् आकर्ष-शब्दात् ष्ठल्-प्रत्ययः भवति । आकर्षेण चरति = आकर्ष + ष्ठल् → आकर्ष + ठ [षकारलकारयोः इत्संज्ञा, लोपः] → आकर्ष + इक [<<ठस्येकः>> 7.3.50 इति इक्-आदेशः] → आकर्ष + इक [<<किति च>> 7.2.118 इति आदिवृद्धिः] → आकर्ष् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः → आकर्षिक । स्त्रीत्वे विवक्षिते षित्वात् <<षिद्गौरादिभ्यश्च>> 4.1.41 इत्यनेन ङीष्-प्रत्ययं कृत्वा 'आकर्षिकी' इति प्रातिपदिकं सिद्ध्यति । आकर्षेण चरति सा आकर्षिकी । ज्ञातव्यम् - कौमुद्यां दीक्षितः वदति - 'आकषादिति पाठान्तरम्' । इत्युक्ते, अस्मिन् सूत्रे 'आकर्ष' इत्यस्य स्थाने 'आकष' इत्यपि प्रयोगः कृतः दृश्यते । अतः 'आकषेन चरति सः आकषिकः' इत्यपि रूपम् साधुः एव ।

Balamanorama

Up

<<आकर्षात् ष्ठल्>> - आकर्षात्ष्ठल् । तेन चरतीत्यर्थे तृतीयान्तादाकर्षशब्दात्ष्ठलित्यर्थः ।

Padamanjari

Up

आकर्षेति ।'पुंसि संज्ञायां घः प्रायेण' इति अधिकरणे घः ॥