8-1-71 तिङि च उदात्तवति पदस्य अनुदात्तं सर्वम् अपादादौ गति
गतिरिति वर्तते। तिङन्त उदात्तवति परतो गतिरनुदात्तो भवति। यत् प्र॒पच॑ति। यत् प्र॒क॒रोति॑। तिङ्ग्रहणमुदात्तवतः परिमाणार्थम्। अन्यथा हि यं प्रति गतिः, तत्रानुदात्तो भवतीति धातावेवोदात्तवति स्यात्, प्रत्यये न स्यात् — यत् प्र॒क॒रोति॑ इति। <<यत्क्रियायुक्ताः प्रादयस्तेषां तं प्रति गत्युपसर्गसंज्ञे भवतः>> (महाभाष्य १.७५) इति तिङन्ते धातुमेव प्रति गतिसंज्ञा। आमन्ते तर्हि न प्राप्नोति — प्रपचतितराम्, प्रपचतितमामिति? अत्र केचिदामन्तेन गतेः समासं कुर्वन्ति। तेषामव्ययपूर्वपदप्रकृतिस्वरत्वे ६.२.२ सत्यक्रियमाणेऽपि तिङ्ग्रहणे परमनुदात्तवद् भवतीति गतिनिघातो नैव सिध्यति। अथ तरबन्तस्य गतिसमासः? एवमपि सतिशिष्टत्वादाम एव स्वरे सति गतेः <<अनुदात्तं पदमेकवर्जम्>>६.१.१५८ इत्येवानुदात्तत्वं सिद्धम्। येषां <<गतिकारकोपपदानां कृद्भिः समासवचनं प्राक् सुबुत्पत्तेः>> इत्यनेन वचनेन कृदन्तेनैव प्राक् सुबुत्पत्तेः समासो भवति नान्येनेति दर्शनम्, तेषामेवंविधे विषये समासेन नैव भवितव्यमिति। पृथक्स्वरप्रवृत्तौ सत्यामनेन निघातेन प्रयोजनमस्ति। तदर्थं यत्नः कर्तव्यः। उदात्तवतीति किम्? प्रप॑चति। प्रक॑रोति॥
गतिरनुदात्तः । यत्प्रपचति । तिङ्ग्रहणमुदात्तवतः परिमाणार्थम् । अन्यथा हि यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गतिस्तत्र धातावेवोदात्तवति स्यात् प्रत्यये न स्यात् । उदात्तवति किम् । प्रपचति ॥ इति तिङन्तस्वराः ॥ अथ वैदिकवाक्येषु स्वरसञ्चारप्रकारः कथ्यते- 'अग्निमीळे' इति प्रथमर्क् । तत्राग्निशब्दोऽव्युत्पत्तिपक्षे 'फिष..' (फिट् १) इत्यनोदात्त इति माधवः । वस्तुतस्तु घृतादित्वात् । व्युत्पत्तौ तु निप्रत्ययस्वरेण । अम्सुप्त्वादनुदात्तः । अमि पूर्वः <{SK194}> इत्येकादेशस्तु एकादेश उदात्तेन <{SK3658}> इत्युदात्तः । ईळे । तिङ्ङततिङः <{SK3135}> इति निघातः । संहितायां तु उदात्तादनुदात्तस्य <{SK3660}> इतीकारः स्वरितः । स्वरितात्संहितायाम् <{SK3668}> इति 'ळ' इत्यस्य प्रचयापरपर्याया एकश्रुतिः । पुरःशब्दोऽन्तोदात्तः 'पूर्वाधरावराणाम्-' <{SK1975}> इत्यसिप्रत्ययस्वरात् । हितशब्दोऽपि धाञो निष्ठायाम् दधातेर्हिः <{SK3076}> इति ह्यादेशे प्रत्ययस्वरेणान्तोदात्तः । पुरोऽव्ययम् <{SK768}> इति गतिसंज्ञायां कुगति- <{SK761}> इति समासे समासान्तोदत्ते तत्पुरुषे तुल्यार्थ- <{SK3736}> इत्यव्ययपूर्वपदप्रकृतिस्वरे गतिकारकोपपदात्कृत् <{SK3873}> इति कृदुत्तरपदप्रकृतिस्वरे थाथादिस्वरे च पूर्वपूर्वोपमर्देन प्राप्ते गतिरनन्तरः <{SK3783}> इति पूर्वपदप्रकृतिस्वरः । पुरःशब्दोकारस्य संहितायां प्रचये प्राप्ते उदात्तस्वरितपरस्य सन्नतरः <{SK3669}> इत्यनुदात्ततरः । यज्ञस्य । नडः प्रत्ययस्वरः । विभक्तेः सुप्त्वादनुदात्तत्वे स्वरितत्वम् । देवम् । पचाद्यच् । फिट्स्वरेण प्रत्ययस्वरेण चित्स्वरेण वान्तोदात्तः । ऋत्विक्छब्दः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः । होतृशब्दस्तृन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः । रत्नशब्दो नब्विषयस्य (फिट् २६) इत्याद्युदात्तः । रत्नानि दधातीति रत्नधाः । समासस्वरेण कृदुत्तरपदप्रकृतिस्वरेण वान्तोदात्तः । तमपः पित्त्वादनुदत्तत्वे स्वरितप्रचयावित्यादि यथाशास्त्रमुन्नेयम् । । इति स्वरप्रकरणम् । इत्थं वैदिकशब्दानां दिङ्मात्रमिह दर्शितम् । तदस्तु प्रीतये श्रीमद्भवानीविश्वनाथयोः ॥