सम्बोधने च

2-3-47 सम्बोधने च अनभिहिते प्रथमा

Kashika

Up

index: 2.3.47 sutra: सम्बोधने च


आभिमुख्यकरणं, तदधिके प्रातिपदिकार्थे प्रथमा न प्राप्नोतीति वचनमारभ्यते। सम्बोधने च प्रथमा विभक्तिर्भवति। हे देवदत्त। हे देवदत्तौ। हे देवदत्ताः।

Siddhanta Kaumudi

Up

index: 2.3.47 sutra: सम्बोधने च


इह प्रथमा स्यात् । हे राम ॥ इति प्रथमा ॥

Laghu Siddhanta Kaumudi

Up

index: 2.3.47 sutra: सम्बोधने च


प्रथमा स्यात्। हे राम। इति प्रथमा॥

Balamanorama

Up

index: 2.3.47 sutra: सम्बोधने च


सम्बोधने च - संबोधने च । इहेति । संबोधनेऽधिके गम्येऽपि प्रथमा स्यादित्यर्थः । संबोधमभिमुखीकृत्य ज्ञापनम् । हे रामेति ।मां पाही॑ति शेषः । इह रामं प्रति मद्रक्षणं ज्ञाप्यम् । नचहे राजन्सार्वभौमो भव॑ इत्यत्र सार्वभौमशब्दादपि संबोधने प्रथमा स्यादिति वाच्यं, सम्यग्बोधनमेव हि संबोधनं, समित्युपसर्गबलात् । श्रोतरि विसिष्य राजत्वादिना ज्ञाते सत्येव तं प्रति कश्चिदर्थौ ज्ञापयितुं शक्यः, नान्यथा । ततश्च संबोधनविभक्तिरियमनुवाद्यविषयैवेति लभ्यते । न तु विधेयविषया । तथाच सार्वभौमत्वस्य विधेयस्य इदानीमसिद्धत्वेन अनुवाद्यत्वाऽभावान्न सार्वभौमशब्दात्संबोधनविभक्तिरिति मञ्जूषायां विस्तरः । [इति प्रथमा] ।

Padamanjari

Up

index: 2.3.47 sutra: सम्बोधने च


सम्बोधने च॥ आभिमुख्यकरणमिति। यद्वस्तु येनाकारेण सिद्धं तस्य तेनाकारेणाभिमुखीकरणं सम्बोधनम्, न त्वेकश्रुतिविधाविव कस्यचिदर्थस्यानुष्ठेयता प्रत्यायनम्; वाक्यार्थो हि सः। अभिमुखीकरणं तु न वाक्यार्थः, येन वीरः पुरुष इत्यादिवद्यदत्राधिक्यं स वाक्यार्थ इति प्रथमा सिद्ध्येत्। यस्य पदान्तरसंप्रयोगे सत्येव प्रतीतिः स वाक्यार्थः। इह तु देवदतेत्येतावत्युक्ते आभिमुख्यकरणं गम्यते, अतः पदार्थ पदार्थ एवात्राधिक्यमिति षष्ठ।लं प्राप्तायामिदं वचनं तदाह - तदधिके प्रातिपदिकार्थ इति। असिद्धेन चाकारेणाभिमुखीकरणं न संभवति - राजा भव युध्यस्व स्वाहेन्द्रशत्रुर्वर्द्धस्वेति। हे पचन् हे पचमानेत्यादौ शतृशानचोः संबोधने विधानेऽपि विभक्तिरहितयोस्तयोः कर्त्राद्यभिधान एव सामर्थ्यम्; यथा लोटो द्विर्वचननिरपेक्षस्येत्यनेन प्रथमा भवति। यद्वा - अभिहितः सोऽर्थोऽन्तभूतः प्रातिपदिकार्थः संपन्न इति पूर्वेण भविष्यति, योगविभाग उतरार्थः॥