4-2-5 सञ्ज्ञायां श्रवणाश्वत्थाभ्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन नक्षत्रेण युक्तः कालः लुप्
index: 4.2.5 sutra: संज्ञायां श्रवणाश्वत्थाभ्याम्
'नक्षत्रेण युक्तः कालः' (इति) श्रवण-अश्वत्थाभ्याम् संज्ञायां लुप्
index: 4.2.5 sutra: संज्ञायां श्रवणाश्वत्थाभ्याम्
'युक्तः कालः' अस्मिन् अर्थे 'श्रवण' तथा 'अश्वत्थ' शब्दाभ्याम् प्रयुक्तस्य तद्धितप्रत्ययस्य संज्ञायाः निर्देशे लुप् भवति ।
index: 4.2.5 sutra: संज्ञायां श्रवणाश्वत्थाभ्याम्
अविशेषे लुप् विहितः पूर्वेण, विशेषार्थोऽयमारम्भः। श्रवनशब्दादश्वत्थशब्दाच् च उत्पन्नस्य प्रत्ययस्य लुब् भवति संज्ञायां विषये। श्रवणारात्रिः। अश्वत्थो मुहूर्तः। लुपि युक्तवद्भावः कस्मान् न भवति? निपातनात् विभाषा फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः 4.2.23 इति। संज्ञायाम् इति किम्? श्रावणी, आश्वत्थी रात्रिः।
index: 4.2.5 sutra: संज्ञायां श्रवणाश्वत्थाभ्याम्
विशेषार्थोऽयमारम्भः । श्रवणा रात्रिः । अश्वत्थो मुहूर्तः । संज्ञायां किम् । श्रावणी । आश्वत्थी ॥
index: 4.2.5 sutra: संज्ञायां श्रवणाश्वत्थाभ्याम्
संज्ञायां श्रवणाश्वत्थाभ्याम् - संज्ञायाम् । श्रवणाऽआत्थाभ्यां परस्य नक्षत्र प्रत्ययस्य लुप् स्यात्संज्ञायामित्यर्थः । ननु लुबविशेषे॑ इत्येव सिद्धे किमर्थमिदमित्यत आह — विशेषार्थोऽयमारम्भ इति । श्रवणा रात्रिरिति । श्रवणयुक्तचन्द्रमसा युक्ता रात्रिरित्यर्थः ।विभाषा फाल्गुनीश्रवणे॑ति सूत्रे श्रवणेति निर्देशस्य सामान्यापेक्षत्वादपोर्णमास्यामपि युक्तवद्भावो नेति विज्ञायते । अतःश्रवणा रात्रि॑रिति सिद्धमिति प्रकृतसूत्रे भाष्ये स्पष्टम् । अआत्थो मुहूर्त इति । अआत्थो नाम अइआनीनक्षत्रम् । तेन युक्तः अआत्थः — मुहूर्तविशेषो ज्यौतिषे प्रसिद्धः ।
index: 4.2.5 sutra: संज्ञायां श्रवणाश्वत्थाभ्याम्
विशेषार्थोऽयमारम्भ इति । न तु संज्ञायां नियमार्थः; विधिसम्भवे नियमायोगात्,'श्रवणाकार्तिकी' इत्यसंज्ञायामपि लुपो दर्शनाच्च । लुपि युक्तवद्भावः कस्मान्न भवतीति । श्रवणा रात्रिरित्यत्र । निपातनादिति । ङीप्त्वत्र प्रत्ययलक्षणेन भवति; ठण् योऽकारःऽ इति विज्ञानात् ॥