3-1-71 यसः अनुपसर्गात् प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः सार्वधातुके कर्तरि श्यन्
कर्त्तरि सार्वधातुके अनुपसर्गात् यसः धातोः परः श्यन् वा
कर्तरि सार्वधातुके प्रत्यये परे अनुपसर्गात् यस्-धातोः श्यन् विकरणप्रत्ययः विकल्पेन भवति ।
In presence of a सार्वधातुक प्रत्यय in the कर्तरि प्रयोग, the verb यस् when used without an उपसर्ग gets the श्यन् विकरण optionally.
<<यसु प्रयत्ने>> दैवादिकः। तस्मान्नित्यं श्यनि प्राप्तेऽनुपसर्गाद् विकल्प उच्यते। यसोऽनुपसर्गाद् वा श्यन् प्रत्ययो भवति। यस्यति, यसति। अनुपसर्गादिति किम् ? आयस्यति। प्रयस्यति॥
यसुँ (प्रयत्ने) अयं दिवादिगणस्य धातुः । अस्मात् धातोः <<दिवादिभ्यः श्यन्>> इत्यनेन नित्यं श्यन्-प्रत्यये प्राप्ते वर्तमानसूत्रेण सः विकल्प्यते । श्यन्-प्रत्ययस्य अभावे औत्सर्गिकरूपेण <<कर्तरि शप्>> 3.1.65 इत्यनेन शप्-प्रत्ययः भवति । यथा - यसते, यस्यते । 'यस्' धातुः उपसर्गेण सह आगच्छति चेत् अस्य सूत्रस्य प्रसक्तिः नास्ति, अतः उपसर्गपूर्वस्य यस्-धातोः नित्यं श्यन्-प्रत्ययः भवति । यथा - आयस्यति, प्रयस्यति । ज्ञातव्यम् - 'सम्+यस्' इत्यत्र <<संयसश्च>> 3.1.72 इति अग्रिमसूत्रेण श्यन् पुनः विकल्प्यते ।
<<यसोऽनुपसर्गात्>> - यसोऽनुपसर्गात् ।
यसोऽनुपसर्गात्॥ दैवादिक इति। दिवादिपाठोऽस्य सोपसर्गार्थः। अनुपसर्गादिति किमिति।'सम्यसश्च' इत्येतत्सम एवोपसर्गान्नान्यस्मादिति नियमार्थ भविष्यतीति भावः। आयस्यति, प्रयस्यतीति। तुल्यजातीयानां हलन्तानामेव व्यावृत्तिः स्यादिति मन्यते॥