7-3-75 ष्ठिवुक्लमुचमां शिति दीर्घः
index: 7.3.75 sutra: ष्ठिवुक्लमुचमां शिति
ष्ठिवु क्लमि आचम् इत्येतेषां दीर्घो भवति शिति परतः। ष्ठीवति। क्लमु क्लामति। आचमाचामति। क्लमिग्रहणम् शबर्थम्। चमेराङ्पूर्वस्य ग्रहणम्। इह मा भूत्, वमति। विचमति।
index: 7.3.75 sutra: ष्ठिवुक्लमुचमां शिति
एषामचो दीर्घः स्याच्छिति ।<!आङि चम इति वक्तव्यम् !> (वार्तिकम्) ॥ आचामति । आङि किम् । चमति । विचमति । अचमीत् । जिमिं केचित्पठन्ति । जेमति ।{$ {!473 क्रमु!} पादविक्षेपे$} ॥
index: 7.3.75 sutra: ष्ठिवुक्लमुचमां शिति
ष्ठिवुक्लम्याचमां शिति - ष्ठिवुक्लम्वाच ।शमामष्टानां दीर्घः श्यनी॑त्यतो दीर्घ इत्यनुवर्तते । दीर्घश्रुत्या अच इत्युपस्थितम् । तदाह — — एषामचो दीर्घ इति । ष्टिवु क्लमु आचम् एषां द्वन्द्वः । आचमित्यनेन आङपूर्वकस्य चमेग्र्रहणम् । अचमीदिति ।ह्म्यन्ते॑ति न वृद्धिः । क्रमु पादेति । उदित्त्वमुदितो वेति विकल्पार्थम् ।
index: 7.3.75 sutra: ष्ठिवुक्लमुचमां शिति
क्लामतीति ।'वा भ्राश' इत्यादिना शप् । क्लमिग्रहणं शबर्थमिति । श्यनि पूर्वेणैव सिद्धत्वात् । शमादिषु पाठश्चिन्त्यप्रयोजनः; श्यन्यप्यनेनैव सिद्धत्वात् । तत्र सप्तग्रहणमेवास्तु, चमेराङ्पूर्वस्य ग्रहणं तन्त्रम्, न तूपेयिवानित्यादिवदविवक्षितम् ? इत्याह - चमेराङिति ।'दीर्घत्वमाङ् चिमः' इति वार्तिकस्याप्ययमेवार्थः ॥