आग्रहायण्यश्वत्थाट्ठक्

4-2-22 आग्रहायणी अश्वत्थात् ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सा अस्मिन् पौर्णमासी इति सञ्ज्ञायाम्

Sampurna sutra

Up

index: 4.2.22 sutra: आग्रहायण्यश्वत्थाट्ठक्


'सा अस्मिन् पौर्णमासी इति संज्ञायाम्' (इति) आग्रहायणी-अश्वत्थात् ठक्

Neelesh Sanskrit Brief

Up

index: 4.2.22 sutra: आग्रहायण्यश्वत्थाट्ठक्


आग्रहायणी-शब्दात् तथा अश्वत्थ-शब्दात् 'सा अस्मिन् पौर्णमासी इति संज्ञायाम्' अस्मिन् अर्थे ठक् प्रत्ययः भवति ।

Neelesh English Brief

Up

index: 4.2.22 sutra: आग्रहायण्यश्वत्थाट्ठक्


The words आग्रहायण and अश्वत्थ get the प्रत्यय ठक् in the meaning of 'सा अस्मिन् पौर्णमासी इति संज्ञायाम्'.

Kashika

Up

index: 4.2.22 sutra: आग्रहायण्यश्वत्थाट्ठक्


सा अस्मिन् पौर्णमासी इति सर्वमनुवर्तते। आग्रहायणीशब्दादश्वत्थशब्दाच् च प्रथमसमर्थात् पौर्णमास्युपाधिकादस्मिन्निति सप्तम्यर्थे ठक् प्रत्ययो भवति। अणोऽपवादः। आग्रहायणिको मासः, अर्धमासः, संवत्सरः। एवमाश्वत्थिकः।

Siddhanta Kaumudi

Up

index: 4.2.22 sutra: आग्रहायण्यश्वत्थाट्ठक्


अग्रे हायनमस्या इत्याग्रहायणी । प्रज्ञादेराकृतिगणत्वादण् । पूर्वपदात्संज्ञायाम्-<{SK857}> इति णत्वम् । आग्रहायणी पौर्णमासी अस्मिन् आग्रहायणिको मासः । अश्वत्थेन युक्ता पौर्णमासी अश्वत्थः । निपातनात्पौर्णमास्यामपि लुप् । आश्वत्थिक ॥

Neelesh Sanskrit Detailed

Up

index: 4.2.22 sutra: आग्रहायण्यश्वत्थाट्ठक्


सा अस्मिन् पौर्णमासी इति संज्ञायाम् 4.2.21 अस्मिन् अर्थे आग्रहायणी-शब्दात् अश्वत्थशब्दात् च ठक्-प्रत्ययः भवति । यथा -

  1. आग्रहायणी पौर्णमासी अस्मिन् मासे / अर्धमासे / संवत्सरे सः

= आग्रहायणी + ठक्

→ आग्रहायणी + इक [ठस्येकः 7.3.50 इत्यनेन ठकारस्य इक्-आदेशः]

→ आग्रहायणी + इक [किति च 7.3.118 इति आदिवृद्धिः]

→ आग्रहायण् + इक [यस्येति च 6.4.148 इति ईकारलोपः]

→ आग्रहायणिक ।

  1. अश्वत्थः पौर्णमासी अस्मिन् मासे / अर्धमासे / संवत्सरे सः

= अश्वत्थ + ठक्

→ अश्वत्थ + इक [ठस्येकः 7.3.50 इत्यनेन ठकारस्य इक्-आदेशः]

→ आश्वत्थ + इक [किति च 7.3.118 इति आदिवृद्धिः]

→ अाश्वत्थ् + इक [यस्येति च 6.4.148 इति अकारलोपः]

→ आश्वत्थिक ।

ज्ञातव्यम् -

  1. अस्मिन् सूत्रे 'अश्वत्थात्' इति निर्देशः कृतः अस्ति । अस्मात् निर्देशात् पौर्णमास्याः नाम 'अश्वत्थ' इति 'पुंलिङ्गे ' अस्ति एतत् ज्ञायते । अतः संज्ञायाम् श्रवण-अश्वत्थाभ्याम् 4.2.5 अनेन सूत्रेण पौर्णमास्याः नाम्नः विषये अपि अण्-प्रत्ययस्य लुप् विधीयते, येन 'अश्वत्थः पौर्णमासी' अयं प्रयोगः सिद्ध्यति ।

Balamanorama

Up

index: 4.2.22 sutra: आग्रहायण्यश्वत्थाट्ठक्


आग्रहायण्यश्वत्थाट्ठक् - आग्रहायण्यआत्थाट्ठक् । पूर्वसूत्रविषये आग्रहायणीशब्दादआत्थशब्दाच्च ठक् स्यादित्यर्थः अणोऽपवादः । हायनमिति । संवत्सर इत्यर्थः ।संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री॑त्यमर । यस्या ऊध्र्वं संवत्सरस्यारम्भः सा पोर्णमासी आग्रहायणीत्यर्थः । तर्हि आग्रहायणेति स्यादित्यत आह — प्रज्ञादेरिति ।प्रज्ञादिभ्यश्चे॑ति स्वार्थे अमिटिड्ढे॑ति ङीबित्यर्थः । अआत्थेनेति । अइआनीनक्षत्रेणेत्यर्थः । अआत्थ इति । नक्षत्राऽणो 'लुबविषेशे ' इति लुबिति भावः । ननुविभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः॑ इति निर्देशेन पौर्णमास्यां 'लुबविशेषे' इत्यस्याऽप्रवृत्तेरुक्तत्वात्कथमिह लुबित्यत आह — निपातनादिति । तथाच पौणमास्यां लुब्नेति ज्ञापनमेतद्व्यतिरिक्तविषयमिति भावः ।

Padamanjari

Up

index: 4.2.22 sutra: आग्रहायण्यश्वत्थाट्ठक्


अग्रे हायनमस्या इत्याग्रहायणी, प्रज्ञादेराकृतिगणत्वादण्,'पूर्वपदात्संज्ञायाम्' इति णत्वम् । अश्वत्थेन युक्ता पौर्णमासी अश्वत्थ इति । निपातनात्पौर्णमास्यामपि लुप् ॥