ययतोश्चातदर्थे

6-2-156 ययतोः च अतदर्थे उत्तरपदात् अन्तः नञः गुणप्रतिषेधे अनोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

य यत् इत्येतौ यौ तद्धितावतदर्थे वर्तेते, तदन्तस्योत्तरपदस्य नञो गुणप्रतिषेधविषयादन्त उदात्तो भवति। पाशानां समूहः पाश्या, न पाश्या अ॒पा॒श्या। अ॒तृ॒ण्या। यत् — दन्तेषु भवं दन्त्यम्, न दन्त्यम् अ॒द॒न्त्यम्। अ॒क॒र्ण्यम्। अतदर्थ इति किम्? पादार्थमुदकं पाद्यम्, न पाद्यम् अपा॑द्यम्। तद्धिता इत्येव — अदे॑यम्। गुणप्रतिषेध इत्येव — दन्त्यादन्यद् अद॑न्त्यम्। निरनुबन्धकैकानुबन्धकयोः (सीर०प० ५०.५१) ययतोर्ग्रहणादिह न भवति — <<वामदेवाड् ड्यड्ड्यौ>> ४.२.९ — वामदेव्यम्, न वामदेव्यम् अवा॑मदेव्यम् इति॥

Siddhanta Kaumudi

Up

ययतौ यौ तद्धितौ तदन्तस्योत्तरपदस्य नञो गुणप्रतिषेधविषयात्परस्यान्त उदात्तः स्यात् । पाशानां समूहः पाश्या । न पाश्या अपाश्या । अदन्त्यम् । अतदर्थे किम् । अपाद्यम् । तद्धितः किम् । अदेयम् । गुणप्रतिषेधे किम् । दन्त्यादन्यददन्त्यम् । तदनुबन्धग्रहणे नातदनुबन्धकस्येति । नेह । अवामदेव्यम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

पाशतृणशब्दाभ्यां समूहे पाशादिभ्यो यः दन्तकर्णशब्दाभ्यां भवार्थे दिगादिभ्यो यत्, शरीरावयवाच्चेति यत् । पाद्यमिति । पादार्घाभ्यां चेति यत् । अदेयमिति । अर्हार्थे अचो यत् ईद्याति इतीत्वम्, गुणः । निरनुबन्धकैकानुबन्धयीरिति । एते च परिभाषे - वामदेवाद् ड।ल्ड्ड।लै इत्यत्र ज्ञापिते ॥