विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु

4-1-117 विकर्णशुङ्गच्छगलात् वत्सभरद्वाजात्रिषु प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् अण्

Sampurna sutra

Up

'तस्य अपत्यम्' (इति) वत्स-भरद्वाज-अत्रिषु विकर्ण-शुङ्ग-छगलात् अण्

Neelesh Sanskrit Brief

Up

'विकर्ण' शब्दात् 'वत्स'कुलस्य अपत्यार्थम्, 'शुङ्ग' शब्दात् 'भरद्वाज'कुलस्य अपत्यार्थम्, तथा 'छगल'शब्दात् 'अत्रि'कुलस्य अपत्यार्थम् अण्-प्रत्ययः भवति ।

Neelesh English Brief

Up

To indicate the meaning of 'his/her offspring' - 1) The word विकर्ण when refers to the वत्सकुल, 2) The word शुङ्ग when refers to the भरद्वाजकुल, and 3) The word छगल when refers to the अत्रिकुल get the अण् प्रत्यय.

Kashika

Up

विकर्णशुङ्गच्छगलशब्देभ्यो यथासंख्यं वत्सभरद्वाजात्रिष्वपत्यविशेषेष्वण् प्रत्ययो भवति। वैकर्णो भवति वात्स्यश्चेत्। वैकर्णिरन्यः। शौङ्गो भवति भारद्वाजश्चेत्। शौङ्गिरन्यः। छागलो भवत्यात्रेयश्चेत्। छागलिरन्यः। शुङ्गाशब्दं स्त्रीलिङ्गमन्ये पठन्ति, ततो ढकं प्रत्युदाहरिन्त शौङ्गेय इति। द्वयमपि चैतत् प्रमाणमुभयथा सूत्रप्रणयनात्॥

Siddhanta Kaumudi

Up

अपत्येऽण् वैकर्णो वात्स्यः । वैकर्णिरन्यः । शौङ्गो भारद्वाजः । शौङ्गिरन्यः । छागल आत्रेयः । छागलिरन्यः । केचित्तु 'शुङ्गाः' इत्याबन्तं पठन्ति । तेषां ढक्प्रत्युदाहरणम् । शौङ्गेयः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

अनेन सूत्रेण विशिष्ट-कुलानाम् विषये विशिष्ट-शब्देभ्यः अण्-प्रत्ययः विधीयते - 1) 'वत्स'कुले उत्पनम् विकर्णस्य अपत्यम् = विकर्ण + अण् → वैकर्ण । अन्येषु कुलेषु उत्पनम् विकर्णस्य अपत्यम् = [<<अत इञ्>> 4.1.95 इत्यनेन इञ्-प्रत्ययविधानम् ] विकर्ण + इञ् → वैकर्णि । 2) 'भरद्वाज'कुले उत्पनम् शुङ्गस्य अपत्यम् = शुङ्ग + अण् → शौङ्ग । अन्येषु कुलेषु उत्पनम् शुङ्गस्य अपत्यम् = [<<अत इञ्>> 4.1.95 इत्यनेन इञ्-प्रत्ययविधानम् ] शुङ्ग + इञ् = शौङ्गि । केचन पण्डिताः 'शुङ्ग' इत्यस्य स्थाने 'शुङ्गा' इति आकारान्तस्य (टाप्-प्रत्ययान्तस्य ) शब्दस्य ग्रहणम् कुर्वन्ति - शुङ्गा + अण् → शौङ्ग । अत्र अन्येषु कुलेषु उत्पनम् शुङ्गायाः अपत्यम् दर्शयितुम् <<द्व्यचः>> 4.1.121 इत्यनेन ढक्-प्रत्ययः विधीयते - शुङ्गा + ढक् → शौङ्गेय । 3) 'अत्रि'कुले उत्पन्नम् छगलस्य अपत्यम् = छगल + अण् → छागल । अन्येषु कुलेषु उत्पनम् छगलस्य अपत्यम् = [<<अत इञ्>> 4.1.95 इत्यनेन इञ्-प्रत्ययविधानम् ] छगल + इञ् → छागलि ।

Balamanorama

Up

<<विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु>> - विकर्ण । वत्सादिशब्दैस्तद्वंश्या विवक्षिताः । विकर्ण, शुङ्ग, छगल एभ्योऽण् स्यात्, वत्संवश्ये भरद्वाजवंश्येऽत्रिवंश्ये चापत्ये इत्यर्थः । एतेन वत्सादीनां विकर्ण, शुङ्ग, छगल एभ्योऽण् स्यात्, वत्सवंश्ये भरद्वाजवंश्येऽत्रिवंश्ये चापत्ये इत्यर्थः । एतेन वत्सादीनां मूलपुरुषत्वाद्विकर्णादीन्प्रत्यपत्यत्वाऽसम्भव इति निरस्तम् ।विकर्णादिभ्यो वात्स्यादिष्वेव ऋष्य॑णिति नियमार्थं सूत्रं ।

Padamanjari

Up

अत्र वत्सादीनां मूलप्रकृतीनां वकर्णादीन्प्रत्यपत्यत्वायोगादपत्यप्रत्ययान्तानां वात्स्यादीनां शब्दानां द्वन्द्वेयुगदधिकरणवचनतया प्रत्येकं बहुत्वोपजननातस्य बहुत्वस्य लोपिभिरेव कृतत्वादपत्यप्रत्ययस्य लुका निर्देशः, तदाह - वैकर्णो भवति वात्स्यश्चेदित्यादि ॥