सामन्त्रितम्

2-3-48 सा आमन्त्रितम् अनभिहिते प्रथमा सम्बोधने च

Kashika

Up

index: 2.3.48 sutra: सामन्त्रितम्


सम्बोधने या प्रथमा तदन्तं शब्दरूपमामन्त्रितसंज्ञं भवति। तथा च एव उदाहृतम्। आमन्त्रितप्रदेशाः आमन्त्रितं पूर्वमविद्यमानवत् 8.1.72 इत्येवमादयः।

Siddhanta Kaumudi

Up

index: 2.3.48 sutra: सामन्त्रितम्


संबोधने या प्रथमा तदन्तमामान्त्रितसंज्ञं स्यात् ॥

Balamanorama

Up

index: 2.3.48 sutra: सामन्त्रितम्


साऽऽमन्त्रितम् - सामन्त्रितं । प्रातिपदिकार्तसूत्रोपात्ता प्रथमा 'सा' इत्यनेन परामृश्यते ।संबोधने चे॑त्यतः 'संबोधने' इत्यनुवर्तते । तदाह-संबोधने इत्यादिना ।तदन्त॑मिति प्रत्ययग्रहणपरिभाषालभ्यम् । महासंज्ञाकरणात्संज्ञाविधावपि तदन्तग्रहणम् । अत एव हे है भो इत्यादीनामपि संज्ञा सिद्धा ।

Padamanjari

Up

index: 2.3.48 sutra: सामन्त्रितम्


सामन्त्रितम्॥ तदन्तं यच्छब्दरूपमिति। महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम् - आमन्त्रणमामन्त्रितमिति। अभेदोपचारातत्साधने शब्दे वर्तते विभक्त्यन्तेन केवलया संज्ञाविधौ प्रत्ययग्रहणे तदन्तस्य ग्रहणमिति भावः। उदाहरणेषु ठामन्त्रितस्य चऽ इत्याद्यौदातत्वं भवति, सेति वचनं प्रातिपदिकार्थसूत्रेणापि संबोधने विहिता या प्रथमा तदन्तस्यापि संज्ञा यथा स्यात् - हे पचन्! हे पचमान!;असति तु तस्मिन् ठनन्तरस्य विधिर्वा प्रतिषेधो वाऽ इत्यनन्तरसूत्रविहिताया एव स्यात्॥