कर्मवत् कर्मणा तुल्यक्रियः

3-1-87 कर्मवत् कर्मणा तुल्यक्रियः प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः कर्तरि

Kashika

Up

index: 3.1.87 sutra: कर्मवत् कर्मणा तुल्यक्रियः


कर्मणि क्रिया कर्म, कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवद् भवति। यस्मिन् कर्मणि कर्तृभूतेऽपि तद्वत् क्रिया लक्ष्यते यथा कर्मणि, स कर्ता कर्मवद् भवति। कर्माश्रयाणि कार्याणि प्रतिपद्यते। कर्तरि शप् 3.1.68 इति कर्तृग्रहणम् इह अनुवृत्तं प्रथमया विपरिणम्यते। यगात्मनेपदचिण्चिण्वद्भावाः प्रयोजनम्। भिद्यते काष्ठं स्वयम् एव। अभेदि काष्ठं स्वयम् एव। कारिष्यते कटः स्वयम् एव। वत्करणं स्वाश्रयमपि यथा स्यात्, भिद्यते कुसूलेन इति। अकर्मकाणां भावे लः सिद्धो भवति। लिङ्याशिष्यङ् 3.1.86 इति द्विलकारको निर्देशः। तत्र लानुवृत्तेर्लान्तस्य कर्ता कर्मवद् भवतीति कुसूलाद् द्वितीया न भवति। कर्मणा इति किम्? करणाधिकरणाभ्यां तुल्यक्रियस्य मा भूत्। साध्वसिश्छिनत्ति। साधु स्थाली पचति। धात्वधिकारात् समाने धातौ कर्मवद्भावः। इह न भवति, पचत्योदनं देवदत्तः, राध्यन्त्योदनं स्वयम् एव इति। कर्मस्थभावकानां कर्मस्थक्रियाणां च कर्ता कर्मवद्भवति, न कर्तृस्थाभावकानां न वा कर्तृस्थक्रियाणाम्। कर्मस्थः पचतेर्भावः कर्मस्था च भिदेः क्रिया। मासासिभावः कर्तृस्थः कर्तृस्था च गमेः क्रिया।

Siddhanta Kaumudi

Up

index: 3.1.87 sutra: कर्मवत् कर्मणा तुल्यक्रियः


॥ अथ कर्मकर्तृतिङ्प्रकरणम् ॥ यदा सौकर्यातिशयं द्योतयितुं कर्तृव्यापारो न विवक्ष्यते तदा कारकान्तराण्यपि कर्तृसंज्ञां लभन्ते । स्वव्यापारे स्वतन्त्रत्वात् । तेन पूर्वं करणत्वादिसत्त्वेऽपि सम्प्रति कर्तृत्वात्कर्तरि लकारः । साध्वसिः छिनत्ति । काष्ठानि पचन्ति । स्थाली पचति । कर्मणस्तु कर्तृत्वविवक्षायां प्राक्सकर्मका अपि प्रायेणाकर्मकाः । तेभ्यो भावे कर्तरि च लकाराः । पच्यते ओदनेन । भिद्यते काष्ठेन । कर्तरि तु ।

कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत्स्यात् । कार्यातिदेशोऽयम् । तेन यगात्मनेपदचिण्चिण्वदिटः स्युः । कर्तुरभिहितत्वात्प्रथमा । पच्यते ओदनः । भिद्यते काष्ठम् । अपाचि । अभेदि । ननु भावे लकारे कर्तुर्द्वितीया स्यादस्मादतिदेशादिति चेन्न । लकारवाच्य एव कर्ता कर्मवत् । व्यत्ययो बहुलं <{SK3433}> लिङ्याशिष्यङ् <{SK3434}> इति द्विलकारकाल्ल इत्यनुवृत्तेः । भावे प्रत्यये च कर्तुर्लकारेणानुपस्थितेः । अत एव कृत्यक्तखलार्थाः कर्मकर्तरि न भवन्ति । किं तु भावे एव । भेत्तव्यं कुसूलेन । ननु पचिभिद्योः कर्मस्था क्रिया विक्लत्तिर्द्विधाभवनं च । सैवेदानीं कर्तृस्था न तु तत्तुल्या । सत्यम् । कर्मत्वकर्तृत्वावस्थाभेदोपाधिकं तत्समानाधिकरणक्रियाया भेदमाश्रित्य व्यवहारः । कर्मणेति किम् । करणाधिकरणाभ्यां तुल्यक्रिये पूर्वोक्ते साध्वसिरित्यादौ मा भूत् । किंच । कर्तृस्थक्रियेभ्यो माभूत् । गच्छति ग्रामः । आरोहति हस्ती । अधिगच्छति शास्त्रार्थः स्मरति श्रद्दधाति च । यत्र कर्मणि क्रियाकृतो विशेषो दृश्यते यथा पक्वेषु तण्डुलेषु यथा वा छिन्नेषु काष्ठेषु तत्र कर्मस्था क्रिया नेतरत्र । न हि पक्वापक्वतण्डुलेष्विव गतागतग्रामेषु वैलक्षण्यमुपलभ्यते । करोतिरूत्पादनार्थः । उत्पत्तिश्च कर्मस्था । तेन कारिष्यते घट इत्यादि । यत्नार्थत्वे तु नैतत्सिद्ध्येत् । ज्ञानेच्छादिवद्यत्नस्य कर्तृस्थत्वात् । एतेन अनुव्यवस्यमानेऽर्थे इति व्याख्यातम् । कर्तृस्थत्वेन यगभावाच्छ्यनि कृते ओलोपे च रूपसिद्धेः । ताच्छील्यादावयं चानश् न त्वात्मनेपदम् ।<!सकर्मकाणां प्रतिषेथो वक्तव्यः !> (वार्तिकम्) ॥ अन्योन्यं स्पृशतः । अजा ग्रामं नयति ।<!दुहिपच्योर्बहुलं सकर्मकयोरिति वाच्यम् !> (वार्तिकम्) ॥

Laghu Siddhanta Kaumudi

Up

index: 3.1.87 sutra: कर्मवत् कर्मणा तुल्यक्रियः


यदा कर्मैव कर्तृत्वेन विवक्षितं तदा सकर्मकाणामप्यकर्मकत्वात्कर्तरि भावे च लकारः ॥

कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत्स्यात् । कार्यातिदेशोऽयम् । तेन यगात्मनेपदचिण्चिण्वदिटः स्युः । पच्यते फलम् । भिद्यते काष्ठम् । अपाचि । अभेदि । भावे । भिद्यते काष्ठेन ॥ इति कर्मकर्तृप्रक्रिया ॥

Balamanorama

Up

index: 3.1.87 sutra: कर्मवत् कर्मणा तुल्यक्रियः


कर्मवत् कर्मणा तुल्यक्रियः - कर्मवत्कर्मणा ।कर्तरि श॑बित्यतः कर्तरीत्यनुवृत्तं प्रथमया विपरिणम्यते ।तुल्या क्रिया यस्य स तुल्यक्रियः कर्ता ।कर्मणे॑त्यनेन कर्मकारकस्था क्रिया विवक्षिता, क्रियायाः कर्मकारकेण तुल्यत्वस्य तत्स्थक्रियामादायैव उपपाद्यत्वात् । तदाह — कर्मस्थयेत्यादिना । कर्मणः कर्तृत्वेन विवक्षायां कर्ता कर्मवदिति यावत् । वत्करणाऽभावे तु कर्मसंज्ञक इत्यर्थशङ्का स्यात् ।तथा सति सकर्मकत्वात्पच्यते ओदनेन भिद्यते काष्ठेनेति भावे लो न स्यात् । कार्यातिदेशोऽयमिति । यद्यपि शास्त्रातिदेशे कार्यातिदेशे वा न फलभेदः, तथापि शास्त्रातिदेशस्यापि कार्यातिदेशार्थत्वातन्मुख्यत्वात्कार्यातिदेश एवाश्रयणीय इत्यर्थः । तेनेति ।स्यु॑रित्यत्रान्वेति । कर्मवत्त्ववचनेन कर्मकार्याणिसार्वधातुके य॑गिति यक्,भावकर्मणो॑रित्यात्मनेपदम्,चिण् भावकर्मणो॑रिति चिण्,स्यसिच्सीयुट्तासिषु॑ इति चिण्वत्त्वं, तत्संनियोगाशिष्ट इट् च स्युरित्यर्थः । कर्मणः कर्त्तृत्वविवक्षायां कर्तरि विहितानि शास्त्राण्येव न स्युरिति भावः । कर्तुरिति । कर्मणः कर्तृत्विविक्षायां कर्तरि लकारे सति तदादेशतिङा कर्तुरभिहितत्वादित्यर्थः । पच्यते ओदन इति । फूत्कारादिपुरुषश्रमातिशयविशेषं विना विक्लित्त्याश्रयो भवतीत्यर्थः । भिद्यते काष्ठमिति । कुठारादिदृढाघातं पुरुषश्रमं विना द्विधा भवतीत्यर्थः । अत्र कर्मणः कर्तृत्वेऽपि कर्मत्वाऽतिदेशाद्यक् । अपाचि अभेदीति । अत्र कर्मवत्त्वाच्चिण् । ननु कर्मणः कर्तृत्वविवक्षायां भावलकारे पच्यते ओदनेन , भिद्यते काष्ठेनेत्यत्र कर्मकर्तुस्तिङाऽनभिहितत्वाद्द्वितीया स्यात्, कर्मवत्त्वातदेशादित्याशङ्कते — नन्विति । परिहरति — नेति । नायमाक्षेप उन्मिषतीत्यर्थः । कुत इत्यत आह — लकार वाच्य एवेति । तच्च कुत इत्यत आह — लिङ्याशिषीति ।व्यत्ययो बहुलँल्लिडआशिष्य॑ङ्ङिति संहितया पाठे लकारात् पूर्वं लकारान्तरंहलो यमा॑मिति लुप्तं प्रश्लिष्यते । ततस्च ल् ल् इति द्विलकारात्सूत्रात् ल् इति षष्ठन्तं 'कर्मवत्कर्मणा' इत्यत्रानुवर्तते । तथाच लः कर्ता कर्मवदिति लभ्यते । वाच्यत्वं षष्ठर्थः । तथा च लकारवाच्यः कर्ता कर्मवदिति पर्यवस्यतीत्यर्थः । अस्त्वेवं, प्रकृते किमायातमित्यत आह — भावे प्रत्यये च कर्तुर्लकारेणानुपस्थितेरिति । तत्र भावस्यैव तद्वाच्यत्वादिति भावः । अत एवेति । लकारवाच्यस्यैव कर्मकर्तुः कर्मवत्त्वविधानादेव कृत्यक्तखलर्थाः प्रत्ययाः कर्मणि विहिताः कर्मकर्तरि न भवन्ति, तस्य लकारवाच्यत्वऽबावेन कर्मवत्त्वस्य तत्राऽप्रवृत्त्तेरित्यर्थः । एतच्च भाष्ये स्पष्टम् । ननुसिनोतेग्र्रासकर्मकर्तृकस्ये॑ति निष्ठानत्ववार्तिकेसिनो ग्रासः स्वयमेवे॑ति भाष्येकथमुदाहृतं, क्तप्रत्ययस्य कर्मकर्तर्यभावादिति चेदुच्यते - अत एव भाष्यात्निष्ठे॑ति सूत्रविहितकर्मार्थकक्तप्रत्ययस्यैव कर्मकर्तर्यभाव इति विज्ञायते ।सिनो ग्रासः स्वयमेवे॑त्यत्र तुगत्यर्थाऽकर्मके॑त्यादिना कर्तरि विहितः क्तप्रत्ययः कर्मकर्तरि भवत्येवेति शब्देन्दुशेखरे विस्तरः । भेत्तव्यं कुसूलेनेति । पुरुषप्रयत्नमनपेक्ष्य कुसूलकर्तृका भिदिक्रियेत्यर्थः । शङ्कते — नन्विति । इदानीमिति । कर्मणः कर्तृत्वविवक्षादशायामित्यर्थः । नतु तत्तुल्येति । तुल्यत्वस्य भेदघटित्त्वादिति भावः । अद्र्धाङ्गोकारेण परिहरति — सत्यमिति । विक्लित्तिर्द्विधाभवनं च कर्मस्थमेव संप्रति कर्तृस्थमिति युक्तं तथापि तयोस्तुल्यत्वाऽभावस्तु नेत्यर्थः । कर्मत्वेपि । कर्मत्वकर्तृत्वे अवस्थे = धर्मविशेषौ तयोर्भेदः स एव उपाधिः = निमित्तं यस्य तताविधं कर्मत्वकर्तृत्वसमानाधिकरणक्रियाभेदमाश्रित्य तुल्यत्वव्यवहार इत्यर्थः । वास्तवभेद#आऽभावेऽपि औपाधिकभेदात्कर्मस्थक्रियातुल्यक्रियत्वं कर्मकर्तृरिति भावः । करणाधिकरणाभ्यामिति । 'असिना छिनत्ति' स्थाल्यां पचती॑त्यत्र करणाऽधिकरणयोर्यो व्यापारः स एव 'असिश्छिनत्ति' स्थाली पचती॑ त्यत्र कर्तृस्थ इति तत्रापि कर्मवत्त्वं स्यात्, तन्निवृत्त्यर्थं कर्मणेति पदमित्यर्थः । ननुकर्मवत्कर्मणे॑त्यत्र 'धातोरेकाच' इत्यतो धातोरित्यनुवर्तते । धातोर्वाच्यया क्रियया तुल्यक्रिय इत्यर्थः । करणत्वाद्यवस्थायां वस्तुतः सन्नपि असिस्थाल्योव्र्यापारो न धातूपात्त इति नोक्तदोष इत्यस्वरसादाह — किंचेति । गच्छति ग्राम इति । मार्गस्य अविषमनिष्कण्टकतया प्रत्यासन्नतया च श्रमं विना प्राप्त्याश्रयो भवतीत्यर्थः । आरोहति हस्तीति । अङ्कुशाऽऽघातादिहस्तिपकव्यापारं विना स्वयमेव न्यग्भवन् आरोहणाश्रयो भवतीत्यर्थः । अधिगच्छतीति । पूर्वाद्र्धमिदम् ।यत्कृपालेशतस्तस्मै नमोऽस्तु गुरवे सदा॑ इत्युत्तराद्र्धम् । गुरुकृपालेशादेव श्रमं विना स्वयमेव शास्त्रार्थोऽधिगच्छति = निश्चयविषयो भवति, स्मृतिविषयो भवति, श्रद्धाविषयो भवतीत्यर्थः । अत्र कर्मकर्तुग्र्रामादेः कर्तृस्थक्रियावत्त्वेन कर्मस्थक्रियावत्त्वाऽभावान्न कर्मवत्त्वम् । अतो न कर्मकार्यम् यगादि.किंतु कर्तृकार्यं शबाद्येवेति भावः । ननु कर्मकर्तुग्र्रामादेः प्राप्त्याद्याश्रयत्वेन कर्मस्थक्रियत्वमस्त्येवेत्यत आह — यत्रेति । यत्रक्रियाकृतो विशेषो = वैलक्षण्यं दृश्यते = प्रत्यक्षमुपलभ्यते, तत्र कर्मणि विद्यमाना क्रिया कर्मस्थक्रियेत्युच्यते इत्यन्वयः । तदुदाहृत्य दर्शयति - यथा पक्वेषु तण्डुलेष्विति ।तण्डुलावस्थापेक्षया विक्लित्तिकृतो विशेषो दृश्यते॑ इति शेषः । अन्यत्रापि क्रियाकृतं वैलक्षण्यमुदाहृत्य दर्शयति — यथा वा छिन्नेषु काष्ठेष्विति ।अच्छिन्नापेक्षया वैलक्षण्यं दृश्यते॑ इति शेषः । 'गच्छति ग्राम' इत्यादौ तु नैवमित्याह — न हीति । ग्रामेष्विति । उपलक्षणमिदम् । पक्वाऽपक्वतण्डुलेषु यथा क्रियाकृतं वैलक्षण्यमुपलभ्यते तथा गताऽगतग्रामे आरूढाऽनारूढहस्तिनि अधिगताऽधिगते स्मृताऽस्मृते श्रद्धिताऽश्रद्धिते च शास्त्रार्थे क्रियाकृतवैलक्षण्यं न दृश्यते इत्यर्थः । ग्राममनादौ कर्तर्येव श्रमादिवैलक्षण्यदर्शनादिति भावः । ननु ज्ञानेच्छयोरिव यत्नस्याऽपि कर्तृस्थत्वात्तद्वाचिनः कृञोऽपि कर्ता न कर्मवत्स्यात् । ततश्चक्रियते घटः स्वयमेवे॑ति यगादिर्न सिद्ध्येदित्याशङ्क्य कृञो न यत्नार्थत्वमित्याह — करोतिरुत्पादनार्थ इति । उत्पत्त्यनुकूलव्यापारार्थक इत्यर्थः । एतच्च भूवादिसूत्रे भाष्ये स्पष्टम् । करोतेरुत्पादनार्थकत्वे तु कर्मस्थक्रियत्वं तत्कर्तुरुपपादयति — उत्पत्तिश्च कर्मस्थेति । उत्पन्ने अनुत्पन्ने च वैलक्षण्यस्य प्रत्यक्ष्टवादिति भावः । तेनेति । कृञः कर्तुः कर्मस्थक्रियत्वेनैत्यर्थः । तथा चक्रियते घटः स्वयमेवे॑त्यत्र यक् । तासि तु चिण्वदिट्पक्षे कारिता, तदभावे तु कर्तेति सिद्धवत्कृत्याह — करिष्यते घट इत्यादीति । चिण्वदिट्पक्षे 'कारिष्यते' इति रूपं, तदभावपक्षे तु 'ऋद्धनोः स्ये' इतीट् — करिष्यते । सीयुटश्चिण्वदिटि — कारिषीष्ट । तदभावे तु — कृषीष्ट । लुङि — अकारि अकृत । नैतदिति । कर्मवत्वं न सिद्ध्येदित्यर्थः ।यततेट इतिवत्सकर्मकत्वमेव न स्यादित्यपि बोध्यम् । एतेनेति । ज्ञानस्य कर्तृस्थत्वव्युत्पादनेनेत्यर्थः । अनुव्यवस्यमानेऽर्थे इति । अर्ते स्वयमेव निश्चयविषयतां संपद्यमाने इत्यर्थः । व्याख्यातमिति । समर्थितमित्यर्थः । कथं समर्थितमित्यत आह — कर्तृस्थत्वेन यगभावादिति । अनुव्यवसायः = निश्चयः, तत्र कर्मकर्ता अर्थः, स न कर्मस्थक्रियः, अर्थे अनुव्यवसायकृतवैलक्षण्याऽभावात्, किंतु कर्तृस्थक्रिय एव, अनुव्यसायकर्तरि देवदत्ते हर्षादिदर्शनात् । ततश्चकर्मवत्त्वाऽभावान्न यक् ।यकि तु कित्त्वात्घुमास्थागापाजहातिसा॑मिति ईत्वे 'अनुव्यवसीयमान' इति स्यादित्यर्थः । ननु यगभावे कथं यकारश्रवणमित्यत आह — श्यनीति । 'षो अन्तकर्मणि' इति धातोरनुव्यवपूर्वादुपसर्गवशेन निश्चयवृत्तेराने कृते श्यनि 'ओतः श्यनी' त्योकारलोपे 'अनुव्यवस्यमान' इति रूपसिद्धेरित्यर्थः । ननु कर्मवत्त्वाऽभावे 'भावकर्मणो' रित्यात्मनेपदाऽभावात्कथमिह लटः शानच्, तस्यात्मनेपदत्वादित्यत आह — ताच्छील्यादाविति ।ताच्छील्यवयोवचनशक्तिषु चान॑शित्यनेन चानशित्यर्थः । तस्य च लादेशत्वाऽभावेन आत्मनेपदत्वाऽभावात् करमवत्त्वाऽभावेऽपि कर्मकर्तरि प्रवृत्तिर्निर्बाधा । तदाह — न त्वात्मनेपदमिति । ननुअन्योन्यं स्पृशतः स्वयमेव यज्ञदत्त देवदत्ता॑वित्यत्रापि कर्मत्वाद्यगादि स्यात् । तत्र हि स्पृशिः संयोगानुकूलव्यापारार्थकः । उभावपि कर्तारौ, कर्मभूतौ च । स्पर्शनक्रियाया एकत्वेऽपि आश्रयभेदात्तद्भेदमाश्रित्य यज्ञदत्तनिष्ठां स्पर्शनक्रियां प्रति देवदत्तस्य कर्मत्वम् । एवं देवदत्तनिष्ठां स्पर्शनक्रियां प्रति यज्ञदत्तस्य कर्मत्वम् ।एवं कर्तृत्वप्युभयोज्र्ञेयम् । एवंच उभयोः कर्तृत्वकर्मत्वसत्त्वादेकस्मिन् कर्तरि कर्मणि वा स्पृशिक्रिया सैवेतरस्मिन् कर्तरि कर्मणि वा वर्तते इति कर्मवत्त्वं स्यात्, आश्रयनिबन्धनं भेदमाश्रित्य तुल्यक्रियत्वोपपत्तेः । स्पृष्टाऽस्पृष्टयोरन्योन्यसंयोगकृतहर्षादितदभावर्सनाचच्चेत्यत आह — सकर्मकाणां प्रतिषेध इति । एककर्मकाणां छिदिभिदिप्रभृतीनां कर्मणः कर्तृत्वविवक्षया अकर्मकाणां कर्तुः कर्मवत्त्वमुक्तम् । ये तु द्विकर्मकाः कर्मणः कर्तृत्वविवक्षायामपि सकर्मका धातवस्तेषां धातूनां कर्मकर्तुः कर्मवत्त्वप्रतिषेधो वक्तव्य इत्यर्थः । अन्योन्यं स्पृशत इति । कर्मवत्त्वे तु यकि तङि च 'स्पृश्येते' इति स्यादिति भावः ।सकर्मकाणां प्रतिषेधः इत्यस्योदाहरणान्तरमाह — अजा ग्रामं नयतीति । अजा ग्रामं स्वयमेव प्राप्नोतीत्यर्थः । अत्र नयनं प्रत्यजायाः कर्मणः कर्तृत्वविववक्षायामपि ग्राममादाय सकर्मकत्वान्न कर्मवत्त्वमिति भाव- । वस्तुतस्तु गते अगते चग्रामे वैलक्षण्याऽभावादेवाऽत्र क्मवत्त्वस्याऽप्राप्तिरिति नेदमस्य वार्तिकस्योदाहरणम् । अत एव भाष्ये अन्योन्यमाश्लिष्यतः, अन्योन्यं स्पृशतः, अन्योन्यं सङ्गृहीत इत्येवोदाहृतमिति शब्देन्दुशेखरे स्पष्टम् । दुहिपच्योरिति ।कर्मवत्त्व॑मिति शेषः । अनयोर्द्विकर्मकत्वादेकस्य कर्मणः कर्तृत्वविवक्षायामपि अन्यकर्मणा सकर्मकत्वात्पूर्ववार्तिकेन कर्मवत्त्वनिषेधे प्राप्ते प्रतिप्रवसोऽयम् ।

Padamanjari

Up

index: 3.1.87 sutra: कर्मवत् कर्मणा तुल्यक्रियः


कर्मवत् कर्मणा तुल्यक्रियः॥ कर्मणा, तुल्यं वर्तत इति कर्मवत्'तेन तुल्यम्' इत्यादिना वतिः,न तु'तत्र तस्येव' इति; तुल्यक्रिय इति प्रतियोगिनि प्रथमानिर्देशात्। अन्यथा तुल्यक्रिये तुल्यक्रियस्येति वा निर्द्देश्यं स्यात्। तथा हि वाक्ये तावद्यतो वतिर्भवति, यश्य प्रतियोगी - उभाभ्यामपि ताभ्यां षष्ठीसप्तम्यौ भवतः,विप्रस्येवास्य शीलम्, मथुरायामिव पाटलिपुत्रे प्राकार इति; उभयोरपि सम्बन्धित्वाद्, आधारत्वाच्च। ततश्चोत्पन्नेऽपि वतौ प्रतियोगिनस्ते एव षष्ठीसप्तम्यावुपतिष्ठेते। तुल्यार्थयोगे तु या तृतीया सोपमानादेव भवति, नोपमेयात्; तुल्यशब्दस्योपमेयनिष्ठत्वात्, तद्यथा - चन्द्रेण तुल्यं मुखमिति ततश्योत्पन्नेऽपि वतावुपमेयात्प्रथमैवावतिष्ठते। कर्मणेति परिभाषिकं कर्म गृह्यते, न लौकिकं क्रिया कर्म; तस्य हि ग्रहणे क्रियया तुल्या क्रिया यस्येति किमुक्तं स्यात् क्रियायाः, यया कयाचन क्रियया तुल्यत्वाद्! अतस्साधनकर्मणो ग्रहणम्। तत्र साध्यसाधनयोरत्यन्तभेदान्मुख्येन कर्माअ क्रियायाः साद्दश्यासम्भवात्कर्मशब्देन तत्स्था क्रिया लक्ष्यते। भवति हि तात्स्थ्याताच्छब्द्यम्, यथा - मञ्चाः क्रोशन्तीति। तदेतदाह - कर्मणि क्रिया कर्मेति। विशेषणस्य वैयर्थ्यं न चेदानीं प्रसज्यते। कर्मणः क्रियया तुल्या न सर्वस्य क्रिया यतः॥ इति ॥ कर्मणः क्रियया तुल्यक्रियः, न साधानान्तरस्येत्येवं प्रतिपत्यर्थत्वादित्याह - कर्मस्थया क्रियया तुल्यक्रिय इति। तुल्यशब्दस्य नित्यसापेक्षत्वात्कर्मस्थया क्रिययेत्येतदपेक्षस्यापि सूत्रवद्वहुव्रीहिर्नानुपपन्नः। तुल्यशब्दोऽयमस्ति साधारणवचनः - एतौ तुल्यधनाविति, साद्दश्यवचनस्तु प्रसिद्ध एव; तत्राद्यस्य ग्रहणे कर्मणेति यदि मुख्यवृत्तिस्तदा कर्तुः कर्मणश्च या साधारणी क्रिया, तत्र यः कर्ता कर्मणा सह साधारणक्रियः सकर्मकेषु यः कर्तेत्युक्तं भवति। तत्र तुल्यक्रिय इत्यनर्थकम्, कर्मणेत्येव वाच्यं स्यात्। कर्मणा सह यः कर्ता प्रतिपाद्यत इत्यर्थः। अथ गौणवृत्तिस्तदायमर्थ - क्रियया हेतुना साधारणक्रियः। कया क्रियया? कर्मस्थया क्रिययेति। एवमपि पचत्योदनं देवदत इत्यत्रापि प्राप्नोति, यासौ कर्मस्था विक्लितिरूपा क्रिया तया साधारणक्रियत्वात्। अतोऽस्मिन्पक्षेऽनिष्ट्रप्रसङ्गः, प्रसिद्धतरश्च सद्दशपर्यायस्तुल्यशब्द इति प्रयुञ्जानः'साद्दश्यवचनस्तुल्यशब्दः, न साधारणवचनः' इत्याचष्टे। कर्तृभूत इति। कर्तरि सम्पन्न इत्यर्थः। च्वेर्विकल्पितत्वादत्राभावः। अथ वा - कर्तृशब्दः कर्तृत्वे वर्तते, भूत इति'भू प्राप्तौ' इत्यस्य ठा धृषाद्वाऽ इति णिजभावे रूपम्, कर्तृत्वं प्राप्त इत्यर्थः। तत्र पचत्योदनमित्यत्र कर्तृकर्मव्यापारह योरतन्यन्तभेदेन साद्दश्याभावात्कर्मवद्भावाभावः। एवमपि भिद्यमानः कुसुलः पात्राणि भिन्नतीत्यत्रापि प्राप्नोति, याद्दशी हि पात्रेषु क्रियाऽवयवविशरणात्मिका ताद्दश्येव कुसूलेऽपि कर्तरि लक्ष्यत इति? नैष दोषः; कर्मस्थया क्रियया तुल्या क्रिया यस्य कर्तुरित्युक्ते कर्तुत्वोपयोगिनी या क्रिया यदावेशादसौ कर्ता भवति सैव क्रिया गम्यते; इह तु पात्रेषु द्दश्यमानं द्विधाभवनं कुसूलेऽपि दैवगत्या द्दष्टमित्येतावन्न पुनस्तत्समावेशादसौ भिनति, स्वयमभिद्यमानोऽपि कुसूल उपरि पतन् पात्राणि भिनत्येव। एवमप्यन्योऽन्यमाश्लिषतः, अन्योऽन्यं स्पृशतः, अन्योऽन्यं गृह्णीतः - अत्र प्राप्नोति, अत्र हि यत्क्रियावेशात्कर्ता भवति सैव कर्मण्यपि दृश्यते? सत्यं द्दश्यते; न सा कर्मत्वोपयोगिनी, न ह्यसौ तदावेशात्कर्म भवति; स्वयमनाश्लिष्यतोऽपि परेणाश्लिष्यमाणस्य कर्मत्वसम्भवात्। तदेतदुक्तं भवति - कर्मणः कर्मत्वोपयोगिनी या क्रिया तया तुल्या यस्य कर्तृत्वोपयोगिनी क्रिया स कर्मण तुल्यक्रियः। एवञ्च यस्यैव कर्मणः कर्मावस्थायां या क्रिया कर्त्रवस्थायामपि यदि सैव क्रिया भवति स कर्ता कर्मवदित्युक्तं भवति। इदमप्यत्रैवोक्तम् -'यस्मिन् कर्मणि कर्तृभूते' पिऽ इति। तस्मिन्नेव कर्मणि कर्त्रवस्थां प्राप्त इति ह्यत्रार्थः। एवञ्च कर्तृकर्मावस्थाभेदादेकस्या अपि क्रियाया भेदाश्रयं साद्दश्यमुपपाद्यम्। अतिदेशो रूपनिमिततादात्म्यव्यपदेशशास्त्रकार्यातिदेशभेदेनानेकविधः, तवादिस्त्रयाणामसम्भवः। व्यपदेशातिदेशस्तु संज्ञापक्षान्न भिद्यते। तत्र वक्तरणमनर्थकम्। अतः शास्त्रातिदेशः, कार्यातिदेश इति द्वावेव पक्षौ। तत्र शास्त्रातिदेशे'भावकर्मणोः' इत्यादिषु शास्त्रेष्वतिदिष्टेषु तेन तेन शास्त्रेण ततत्कार्यं प्रवर्तते, ततश्च'भावकर्मणोः' इत्यस्यावकाशः - शुद्धं कर्म, पच्यते ओदनः,'शेषात्कर्तरि परस्मैपदम्' इत्यस्यावकाशः - शुद्धः कर्ता, पचति पठति; कर्मकर्तर्युभयप्रसङ्गे परत्वात्परस्मैपदं प्राप्नोति? नैष दोषः;'कर्तरि कर्मव्यतीहाहे इत्यतः कर्तृग्रहणमनुवर्तते, तेन कर्तैव यः कर्ता तत्र परस्मैपदम्, कर्मकर्तरि न भविष्यति। इह तर्हि कर्मणि यग् भवतीत्यस्यावकाशः - शुद्धं कर्म, पच्यते, ओदनः,'कर्तरि शप्' इत्यस्यावकाशः - शुद्धः कर्ता, पचति पठति; कर्मकर्तर्युभयप्रसणेó परत्वाच्छप् प्राप्नोति? नैष दोषः;'कर्तरि शप्' इत्यत्र कर्तृग्रहणन्न कर्तव्यम्, सार्वधातुके शबिति सामान्यस्य भावकर्मणोर्यगपवादो भविष्यति, एवं सिद्धे यत्कर्तृग्रहणं क्रियते तस्यैतत्प्रयोजनम् - कर्तैव यः कर्ता तत्र शबादयो यथा स्युः, कर्मापदिष्टे मा भूवन्निति? सत्यं प्रतिविहितमायुष्मता! वृथा पुनरयम्प्रयासः, कार्यातिदेशाश्रयेणैव सिद्धेः। तत्र ह्यनेनैवात्मनेपदम्, अनेनैव यगिति परत्वाद्यगात्मनेपदे सिद्ध्यतः। प्रधानं च कार्यम्, तदर्थत्वादतिदेशान्तराणाम्। अतः कार्यातिदेश कर्तृग्रहणमस्ति, यदपि प्रकृतम्ठ्कर्तरि शप्' इति, तदपि सप्तम्यन्तम्'तुल्यक्रिय' इति प्रथमान्तेन सम्बद्धुअं नार्हति, तत्राह - कर्तरि शबित्यत इति। यगात्मनेपदेत्यादि। लान्तस्य कर्ता कर्मवदिति वक्ष्यमाणत्वाद्यगादीनामेव सम्भव इति भावः। मिद्यते इत्यादीनि त्रीण्यात्मनेपदस्योदाहणानि यगादीनां क्रमेण। कथं पुनः काष्ठस्य भिदां प्रति कर्तृत्वम्, यावता भिद्यतेऽसौ देवदतेन? यो ह्युद्यमननिपातनादि कुठारस्य करोति स भेदने कर्ता उच्यते। सर्वेषामेव कारकाणां प्रातिस्विकोऽवान्तरव्यापारोऽस्ति, अकिंचित्करस्य कारकत्वानुपपतेः। एतच्च कारकप्रकरणे एवोपपादितम्। तत्र च स्वव्यापारे स्वतन्त्रत्वं सर्वत्रैवास्ति। कारके कर्तृव्यापारेण तिरस्कृतत्वातु न्यग्भूतं स्वातन्त्र्यमिति कर्तृत्वं न भवति, करणादिसंज्ञैव भवतीत्येतावत्। सकर्मकास्तु केचिद्धातवः कर्मव्यापारमप्यभिधाय तावत्येवापर्यवस्यन्तस्तदुपसर्जनं कर्तृव्यापारमाचक्षते, तद्यथा - भिदिर्द्धिधाभवनोपसर्जनं द्विधाभावनमाह। न खल्वयमुद्यमननिपातनमात्रवचनः; रजकेऽपि प्रसङ्गात्, सोपि हि वस्त्रमुद्यच्छति निपातयति च। अथ च न भिनतीत्युच्यते; द्विधाभवनाभावात्। एतेन च्छिनतिलुनती व्याख्यातौ। तथा पचिरपि विक्लित्युपसर्जनं विक्लेदनमाह। तत्र यदा कर्मणः सौकर्यातिशयप्रतिपादनाय कर्तृव्यापारो न विवक्ष्यते, तदा निवृतप्रेषणं कर्म स्वक्रियावयवस्थितं निवर्तमाने कर्मत्वे स्वे कर्तृत्वेऽवतिष्ठते। धातुरपि तद्व्यापारमात्रे वर्तते। कथं पुनरुभयवचनो धातुः कर्मव्यापारमात्रवचनो भवति? को विरोधः? अनेकार्था धातवः, समुदायेषु च वृताः शब्दा अवयेष्वपि वर्तन्ते, तदेवं कर्मव्यापारमात्रवाचिषु कर्तृत्वमेव काष्ठादीनाम्, न तु कर्मत्वगन्धोऽप्यस्ति; धातवश्चैते प्रयोगेऽस्मिन्नकर्मकाः, यथा - विक्लिद्यति द्विधा भवतीति; कथं तर्हि कर्मणा तुल्यक्रियः कर्ता? न ब्रूमः - अस्मिन् प्रयोगे यत्कर्म तेन तुल्यक्रिय इति, किं तर्हि? प्रयोगान्तरे यत्कर्म तेन तुल्यक्रिय इति। नन्वेवं पचत्योदनं देवदतः, राध्यत्योदनः स्वयमेव - अत्रापि प्राप्नोति? अत्र परिहारं वक्ष्यति - धात्वधिकारादिति। कर्तृकर्मणोर्धातोरन्यत्रासम्भवादेव सिद्धेस्तदनुवृत्तिरेकत्वविक्षार्था - यस्मिन्नेव धातौ यत्कर्म तेन तुल्यक्रियस्तस्यैव धातोः कर्तेति। तेन धातुभेदे न भविष्यति? आह - अध्यारोपोऽयमस्तु, कोऽर्थः? कृत्स्न एव धात्वर्थः कर्मण्यध्यारोप्यते किमत्र देवदतेन ओदन एव पाकं करोतीति। एवं हि सौकर्यातिशयः सुतरां प्रतिपादितो भवति, करणाधिकरणवत्, यथा - साध्वसिश्च्छिनति, साधु स्थाली पचतीति। तत्र येषु तावत्कृत्स्न एव धात्वर्थः कर्मण्यपि सम्भवति - आत्मना बुद्ध्यते, आत्मना मुच्यते, आत्मना हन्यते, आत्मना ताड।ल्ते इति, तेषु शुद्धे कर्मणि लकारः केन चिद्रूपेण कर्तृत्वम्, केनचिद्रूपेण कर्मत्वमिति। तथा भिद्यते कुसूल इति यत्रापि चेतनो भेता न द्दश्यते तत्र वातातपकालाभिवर्षणानामन्यतमस्य कर्तृत्वम्, अध्यारोपो वा। पच्यते ओदनः स्वयमेव, लूयते केदारः स्वयमेवेत्यादावध्यारोप एव, आत्मनैवोवनः पच्यते, न तु देवदतेनेति, कएवं नाम पाकेऽनुकूलो भवतीत्यर्थः। तदेवं शुद्धे कर्मणि लकारोत्पतेर्नार्थ एतेन। यद्येवम्, भिद्यते कुसूलेनेति भावे लो न स्यात्, सकर्मकत्वात्? अथाप्यत्र भिद्यते कुसूलेनात्मेति कर्मणि व्याख्यायेत। एवमपि भेतव्यं कुसूलेन, ईषद्भेदं कुसूलेनेति भावे कृत्यक्तखलर्था न स्युः? न च तत्रापि कर्मणीति शक्यमाश्रयितुं नपुंसकलिङ्गदर्शनात्। तथा नमते दण्डः स्वयमेव, कारयते कटः स्वयमेव, अचीकरत कटः स्वयमेव - यक्चिणोः प्रतिषिद्धयोरपि शप्चङै न स्याताम्, अकर्तृत्वात्। तस्मात्कर्मव्यापारमात्रवाचिभ्यः कर्तरि भावे च लादय इत्येतदेव साधीयः। तथा च शृतं पाक इत्यत्र पचेः कर्मव्यापारे कर्तृव्यापारे च शृतमिति भवति; द्वयोरपि पाकशब्दाभिधेयत्वात्। एवं हि या विमृष्टा शास्त्रं न करिष्यामिति मतिः, सापि त्याज्या। असति सूत्रे'न दुहस्नुनमां यक्चिणौ' इति प्रतिषेधस्य विषयो न प्रदर्शितः स्यात्। किञ्च, यद्यपि पच्यते ओदनः स्वयमेवेत्यादिकः प्रयोगः कर्मणि समर्थ्यते, कर्तरि तु लकारोत्पतौ पचत्योदन इत्यादिकः प्रयोगोऽपि प्रसज्येत। तस्मादारब्धव्यं सूत्रम्। अत्रोदाहरणेषु कर्त्रन्तरव्युदासार्थ स्वयमिति प्रयुज्यते, न त्वेतदुदाहरणाङ्गम्। प्रयुक्त एतस्मिन्नात्मनेत्यस्यार्थे वृतेः प्राकृतमेवैतत्कर्म स्यात् - स्वाश्रयमपि यथा स्यादिति। असति वत्करणे कर्तुः कर्मसंज्ञा ज्ञायेत, ततश्चानेन कर्मणा सकर्मकत्वाद्'भावे चाकर्मकेभ्यः' इति भावे लो न स्यात्। सति तु तस्मिन्स्वतः प्राप्तस्याकर्मकव्यपदेशस्यानिवर्तनादकर्मकाणां भावे लः सिद्धो भवति, अकर्म काणां भावे यो लो विधीयते स सिद्धो भवतीत्यर्थः। कथं सिद्धो भवति, यावता नित्योऽयमतिदेशः, नित्ये चास्मिंस्तत्र लविधिरपि कर्मकार्यमेवेति स्यादेवातिदेशः? आतिदेशिकाविरुद्धं स्वाश्रयं वतिना प्राप्तते, न तु विरुद्धमपि। न ह्ययं विकल्पार्थः - कदाचित्कर्मवत्, कदाचिन्नेति। अथ लान्तस्य कर्तेति वक्ष्यमाणत्वादेतत्सूत्रप्रवृतेः प्रागेव'लः कर्मणि च' इत्येतत्प्रवृत्तिरङ्गीक्रियते, तच्च प्रवर्तमानमकर्मकत्वाद्भावे कर्तरि च प्रवर्तते, यदा कर्तरि तदाऽयमतिदेश इति भावे लविधिः समर्थ्येत। यद्येवम्, मा भूद्वतिः, लकारवाच्यस्य कर्तुः कर्मसञ्ज्ञैवास्तु, यगात्मनेपदयोस्त्वप्रसिद्धिः परत्वाच्छबादीनां परस्मैपदस्य च प्रसङ्गः; न च कर्मसञ्ज्ञया कर्तृसञ्ज्ञाया बाधः, एकसञ्ज्ञाधिकारादन्यत्र सञ्ज्ञानां समावेशात्? सत्यम्; उक्तोऽत्र परिहारः - तदेतद्वत्करणं सर्वसाद्दश्यार्थम्। तेनोदाहरणेषु काष्ठादिभ्यो द्वितीया न भवति; इत्यरथा कर्मकार्यत्वात्प्राप्नोति, अभिहितत्वान्न भविष्यति। भवेदयं परिहारः शास्त्रातिदेशे, कार्यातिदेशे त्वनेनैव कर्मकार्याणि प्राप्यन्ते, न चात्रानभिहिताधिकारोऽस्तीति स्यादेव द्वितीया। वत्करणातु सर्वसाद्दश्यार्थाद्यथा कर्मण्यभिहितेन भवति, एवं कर्तर्यपीति द्वितीयाभावः। यदा तर्ह्यकर्मकत्वाद्भावे लकारस्तदा प्राप्नोति, तत्राह - -लिङ्याशिष्यङ्त्याइदि। तत्र लग्रहणमनुवृत षष्ठ।ल विपरिणम्यते इत्यभिप्रायेणाह - लान्तस्य कर्तेति। लकारवाच्यः कर्तेत्यर्थः। कुसूलाद् द्वितीया न भवतीति। भिद्यते कुसूलेनेत्यनन्तरोदाहृतेषु उदाहरणेषु तु वत्करणादेव सर्वसाद्दश्यार्थाद् द्वितीयाया अभाव इति भावः। तदेवं वृत्तिकारस्याभिप्रेतम् - एतद्वतिः सर्वसाद्दश्यार्थ इति। किञ्च, नावश्यं द्वितीयैव, कृत्यक्तखलर्था अप्यस्मिन्विषये कर्तर्यतिदेशेन प्राप्नुवन्ति - भेतव्यः कुसूलः स्वयमेव, भिन्नः कुसूलः स्वयमेव, ईषद्भेदः कुसूलः स्वयमेवेति; भअव एव चेष्यन्ते - भेतव्यं कुसूलेन कुसूलस्य वा,'कृत्यानां कर्तरि वा' 'भिन्नं कुसूलेन, ईषद्भेदं कुसूलेनेति। अत्र वार्तिके क्तग्रहणमन्यत्र सहपाठात्पठितम्, यथा - -ककारो गुणवृद्धिप्रतिषेधार्थ इति। भवत्येव ह्यएभ्यो' कर्मकत्वाद्'गत्यर्थाककर्मक' इति कर्तरि क्तः। तथा च'सिनोतेर्ग्रासकर्मकर्तृकस्येति वक्तव्यम्' इति निष्ठा - नत्वे। सिनो ग्रासः स्वयमेवेति कर्तरि क्त उदाहरिष्यते। तस्मात्कृत्यखलर्थेष्वेवैष दोषः, अतस्तत्र लान्तस्य कर्तेत्याश्रयणादेवातिदेशाभावः। कर्मणेति किमिति। धातुवाच्या क्रिया कर्तृ कर्मणोरेव समवेता, तत्र साद्दश्यस्य भेदाधिष्ठानत्वात्कर्तृस्थया क्रियया तुल्यक्रियः कर्ता न सम्भवतीति कर्मस्थैव क्रिया आश्रयिष्यत इति मत्वा प्रश्रः। करणाधिकरणाभ्यामिति। तत्स्थक्रिययेत्यर्थः। साध्वसिश्च्छिनतीति। किं पुनरत्र करणाधिकरणव्यापारमात्रे धातुर्वर्तते? आहो स्वितत्र कृत्स्नधात्वर्थाध्यारोपः? न तावदाद्यकल्पः, तावति धातोरवृतेरसिना च्छिनतत्यत्रापि नैव करणव्यापारो धातुनोपादीयते, केवलं करणत्वादवान्तरव्यापारोऽस्तीत्येतावत्। द्वितीये तु भिन्नक्रियत्वादेवाप्रसङ्गः। तस्मात्करणाधिकरणव्यापारमात्रेऽपि धातोर्वृत्तिमङ्गीकृत्य प्रत्युदाहृतं द्रष्टव्यम्। क्वचितु करणेनापि तुल्यक्रियस्य कर्मवद्भाव इष्यते, यदाह - करणेन तुल्यक्रियः कर्ता बहुलमिष्यते, परिवारयति कण्ट कैर्वृक्षम्, परिवारयन्ते कण्टका वृक्षम् - आत्मनेपदं भवति। वृत्तिकारस्तु'णिचश्च' इत्यात्मनेपदमुपपद्यत इति मन्यमानो नैतदुपसमचष्ट। धात्वधिकारात्समाने धाताविति। एकस्यैव धातोरित्यर्थः। एतच्च प्रागेव व्याख्यातम्। कर्मस्थभावकानामित्यादि। यद्यपि क्रियाभावशब्दयोरभिन्न एवार्थः, तथा च'यस्य च भावेन भावलक्षणम्' इति क्रियापि गृह्यते,'लक्षणहेत्वोः क्रियायाः' 'कर्मणा तुल्यक्रियः' इति च वाचोऽपि; तथाप्यस्मिन् ग्रन्थे भेदेनोपादानादर्थभेदो द्रष्टव्यः - अपरिस्पन्दरूपो धात्वर्थो भावः, परिस्पन्दरूपस्तु क्रिया। क्व पुनरसौ कर्मस्थः? क्व ववा कर्तृ स्थः? केचिदाहुः - येषु कर्मब्यापारोपसर्जनः कर्तृव्यापारोऽभिधीयते तेषु कर्मस्थः, येषु कर्तृ व्यापार एव तेषु कर्तृ स्थ इति। नेति वयम्; प्रधानक्रिया यत्र समवैति कर्तरि कर्मणि वा तत्स्थो धात्वर्थः, यदुद्देशेन कारकव्यापारः सा प्रधानक्रिया, यथा - पचेर्विक्लितिः, गमेर्देअशान्तरप्राप्तिः। एवञ्च कृत्वा न्यग्भवनोपसर्जनन्यग्भाववचनोऽपि रुहिः कर्तृस्थक्रियः - आरोहन्ति हस्तिनं हस्तिपका इति; उपरिदेशप्राप्तेरुद्देश्यायाः कर्तरि समवायात्, तत्रेह कर्मस्थेन व्यापारेण कर्तृव्यापारस्योपमानात्। अस्य चार्थस्य कर्तृस्थव्यापारेष्वसम्भवान्न्यायप्राप्त एवार्थो वृत्तिकारेण दर्शितः। तत्र कर्तस्थव्यापारस्य कर्तृस्थस्य चोदाहरणमात्रं श्लोकेन दर्शयति - कर्मस्थः पचतेर्भाव इति। पच्यते घट इत्यत्र तद्देशस्यैव घटस्य पाक इति भावोऽसौ भवति, कर्मस्थश्च - पच्यते ओदन इत्यत्र परिस्पन्दत एव, पाक्यस्य पाकाभिनिर्वृत्तिरिति कर्मस्थैव पचेः क्रिया भवति। कर्मस्था च भिदेः क्रियेति। भिद्यते कुसूल इत्यत्रावयवविशरणात्मिका भिदिक्रिया भेदस्य परिस्पन्दे सति भवतीति कर्मस्था च भिदेः क्रिया भवति। मासासिभावः कर्तृस्थ इति। मासमास्ते इत्यत्र'कालभावाध्वगन्तव्याः कर्मसञ्ज्ञा ह्यकर्मणाम्' इति मासकर्मकोऽयमासिधातुः, तत्र मासासिधातौ प्रतीयमानोऽर्थो भावः; अपरिस्पन्दरूपत्वात्, स च कर्तृस्थ इत्यर्थः। कर्तृ स्था च गमेः क्रियेति। गमेरर्थः क्रिया, सा च कर्तृ स्थेत्यर्थः। तेनास्यते मासः स्वयमेव, गम्यते ग्रामः स्वयमेवेति न भवति। अथेह कथं कर्मवद्भावः - तस्मादुदुम्बरः सलोहितं पच्यते फलमिति? अत्राहुः - पचिरत्र विषये द्विकर्मकः, वृक्षस्य पाकमन्तरेण फलस्य पाकासम्भवात्। तत्र ठप्रधाने दुहादीनाम्ऽ इति वृक्षोऽकथितं कर्मेति तत्र लकारः, कालस्तु कर्तेति। इदं तु वक्तव्यमेव,'सृजियुज्योः श्यंस्तु' इति'सृजि विसर्गे' 'युजिर्योगे' - अनयोः सकर्मकयोः कर्ता कर्मवद्भवति; तत्र सृजेः श्रद्धोपपन्ने कर्तरि कर्मवद्भावः, यग्विषये च श्यन्, चिण्विषये तु चिणेवेष्यते; सृज्यते मालां देवदतः, श्रद्धया निष्पादयतीत्यर्थः। श्यनि सति प्रकृतेराद्यौदातत्वं भवति, यकि तु सार्वधातुकानुदातत्वे यक एवोदातत्वं स्यात् - -असजि मालाम्, श्रद्धया निष्पादयति स्मेत्यर्थः।'युजिर्' - युज्यते ब्रह्मचारी योगेन॥