वामदेवाड्ड्यड्ड्यौ

4-2-9 वामदेवात् ड्यत् ड्यौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन दृष्टं साम

Sampurna sutra

Up

'तेन दृष्टं साम' (इति) वामदेवात् ड्यत्-ड्यौ

Neelesh Sanskrit Brief

Up

'दृष्टं साम' अस्मिन् अर्थे तृतीयासमर्थात् वामदेव-शब्दात् 'ड्यत्' तथा 'ड्य' प्रत्ययौ भवतः

Neelesh English Brief

Up

The word वामदेव gets the प्रत्ययs ड्यत् and ड्य in the meaning of 'तेन दृष्टं साम'.

Kashika

Up

वामदेवशब्दात् तृतीयासमर्थाद् दृष्टं सामेत्येतस्मिन्नर्थे ड्यत् ड्य इत्येतौ प्रत्ययौ भवतः। अणोऽपवादः। वामदेवेन दृष्टं साम वामदेव्यं साम। तित्करणं स्वरार्थम्। डित्करणं किमर्थम्? <<ययतोश्चातदर्थे>> ६.२.१५६ इति नञ उत्तरस्यान्तोदात्तत्वे विधीयमानेऽनयोर्ग्रहणं मा भूत्। अननुबन्धकग्रहणपरिभाषया एकानुबन्धकग्रहणपरिभाषया चानयोर्निवृत्तिः क्रियते। अवा॑मदेव्यम्।

सिद्धे यस्येतिलोपेन किमर्थं ययतौ डितौ ।

ग्रहणं मातदर्थे भूद् वामदेव्यस्य नञ्स्वरे॥

Siddhanta Kaumudi

Up

वामदेवेन दृष्टं साम वामदेव्यम् ॥ सिद्धे यस्येतिलोपेन किमर्थं ययतौ डितौ । ग्रहणं माऽतदर्थे भूद्वामदेव्यस्य नञ्स्वरे ॥ 1 ॥ इति भाष्यम् ॥

Laghu Siddhanta Kaumudi

Up

वामदेवेन दृष्टं साम वामदेव्यम्॥

Neelesh Sanskrit Detailed

Up

<<दृष्टं साम>> 4.2.7 अस्मिन् अर्थे 'वामदेव' शब्दात् ड्यत् तथा ड्य एतौ प्रत्ययौ भवतः । वामदेवेन दृष्टं साम → वामदेव + ड्यत् / ड्य → वामदेव् + य [<<टेः>> 6.4.143 इति टिलोपः] → वामदेव्य ज्ञातव्यम् 1. ड्यत्-प्रत्ययान्तरूपम् ड्य-प्रत्ययान्तरूपम् च समानमेव भवति । द्वयोः रूपयोः केवलं स्वरभेदः अस्ति । <<तित्स्वरितम्>> 6.1.185 इत्यनेन ड्यत्-प्रत्ययान्त-'वामदेव्य' शब्दस्य यकारोत्तरः अकारः स्वरितः जायते, परन्तु ड्य-प्रत्ययनिर्मितस्य 'वामदेव्य' शब्दस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । 2. एतयोः प्रत्यययोः डकारस्य इत्संज्ञायाः किम् प्रयोजनम्? डकारः नास्ति चेदपि अङ्गस्य भसंज्ञां कृत्वा <<यस्येति च>> 6.4.148 इत्यनेन अन्तिमवर्णलोपं कृत्वा अपि एते एव रूपे भवतः । अतः अत्र डकारः किमर्थम् प्रयुक्तः इति प्रश्नः उपतिष्ठति । अस्मिन् विषये भाष्यकारः ब्रूते - सिद्धे 'यस्येति'लोपेन किमर्थं य-यतौ डितौ। ग्रहणं माऽतदर्थे भूत् वामदेव्यस्य नञ्स्वरे ॥ इत्युक्ते, केवलं य/यत् इति उच्यते चेत् <<ययतोः च अतदर्थे>> 6.2.156 अस्य सूत्रस्य अपि 'वामदेव्य' शब्दस्य विषये प्रसक्तिः स्यात् । एवं भवति चेत् 'अवामदेव्य' अस्य शब्दस्य अन्तिमस्वरः (यकारोत्तरः अकारः) उदात्तः भवेत् । तत् तथा मा भूत्, एतत् स्पष्टीकर्तुमत्र डकारः प्रयुक्तः अस्ति । (अवामदेव्य इत्यत्र अकारः उदात्तः भवति, अतः शेषनिघातेन यकारोत्तरः अकारः अनुदात्तः अस्ति ।) ।

Balamanorama

Up

<<वामदेवाड्ड्यड्ड्यौ>> - वामदेवाड्डड्डऔ । वामदेव्यमिति । डित्त्वाट्टिलोपः । तित्त्वं स्वरार्थम् । ननुयस्येति चे॑ति लोपेन सिद्धे किमर्थमिह डित्करणमिति चेत्, सत्यम्ययतोरेव विधौ 'ययतोश्चाऽतदर्थे' इति नञः परस्य ययदन्तस्यान्तोदात्तस्वरविधावनयोग्र्रहणं स्यात्, तदभावार्थ डित्करणं । डित्करणे सति तु स्वरविधावनयोर्न ग्रहणंनिरनुबन्धकग्रहणे सति न सानुबन्धकस्य ग्रहण॑मिति परिभाषयातदनुबन्धकग्रहणे सति नाऽतदनुबन्धकस्य॑ इति परिभाषया च तन्निवृत्तिर्भवति । एते तु परिभाषे इहैव ज्ञाप्येते । तथाचअवामदेव्य॑मित्यत्राऽयं स्वरो न भवति । एतत्सङ्ग्राहकं भाष्यस्थं श्लोकं पठति — सिद्धे यस्येत्यादि । अत्र पूर्वार्धमाक्षेपपरम् । 'यस्य' इति लोपेन सिद्धे ययतौ किमर्थं डितौ कृतावित्यर्थः । ग्रहणमिति । वामदेव्यशब्दस्य नञ्स्वरे=नञाश्रयस्वरविधौ अतदर्थे=नञाश्रयस्वरविधौ अतदर्थे=॒ययतोश्चातदर्थे॑ इति सूत्रे अनयोडर्ड्डयोग्र्रहणं मा भूदित्येतदर्थं डित्करणमित्यर्थः ।

Padamanjari

Up

डिस्कारणं किमर्थमिति । यस्येति लोपेनैव सिद्धि मत्वा प्रश्नः । अनयोर्ग्रहणं मा भूदिति । अथ'क्रियमाणे' पि डित्करणे कस्मादेवानयोर्ग्रहणं न भवति ? तत्राह - अननुबन्धकेति । ठननुबन्धकस्य ग्रहणे न सानुबन्धकस्यऽ इति यग्रहणे ड।ल्ड।ल्तोर्ग्रहणं न भवति, एकानुबन्धकपरिभाषया तु यद्ग्रहणे ड।ल्तो ग्रहणाभावः । अवामदेव्यमिति । अव्ययपूर्वपदप्रकृतिस्वरेणाद्यौदातत्वमेव भवति । संग्रहश्लोके अतदर्थे इत्यनेन'ययतोश्चातदर्थे' इत्येतत्सूत्रं लक्ष्यते । नञ्स्वर इति । नञाश्रयः स्वरो नञ्स्वरः, उतरपदान्तोदातत्वं तस्मिन्विधीयमाने इत्यर्थः ॥