4-1-118 पीलायाः वा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् अण्
'तस्य अपत्यम्' (इति) पीलायाः अण् वा
'तस्य अपत्यम्' अस्मिन् अर्थे 'पीला' शब्दात् अण्-प्रत्ययः विकल्पेन भवति ।
To indicate the meaning of 'his/her offspring', the word पीला gets the अण्-प्रत्यय optionally.
तन्नामिकाणो बाधके <<द्व्यचः>> ४.१.१२१ इति ढकि प्राप्तेऽण् प्रत्ययः पक्षे विधीयते। पीलाया अपत्ये वाण् प्रत्ययो भवति। पीलाया अपत्यं पैलः, पैलेयः॥
तन्नामिकाणां बाधित्वाद्व्यच-<{SK1124}> इति ढकि प्राप्ते पक्षेण्विधीयते । पीलाया अपत्यं पैलः-पैलेयः ॥
'पीला' शब्दात् अपत्यार्थम् विकल्पेन अण्-प्रत्ययः भवति । पक्षे <<द्व्यचः>> 4.1.121 इत्यनेन ढक्-प्रत्ययः अपि विधीयते - 1) पीला + अण् → पैला + अण् [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → पैल् + अण् [<<यस्येति च>> 6.4.148 इति आकारलोपः] → पैल 2) पीला + ढक् → पीला + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ढकारस्य एय्-आदेशः] → पैला + एय [<<किति च>> 7.2.118 इति आदिवृद्धिः] → पैल् + एय [<<यस्येति च>> 6.4.148 इति आकारलोपः] → पैलेय ज्ञातव्यम् - <<समर्थानां प्रथमात् वा>> 4.1.82 अनेन अधिकारेण अपि 'वा' ग्रहणं क्रियते परन्तु तत् भिन्नमस्ति । तत्र तद्धितप्रत्यययोजनस्य विषये विकल्पः उच्यते । वर्तमानसूत्रे विद्यमानः 'वा' शब्दः तु अण्-प्रत्ययस्य वैकल्प्यम् दर्शयति ।
<<कुलटाया वा>> - कुलटाया वा । इनङ्मात्रमिति । व्याख्यानादिति भावः । पूर्वेणैवेति ।स्त्रीभ्यो ढ॑गित्यनेनेत्यर्थः । कुलानि गृहाणि अटतीति रुलटा । शकन्ध्वादित्वात्पररूपम् । अत्रेति ।कुलटाया वे॑ति सूत्रे इत्यर्थः । पक्षे ढ्रगिति । ढ्रगपि कदाचिद्भवतीत्यर्थः । कौलटेर इति । कुलटाया ढ्रकि ढकारस्य एयादेशेलोपो व्यो॑रिति यकारलोप इति भावः ।