क्रमः परस्मैपदेषु

7-3-76 क्रमः परस्मैपदेषु दीर्घः शिति

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

क्रमः परस्मैपदपरे शिति परतो दीर्घो भवति। क्रामति, क्रामतः, क्रामन्ति। परस्मैपदेष्विति किम्? आक्रमत आदित्यः। इह उत्क्राम, संक्रामेति हेर्लुकि कृते <<न लुमताङ्गस्य>> १.१.६३ इति प्रत्ययलक्षणप्रतिषेधाद् दीर्घो न प्राप्नोति। नैष दोषः। लुमता शब्देन लुप्ते यदङ्ग तस्य कार्ये स प्रतिषेधः। न च हौ क्रमिरङ्गम्। किं तर्हि? शपि॥

Siddhanta Kaumudi

Up

क्रमेर्दीर्घः स्यात्परस्मैपदपरे शिति । क्राम्यति । क्रामति । चक्राम । क्राम्यतु । क्रामतु ॥

Laghu Siddhanta Kaumudi

Up

क्रमो दीर्घः परस्मैपदे शिति। क्राम्यति, क्रामति। चक्राम। क्रमिता। क्रमिष्यति। क्राम्यतु, क्रामतु। अक्राम्यत्, अक्रामत्। क्राम्येत्, क्रामेत्। क्रम्यात्। अक्रमीत्। अक्रमिष्यत्॥ {$ {! 16 पा !} पाने $} (धातुपाठे <{01.1074}>) ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<क्रमः परस्मैपदेषु>> - क्रमः । दीर्घः स्यादिति ।शमामष्टाना॑मित्यतस्तदनुवृत्तेरिति भावः । शितीति ।ष्ठिवुक्लम्वाचमा॑मित्यतस्तदनुवृत्तेरिति भावः । क्रामत्विति । मध्यमपुरुषैकवचने क्रमेत्यत्र तुक्रमः परस्मैपदेष्वि॑ति दीर्घो भवत्येव । नच दीर्घस्याङ्गाधिकारस्थत्वान्नलुममेति निषेधः शङ्क्यः, लुमता लुप्ते प्रत्यये यदङ्गं तस्य कार्य एव तस्य प्रवृत्तेः । शिति परतः क्रमेरङ्गस्य दीर्घस्तु न लुप्तप्रत्यये परस्मैपदे परे अङ्गस्य कार्यं, किंतु शिति परे अङ्गस्य कार्यमिति बोध्यम् ।

Padamanjari

Up

इहेत्यादि । चोद्यम् । हेर्लुकि कृत इति । ठतो हेःऽ इत्यनेन । नैष दोष इत्यादि परिहारः ।'न लुमताङ्गस्य' इत्यत्र हि प्रत्यसातेरयमर्थो व्यवस्थापितः, - लुमता लुप्ते प्रत्यये यदङ्गं तन्निबन्धनं कार्यं न भवतीति । ततः किम् ? इत्यत्राह - न चेति ॥